________________
5
10
४००
[कर्णिकासमन्विता उपदेशमाला । गाथा-२६६-२६७] अथैकागारिकोत्तंसप्रशंसामुखरान्नरान् । अभयोऽधारयत्सर्वान् पप्रच्छाऽऽम्रहतिं च ताम् ॥३८॥ शुद्धिमिङ्गितवाक्यानां परीक्ष्याऽथ धियांनिधिः । मुमोचान्यांस्तमेवैकं मातङ्गं निरधारयत् ॥३९॥ अभयोऽथाऽभयं दत्त्वा चौरमूचेऽधुना यदि । ब्रवीषि सत्यं तत्पत्युः श्रेणिकादपि मोचये ॥४०॥ तस्माद्विद्याबलं ज्ञात्वा विज्ञप्तः श्रेणिकोऽवदत् । अस्याभयं तदा दद्यां विद्यां दद्यादयं यदि ॥४१॥ तथेत्यङ्गीकृताऽऽदेशं सदेशं श्रेणिकेशितुः । तं निनायाऽभयो विद्यावन्तमन्तावशायिनम् ॥४२॥ कृत्वाऽथ विजनं विद्यां स जनङ्गमतो नृपः । अधीयन् भद्रपीठस्थो नाध्यगच्छद्धरास्थितात् ॥४३॥ नाऽध्यापयति सत्येन कुप्यन्तमिति भूपतिम् । अभयोऽभिदधे विद्या विनयेनाऽधिगम्यते ॥४४॥ अथ सिंहासनासीनात्ततोऽन्तेवासिनो गुरोः । नृपोऽन्तेवासितामेत्य सुधीविद्यामधीतवान् ॥४५॥ गुरुः पिता गुरुर्माता गुरुस्तीर्थं गुरुः श्रुतम् । देवादपि गुरुः पूजां ततः प्रथममर्हति ॥४६॥
इति श्रेणिक-श्वपाककथानकम् । एवमपि श्रुत्वा गुरुनिढुवानानां दोषमाह
विज्जाए कासवसंतियाए, दगसूयरो सिरिं पत्तो।
पडिओ मुसं वयंतो, सुयनिण्हवणा इय अपच्छा ॥२६७॥ भावार्थावगमाय प्रथममाख्यानकम्
___ [त्रिदण्डिकथानकम् ॥] पुरे स्तम्बपुरे विद्याबलादम्बरलम्बिना । चण्डिलः क्षुरभाण्डेन क्षुरकर्म सदाकरोत् ॥१॥ छन्नं विनयतः कश्चिद् भिक्षुर्भागवतो मुनिः । आराध्य विधिवद्विद्यामादत्ताम्बरलम्बिनीम् ॥२॥ अथोत्तरपथोत्तंसं पुरं गजपुरं गतः । त्रिदण्डेनाऽम्बरस्थेन पूज्यते स्म स नागरैः ॥३॥ राज्ञा पद्मरथेनाऽथ ख्यातिमाकर्ण्य पूजितः । पृष्टश्च ते तप:शक्तिर्विद्याशक्तिरुतेदृशी ॥४॥ ऊचे भागवतो राजन् ! विद्याशक्तिरियं मम । प्राह राजा गुरुस्तर्हि कस्ते कुत्राऽस्ति सोऽधुना ॥५॥ निढुवानो गुरुं दाण्डाजनिकः काश्यपं ह्रिया । कपोलकल्पनादूचे त्रिदण्डी दण्डधारिणम् ॥६॥ विमुक्तिदेवपादास्ते हिमवत्पादवासिनः । गुरवो मम तेषां हि साक्षादजनि भारती ॥७॥ गुरोरपह्नुतिक्रोधान्मन्त्रदेवी त्रिदण्डिकम् । व्योम्नः कृतखटत्कारमपातयदिलातले ॥८॥
दृढभूमितयैवाऽयं विषयग्रामतो ह्रिया । योगीव दृशमाकृष्य लयं निन्येऽन्तरात्मनि ॥९॥ 25 गुर्वपह्नवकर्तारं व्रीडितं हसितं जनैः । तं श्रुत्वा साधुभिः कार्यो न क्वचिन्निह्नवो गुरोः ॥१०॥
इति त्रिदण्डिकथानकम् ॥ अथाऽक्षरार्थः-विद्यया काश्यपसत्कया हेतुभूतया दकशूकरो नित्यस्नानशीलत्वात् त्रिदण्डी, श्रियं
टि. 1. सदेशं - समीपम् । 2. अन्तावशायी - अन्ते पर्यन्तदेशेऽवशेते - चण्डालः । 3. जनङ्गमः - मातङ्गः । 4. चण्डिल: - नापितः । 5. दाण्डाज[जि]निक: - मायावी।
15