________________
४०७
15
[कर्णिकासमन्विता उपदेशमाला । गाथा-२९७-२९८ ] अथ भाषासमितियतनामाह
कज्जे भासइ भासं, अणवज्जमकारणे न भासइ य ।
विगहविसुत्तियपरिवज्जिओ य जइ भासणासमिओ ॥२९७॥ कार्ये ज्ञानादिके भाषते भाषां तत्रापि अनवद्याम् अपापाम् । अकारणे निष्प्रयोजनां पुनर्न भाषते न च वक्ति च । अत एव विकथा स्त्र्यादिविषया विश्रोतसिका मनोविपरिणामजनिता दुष्टान्तर्जल्परूपा, ताभ्यां 5 परिवजितः सर्वथा विरहितः । चशब्दात्षोडशवचनविधिज्ञश्च यतिः साधुर्भाषणा वाक् तस्यां समितः सदाचार इति ॥२९७।। वचनविधयश्चेमे
"कालतियं लिङ्गतियं वयणतियं तह परोक्खपच्चक्खं ।
उवणयवयणचउक्कं अज्झत्थं चेव सोलसमं" ॥१॥ [प्र.सा./८९६] अथैषणासमितियतनामाह
बायालमेसणाओ, भोयणदोसे य पंच सोहेइ ।
सो एसणाए समिओ, आजीवी अन्नहा होइ ॥२९८॥ द्विचत्वारिंशतम् एष्यते मार्यते पिण्डोऽमूभिरित्येषणाः सामान्यव्युत्पत्त्या आधाकर्मादीन् दोषान् इत्यर्थः । तथा भोजनदोषांश्च पञ्च शोधयति परिहरति । स साधुरेषणायां समित इत्युच्यते आजीवी जीविकामात्रफलधर्मध्वजादानतात्पर्योऽन्यथा तद्वैपरीत्ये गुणशून्यतया भवतीति ॥२९८॥
द्विचत्वारिंशदोषाश्चैवं ज्ञेयाः । यथा"आहाकम्मुद्देसिय १-२ पूइयकम्मे ३ य मीसजाए ४ य । ठवणा ५ पाहुडियाए ६, पाउअर ७ कीय ८ पामिच्चे ॥१॥[पि.नि./९२] परियट्टिए १० अभिहडे ११ उब्भिन्ने १२ मालोहडे १३ चेव । अच्छिज्जे १४ अणिसटे १५ अज्झोवरए १६ अ सोलसमे" ॥२॥ [पि.नि./९३]
20 व्याख्या-यत्षट्कायविराधनया यतिन आधया सङ्कल्पेन अशनादिकरणं तदाधाकर्म । यत्पुनर्गृहिणा स्वार्थं कृतं पश्चाद् व्रत्युद्देशेन पृथक् क्रियते तदौदेशिकं तत् त्रेधा -तत्र यद्यथासमुद्वृत्तं तत्तथाभूतमेव यावर्थिकादीनां चतुर्णामुद्दिश्यमानमुद्दिष्टौद्देशिकम् ॥१॥ यत्पुनः कूरादि दध्यादिना व्यञ्जनादिना वा जीवविराधनां विना संस्क्रियते तत्कृतौदेशिकम् ॥२॥ यत्तु अग्न्यादिना जीवविराधनापूर्वं संस्क्रियते तत्कर्मोंदेशिकम् ॥३॥ तत् त्रिविधमपि चतुर्द्धा यावदर्थिकमुद्देशम् ॥१॥ पाखण्डिभ्यः समुद्देशं ॥२॥ श्रमणेभ्य आदेशं 25 ॥३॥ निर्ग्रन्थेभ्यः समादेशम् ॥४॥ एवं द्वादशधा औद्देशिकम् ॥२॥ यदुद्गमकोटिदोषदुष्टसङ्गात् शुद्धमपि अपवित्रं तत् पूतिकर्म ॥३॥ यदात्मनो हेतोर्गृहस्थेन यावदर्थिकादिहेतोश्च मिलितमारभ्यते तन्मिश्रम् ॥४॥ यद्यतिनिमित्तं गृही स्थापयित्वा मुञ्चति तत् स्थापना ॥५॥ यत् स्वनिमित्तमपि गृही वतिन आगन्तून् जिगमिषून् वा ज्ञात्वा अर्वाक् परतो वा तदर्थमारभते सा प्राभृतिका ॥६॥ यत् सान्धकारस्थितस्य यतिनिमित्तं दीपादिना प्रकटनं बहिरालोके नयनं वा तत् प्रादुष्करणम् ॥७॥ यत् स्वकीयपरकीयाभ्यां द्रव्यभावाभ्यां मूल्येन 30
१. आधाय - C आराधया - K, D। २. मुद्दिशमा... L, A, B | ३. पूर्व.... A, BI टि. 1. स्वकीयद्रव्यमूल्येनस्वकीयभावमूल्येनपरकीयद्रव्यमूल्येन परकीयभावमूल्येन इत्यन्वयः ।