________________
४०१
[कर्णिकासमन्विता उपदेशमाला । गाथा-२६७-२७२] पूजां प्राप्तः । पतितो मृषां वदन् नीचैर्भूतः अलीकं भाषमाणः गुर्वपलापे च तत्त्वतः श्रुतापलाप इत्यत आहश्रुतनिह्नवनमित्येवमपथ्यं स्त्रीलिङ्गनिर्देशः प्राकृतत्वादिति ॥२६७॥ परमोपकारित्वात् पूजा. गुरुरित्याह
सयलम्मि वि जियलोए, तेण इहं घोसिओ अणाघाओ।
इक्कं पि जो दुहत्तं, सत्तं बोहेइ जिणवयणे ॥२६८॥ सकलेऽपि जीवलोके तेन महात्मना इह घोषितो वाक्पटहेन अनाघातोऽमारिरित्यर्थः । । एकमपि 5 किं पुनर्बहून् यो दुःखार्तं सत्त्वं प्राणिनं बोधयति जिनवचने भगवत्प्रवचने । स हि बुद्धः सर्वविरतो मुक्तो वा यावज्जीवं सर्वकालं वा सर्वजन्तून् रक्षतीति भावः ॥२६८॥ अत एव
सम्मत्तदायगाणं, दुप्पडियारं भवेसु बहुएसु ।
सव्वगुणमेलियाहि वि, उवयारसहस्सकोडीहिं ॥२६९॥ सम्यक्त्वदायकानां विशिष्टदेशनया सम्यग्भावदायिनां दुष्प्रतिकारं प्रतिकर्तुमशक्यं भवेषु बहुषु 10 वर्तमानाभिः सर्वगुणमीलिताभिर्द्वित्रिचतुराद्यनन्तैर्गुणकारैः सङ्घटिताभिरपि उपकारसहस्त्रकोटीभिस्ताभिरपि न तेषां प्रत्युपकर्तुं शक्यत इति हृदयम् ॥२६९॥ कुत एतत् ? सम्यक्त्वस्य महागुणत्वादित्याह
सम्मत्तंमि उ लद्धे, ठइआई नरयतिरियदाराई। दिव्वाणि माणुसाणि अ, मोक्खसुहाइं सहीणाई ॥२७०॥
15 सम्यक्त्वे तत्त्वार्थ श्रद्धानलक्षणे, तुशब्दात् अबद्धायुष्केण, लब्धे सति स्थगितानि पिहितानि नरकतिर्यग्द्वाराणि उपलक्षणत्वात्तद्गतिप्रवेशमुखानि एवमनर्थविघातकत्वमुक्तम् । अथार्थसम्पादकत्वमाहदिव्यानि स्वर्भवानि मानुषाणि मर्त्यजानि सुखानीति, चशब्दस्य व्यवहितसम्बन्धादिहापि सम्बध्यते, मोक्षसुखानि च स्वाधीनानीति ॥२७०॥ यथा चैतत्तथा चाहकुसमयसुईण महणं, सम्मत्तं जस्स सुट्ठियं हियए ।
20 तस्स जगुज्जोयकर, नाणं चरणं च भवमहणं ॥२७१॥ कुसमयश्रुतीनां विरुद्धसिद्धान्तश्रवणानां मथनम् उपमर्दकं तद्वासनाऽपनोदनक्षमं सम्यक्त्वं यस्य सुस्थितं हृदये तस्य जगदुद्द्योतकरं केवलालोकरूपं ज्ञानं चरणं च सर्वसंवररूपं भवमथनं संसारक्षयकारि भवत्येवेति शेषः । तदेवं दर्शने सति तद्भवेऽन्यभवे वा अक्षेपमोक्षसाधकयोनिचारित्रयोरवश्यंभावात्तदेव प्रधानम् इति लक्षयति ॥२७१॥ मोक्षसाधने तु रत्नत्रयमपि समं व्याप्रियते इत्याह
सुपरिच्छियसम्मत्तो, नाणेणालोइयत्थसब्भावो ।
निव्वणचरणाउत्तो, इच्छियमत्थं पसाहेइ ॥२७२॥ सुपरीक्षितसम्यक्त्वो दृढसम्यग्दर्शनः सन् ज्ञानेनालोकितार्थसद्भावः प्रकाशितजीवादितत्त्वो निव्रणचरणायुक्तो निरतिचारचारित्रोपयुक्त इष्टमर्थं मोक्षं प्रसाधयतीति । तदिदमवेत्याऽक्षेपमोक्षसाधने सम्यग्दर्शनेऽप्रमादिना भाव्यम् ॥२७२॥ प्रमादात् तन्मालिन्योपपत्तेरित्याह
30
25