________________
5
10
३९८
[ कर्णिकासमन्विता उपदेशमाला । गाथा - २६५-२६६ ] विज्ञप्येति गते तत्र शिवं मुग्धगणोऽभ्यधात् । अयं ते सेवको यादृग् ज्ञातं तादृक् त्वमीश्वरः ॥१६॥ ईशिताऽवोचतैनं च वचः कौरुकुचीरुचिम् । स्वस्य तस्य च ताताऽसि ज्ञातासि स्वयमन्तरम् ॥१७॥ गत्वा स्वं धार्मिको धाम तामतीत्य निशामथ । शय्योत्थायं प्रगे भूयः शिवधाम जगाम सः ॥१८॥ नत्वा तत्र शिवस्यैकमविलोक्य विलोचनम् । हृतमेनः कृता केन भालाक्षीति रुरोद सः ॥१९॥ रुदित्वा चिरमाक्रुश्य नित्यकृत्यमथ व्यधात् । मध्याह्नानन्तरं तावत्पुलिन्दोऽपि समासदत् ॥२०॥
दूनः सोऽथ दृगूनस्य शिवस्याऽवेक्षणेक्षणे । स्वेनाऽक्ष्णा बाणकृष्टेन रुद्रमूर्त्तिमपूजयत् ॥२१॥ अव्यङ्गलोचनं तोषात् तं विधाय त्रिलोचनः । भक्तेः कलिन्दकं साक्षादथाऽवादीत् पुलिन्दकम् ॥२२॥ वत्स ! तुष्टोऽस्मि भक्त्या ते बहुमानातिमानया । मत्प्रसादाद्विभूतिस्ते प्रभूतैव भविष्यति ||२३|| शिष्यो गुरुमुपासीत पुलिन्दः स यथा शिवम् । अंशेनैतावताचार्यैर्दृष्टान्तोऽयमुदाहृतः ॥२४॥ इति शिव - पुलिन्दककथानकम् ॥
20
किञ्च
सीहासणे निसन्नं, सोवागं सेणिओ नरवरिंदो ।
विज्जं मग्गइ पयओ, इय साहुजणस्स सुयविणओ ॥ २६६॥
सिंहासने निषण्णं श्वपाकं श्रेणिको नरवरेन्द्रो, विद्यां मार्गयति प्रार्थयते, प्रयतो विनयादतिप्रयत्न15 परः । इत्येवमनेनोदाहरणेन साधुजनस्य श्रुतविनयः श्रुतदातुरेवं साधुभिर्विनयः कार्य इति ॥२६६॥ अत्र कथा— [ श्रेणिक - श्वपाककथानकम् ॥]
पुरे राजगृहेऽराजन्महाराजशिरोमणिः । अत्युल्बणगुणश्रेणिः श्रेणिकः शक्रविक्रमः ॥१॥ चेल्लणा महिषी तस्याऽन्येद्युराग्रहतोऽब्रवीत् । प्रासादः सुन्दरो मह्यमेकस्तम्भो विधीयताम् ॥२॥ सोऽगणेयगुणग्रामं ग्रामण्यं मन्त्रिणामथ । धामैकस्तम्भमाधातुमभयं सुतमादिशत् ॥३॥ वर्द्धकिस्तस्य चाऽऽदेशादरण्ये तरुमुत्तमम् । लक्षणोज्ज्वलमालोक्य तस्य मूले बलिं व्यधात् ॥४॥ उपोषितोऽधिवास्यैनमध्युवास निशां च सः । तुष्टोऽधिष्ठायकश्चाऽस्याऽभयमेत्य सुरोऽब्रवीत् ॥५॥ एकस्तम्भं महासौधं तथा सर्वर्तुकं वनम् । सप्राकारं करिष्येऽहं मम वृक्षो विमुच्यताम् ॥६॥ अभयानुमतोऽथाऽयं व्यन्तरो विदधे ततः । तरुरच्छिन्न एवास्थाच्चेल्लणाऽपि मुदं दधौ ॥७॥ सर्वर्तुकतरुव्रातैस्तदापूर्णं सदाफलैः । सदैव दैवतोद्यानं रक्षकैः परिरक्ष्यते ॥८॥
25 पुरेऽत्र कार्त्तिके मासि मातङ्गपतिमन्यदा । ययाचे दयिताऽऽम्राणि विद्यासिद्धं स्वदोहदात् ॥९॥ तस्मिन् सुरकृते राजाऽऽक्रीडे निशि बहिः स्थितः । आम्राणि सोऽवनामन्या विद्ययैव किलाऽग्रहीत् ॥१०॥ नीत्वा प्रत्यवनामन्या स्थाने शाखां पुनस्तरोः । पल्न्यास्तं दोहदं स्तैन्याद्दिवाकीर्त्तिरपूरयत् ॥११॥
१. शिवस्यवेक्षणः क्षणे - L शिवस्या विक्षणेक्षणे - B शिवस्यवेक्षणक्षणे - AI
टि. 1. असि (अव्य०) त्वम् । 2. ज्ञातासि श्वस्तनीद्वि०पु० एकवचनम् । 3. दृष्टिरहितत्वईक्षणे इति वाच्यम् । 4. आक्रीड:उद्यानम्, तस्मिन् । 5. दिवाकीर्तिः - चण्डालः ।