________________
४०५
[कर्णिकासमन्विता उपदेशमाला । गाथा-२८९-२९२] स्वाधीनस्वामित्वं धर्मज्ञानमेवाभिलिप्सूनां लक्षणमाह
संसारचारए चारए व्व आवीलियस्स बंधेहिं ।
उव्विग्गो जस्स मणो, सो किर आसन्नसिद्धिपहो ॥२८९॥ संसारे चरणं चारः स एव चारकस्तत्र संसारचारके भवभ्रमणे । चारके इव कारागारे इव ।। आपीडितस्य बन्धैः कर्मभिरन्यत्र रज्ज्वादिभिः । उद्विग्नं भग्नं यस्य मनो यदुत-कथमितो निस्सरिष्यामीति स 5 जीव: किलेति आप्ता ब्रुवते आसन्नसिद्धिपथोऽभ्यर्णमुक्तिमार्ग इति ॥२८९॥ किञ्च
आसन्नकालभवसिद्धियस्स, जीवस्स लक्खणं इणमो ।
विसयसुहेसु न रज्जइ, सव्वत्थामेसु उज्जमइ ॥२९०॥ आसन्न एव काले भवा भाविनी सिद्धिर्यस्य तस्याऽथवा आसन्नकाले एव समीपतरावसाने एव भवे 10 सिद्धिर्यस्य तस्यासन्नकालभवसिद्धिकस्य जीवस्य लक्षणं लिङ्गमिदं यदुत विषयसुखेषु न रज्यते, न रागं याति सर्वस्थानेषु मोक्षसाधकेषु तपश्चरणादिषु उद्यच्छति उद्यम कुरुते । अथवा सर्वस्थाम्ना विद्यमानं बलमनपलपन् उद्यच्छति ॥२९०॥ ननु दुःषमायां विशिष्टसंहननादिरहितैः कथमुद्यमनीयमित्यत आह
होज्ज व न व देहबलं, धिईमईसत्तेण जइ न उज्जमसि ।
अच्छिहिसि चिरं कालं, बलं च कालं च सोयंतो ॥२९१॥ भवेद्वा न वा देहबलं धृत्याऽऽत्मनः प्रणिधानेन मत्या बुद्ध्या सत्त्वेन चित्तावष्टम्भेन, त्रयाणां द्वन्द्वैकवद्भावात्तेन यदि न उद्यच्छसि तदा धर्मशील ! त्वं आसिष्यसे स्थास्यसि चिरं कालं प्रभूतसमयं बलं च शारीरं, कालं च दुःषमारूपं शोचन् तच्छोचनेन च न किञ्चित् परित्राणं दैन्यवृद्धिरेव केवलमिति ॥२९१॥ यस्तु सम्प्रत्यशक्तोऽहमन्यजन्मनि तु विशेषोद्यमं करिष्ये इति चिन्तयेत्तं प्रत्युपदिशति- 20
लद्धिल्लियं च बोहिं, अकरितोऽणागयं च पत्थितो ।
अन्नं दाइं बोहिं, लब्भिसि कयरेण मुल्लेण ? ॥२९२॥ लब्धामेव स्वार्थिककप्रत्यये लब्धिका स्वाधीनां वर्तमानकालिकी बोधिं जिनधर्मावाप्तिम् असत्कर्माधीनतया अर्कुवन्निति सदनुष्ठानेन साफल्यमप्रापयन्ननागतां भाविनी प्रार्थयन् 'अन्नं दाइंति असूयावाचकोऽथवा इदानीं बोधि लप्स्यसे कतरेण मूल्येन ? इदमत्राकूतं जिनधर्मावाप्तौ तप:संयमाराधनस्य 25 तदनुष्ठानवासनातिशयजनिततत्संस्कारस्य प्रेत्याऽपि संस्कारप्रबोधरसातिरेकवशात्तथैव प्रवृत्तिरेव हि बोधिरुच्यते । ततस्तदनुष्ठानरहितस्य कौतस्कुतो धर्मसंस्कारः ? कुतस्तरां च प्रेत्य तद्बोध इति बोधिलाभस्य मूलाभावादनुत्थानमेव स्यात् । तस्मादनादित एव संसारचारिणा जीवेन यथाप्रवृत्तकरणवशात्, अनाभोगत एव
१. आवीलियव्व - D, A, B | २. मनपलपमानमुद्य...KH मपलपन् तेन उद्य...D, L,C, K, B|३. आशिष्यसे - D आस्यसि - H आसिष्यसि - BI