________________
5
10
[ कर्णिकासमन्विता उपदेशमाला । गाथा - २९२ - २९६ ] राधावेधोपमानेन कथञ्चिदुत्कृष्टां कर्मस्थितिमतीत्यायुर्वज्र्जानां सप्तानामपि कर्मणां स्थितीरेकस्याः सागरोपमकोटीकोटेरन्तरानीय अपूर्वकरणेन ग्रन्थिभेदविधानपूर्वं चिन्तामणिरत्नोपमं विशुद्धं धर्मबोधिमधिगम्य, तदनुष्ठाने सुतरां यत्नो विधेय इति ॥ २९२॥ बहवश्च एवम्भूता इत्याहसंघयणकालबल - दूसमारुयालंबणाई घित्तूणं ।
सव्वं चिय नियमधुरं, निरुज्जमाओ पमुच्वंति ॥२९३॥
४०६
यथा ‘न शक्तिमत् शरीरमिति, नाऽयं कालो दुर्भिक्षत्वात्, नास्ति बलं मानसं धृत्यभावात्, इयं च दुःषमा च भगवता क्लिष्टा समादिष्टा क्व तस्यां धर्माचरणम्, वाताद्याधिक्येन रोगाक्रान्ता वयम् - एवंरूपाणि क्रमेण संहनन-काल-बल - दुःषमा - रुगालम्बनानि अलीकावष्टम्भान् गृहीत्वा स्वीकृत्य सर्वामेव कर्तुं शक्यामपि, नियमधुरां संयमोद्वहनलक्षणां निरुद्यमादालस्यतः शैथिल्यात् प्रकर्षेण मुञ्चन्तीति ॥२९३॥
25
प्रेक्षावता पुनर्यद्विधेयं तदाह
कालस्स य परिहाणी, संजमजोगाई नत्थि खित्ताई ।
जयणाए वट्टियव्वं, न हु जयणा भंजए अंगं ॥२९४॥
कालस्य वर्त्तमानस्य परिहाणिसः । चशब्दात्तद्वशेन द्रव्यक्षेत्रभावानामपि । अत एव संयमयोग्यानि न सन्ति सम्प्रति क्षेत्राणि । अतो यतनया गुणागुणादानहानलक्षणया वर्त्तितव्यं यापनीयम् । यतो न हु नैव 15 यतना क्रियमाणा भनक्ति नाशयत्यङ्गं संयमशरीरमिति ॥२९४॥
यतनामेव सविषयामाह
समिई- कसाय - गारव - इंदिय-मय- बंभचेरगुत्तीसु ।
सज्झाय-विणय-तव-सत्तिओ अ जयणा सुविहियाणं ॥ २९५॥
समितय ईर्यासमित्याद्याः पञ्च कषायाः क्रोधादयश्चत्वारः । गारवाणि ऋद्ध्यादीनि त्रीणि । इन्द्रियाणि 20 स्पर्शनादीनि पञ्च । मदा जात्यादयोऽष्टौ । ब्रह्मचर्यगुप्तयो वसत्याद्या नव द्वन्द्वे च तासु तद्विषये । स्वाध्यायो वाचनादिः । विनयोऽभ्युत्थानादिः । तपोऽनशनादि । शक्तिश्चित्तोत्साहः । तेषां द्वन्द्वे, सप्तमीविषये तसि च स्वाध्यायविनयतपःशक्तिषु तेषु विषयेषु यतना केरणाकरणरूपा सुविहितानां साधूनां भवतीति गाथासमासार्थः ॥२९५॥
1
अथैतदेव प्रतिपदं व्याख्यातुं समितिषु प्रथमामाह
जुगमित्तंतरदिट्ठी, पयं पयं चक्खुणा विसोर्हितो । अव्वक्खित्ताउत्तो, इरियासमिओ मुणी होइ ॥ २९६ ॥
युगमात्रान्तरदृष्टिश्चतुष्करप्रमाणान्तराल भूमिविलोकन: सन्, अत्र चातिदूरासन्ननिरीक्षणैर्जन्त्वदर्शनयोगातिप्रवृत्तिदोषाद्युगमात्रक्षेत्रनियमनम् । पदं पदं चक्षुषा विशोधयन् पार्श्वतः पृष्ठतश्चोपयोगं ददान इत्यर्थः । अव्याक्षिप्तः शब्दादिषु रागद्वेषावगच्छन् । आयुक्तः प्रक्रमाज्जीवदयात्मके संयमे एवंविध ईरणमर्या 30 तस्यां सम्यग् इतः ईर्यासमितो यथागमं गमनशीलो मुनिर्भवतीति ॥ २९६॥
१. गुणगणा... D, K । २. करणरूपा -- B, L, KI