________________
३९६
[कर्णिकासमन्विता उपदेशमाला । गाथा-२५९-२६३] तथाहि
घेत्तूण वि सामनं, संजमजोएसु होइ जो सिढिलो ।
पडइ जई वयणिज्जे, सोयइ य गओ कुदेवत्तं ॥२५९॥
न केवलमकृतधर्मैव शोचति, यावद् गृहीत्वाऽपि श्रामण्यं संयमयोगेषु भवति यः शिथिलः 5 प्रमादी पतति यतिर्वचनीये निन्दायोग्यतायां शोचति च गतः कुदेवत्वं किल्बिषिकादिभावम् 'हा कि मया मानुषादिसामग्रीमवाप्याऽपि ईदृशमनुष्ठितमिति ॥२५९॥ यतः
सोच्चा ते जियलोए, जिणवयणं जे नरा न जाणंति ।
सोच्चाण वि ते सुच्चा, जे नाऊणं न वि करेंति ॥२६०॥
शोच्यास्ते जीवलोके ये नरा जिनवचनं न जानन्ति । नरत्वस्य निर्विवेकत्वेन पशुनिविशेषत्वात् । 10 शोच्यानामपि मध्ये ते शोच्याः कृपास्पदं ये ज्ञात्वाऽपि प्रवचनं नैव कुर्वन्तीति ॥२६०॥
कथमेवमित्याह
दावेऊण धणनिहि, तेसिं उप्पाडियाणि अच्छीणि ।
नाऊण वि जिणवयणं, जे इह विहलंति धम्मधणं ॥२६१॥
दर्शयित्वा धननिधि रत्नादिनिभृतभृतभाजनं तेषां जाल्मानामुत्पाटितानि उद्वृत्तानि अक्षीणि लोचनानि 15 ज्ञात्वापि जिनवचनं ये इह लोके विफलयन्ति धर्म एव सद्गतिसम्पत्तिहेतुत्वाद्धनं धर्मधनं तत्राऽप्रवृत्तेरिति ॥२६१।। तत्राऽपि भवितव्यतैव हेतुरित्याह
ठाणं उच्चुच्चयरं, मझं हीणं व हीणतरगं वा ।
जेण जहिं गंतव्वं, चेट्ठा वि से तारिसी होइ ॥२६२॥ 20 स्थानं पदम् उच्चं देवत्वम् उच्चतरं मोक्षाख्यं मध्यं मानुष्यकाख्यं हीनं वा तिर्यक्त्वं हीनतरं वा
नारकत्वं वाशब्दौ तद्गताऽनेकभेदसंसूचकौ, येन जीवेन यत्र देशे काले वा गन्तव्यं चेष्टाऽपि से तस्य तादृशी तदनुरूपा भवतीति ॥२६२॥ तामेव दुर्गतिहेतुं चेष्टां तावदाह
जस्स गुरुम्मि परिभवो, साहूसु अणायरो खमा तुच्छा ।
धम्मे य अणहिलासो, अहिलासो दुग्गईए उ ॥२६३॥ यस्य गुरौ परिभवः यो गुरुविषयम् अभिभवं करोतीत्यर्थः । साधुषु अनादरो नञः पर्युदासतया, अवज्ञा क्षमा तुच्छा अल्पा नास्ति वा । धर्मे श्रुतचारित्रात्मकेऽनभिलाषोऽनिच्छा । यत्तदोर्नित्याभिसम्बन्धात्त
स्याऽभिलाषः परमार्थतो दुर्गतावेव तुरवधारणे, तया चेष्टया स दुर्गतिमिच्छतीति । चारित्रात्मनो व्रतिनोऽप्येव• मुक्तम् । गृहस्थस्तु य एवं स दुर्गतितोऽप्यधिकं वाञ्छतीति ज्ञेयम् ॥२६३॥ व्यतिरेकमाह
१. दुर्गतेरेव - C।
25