________________
5
10
15
20
25
३८८
[ कणिकासमन्विता उपदेशमाला । गाथा - २४७] पुरे द्रङ्गरवेणेति घोषिते दानवद्विषा । सहस्रः कृतिनामेको व्रताय समनह्यत ॥३३॥ अभिषिच्य विभूषयाऽथ महोत्सवपुरःसरम् । राजार्हनृविमानेषु प्रत्येकमधिरोपितैः ||३४||
तैः समं शिबिकारूढः स्वयं स हरिणा स्तुतः । स्थापत्यानन्दनः प्रापन्नन्दने श्रीजिनान्तिकम् ॥३५॥ युग्मम् ॥ नत्वा विधिवदुन्मुच्य रुच्यमङ्गस्य मण्डनम् । आत्मना कृतलोचं तं दीक्षयामास तीर्थकृत् ॥३६॥
हरिः परिच्छदैः साकं स्थापत्याद्या जनाश्च ते । जग्मुर्निजं निजं स्थानं भर्तुः श्रुत्वाऽनुशासनम् ॥३७॥ सोऽपि सामायिकप्रष्ठां द्वादशाङ्गीं किलाखिलाम् । अध्यगीष्ट तपोनिष्ठः स्थापत्यानन्दनो मुनिः ॥३८॥ शिष्यैः सह सहस्रेण तैरेव परिवारितः । श्रीनेमेराज्ञया सूरिविजहार स भूतले ॥३९॥
स शैलकपुरे पद्मावतीजानिं महानृपम् । प्रबोध्य शैलकं चक्रे द्वादशव्रतधारिणम् ॥४०॥ ततः सौगन्धिकापुर्यां नीलाशोकवने स्थितः । जातख्यातिर्जनव्रातैरनेकैः स नमस्कृतः ॥४१॥ प्रसिद्धिश्रवणाऽऽक्षिप्तः परिव्राजामुपासकः । तस्मिन् सुदर्शन श्रेष्ठी तं नन्तुं कौतुकादगात् ॥४२॥ धर्मं विनयमूलं स श्रेष्ठी श्राद्धजनोचितम् । निशम्य निपुणं भेजे सूरिपार्श्वे सुदर्शनः ॥ ४३ ॥ तस्य पूर्वगुरुः प्रत्यायातो देशान्तराच्छुकः । वृतो शिष्यसहस्रेणागमत्तन्मूलमुत्सुकः ॥४४॥ विनयेन विना वीक्ष्य स परिव्राट् सुदर्शनम् । उवाच वाचमाचार्यात् प्राप्तो धर्मः कुतस्त्वया ॥४५॥ तं परिव्राजकाचार्यं प्रत्युवाच सुदर्शनः । धर्माचार्यश्चतुर्ज्ञानी स्थापत्यासूनुरत्र मे ॥४६॥
समुत्सुकः शुकः शस्तैः शकुनैः ससुदर्शनः । नीलाशोकवनाराममुपाचार्यमुपागमत् ॥४७॥ त्रिधा नानार्थसामान्योपचारवचनैश्छलम् । स्वात्मव्याघातकैर्वाक्यैर्बुवन् जात्युत्तरं च सः ॥४८॥ अनेकान्तार्णवावर्त्तगर्त्तसम्पातकातरः । निरुत्तरतरश्चक्रे स्थापत्यासूनुना शुकः ॥४९॥ युग्मम् ॥ मिथ्यात्वोर्ज्जस्विमार्जारदुर्गमे गुरुणा शुकः । सम्यक्त्वपञ्जरेऽक्षेपि तत्संशयभयच्छिदा ॥५०॥ शिष्यैः सहाददे दीक्षामथाचार्यान्तिके शुकः । द्वादशाङ्गीमधीयाय क्रमेण च महातपाः ॥५१॥ गुरुणाऽपि गुरूकृत्य शिष्यैस्तैरेव संयुतः । अनुज्ञातः शुकाचार्यो विजहार धरातले ॥५२॥ पुण्डरीकाचले मासानशनी सपरिच्छदः । स्थापत्यापत्यमप्याप निष्पापः परमं पदम् ॥५३॥ विहरंश्च शुकाचार्य शैलकस्य पुरं गतः । स्थितो मृगवनोद्याने वन्दितोऽभ्येत्य भूभुजा ॥५४॥ शैलकोऽपि शुकाचार्यात्कर्णामृतकिरं गिरम् । नृपो निशम्य निर्वाणभवदावव्यथोऽजनि ॥५५॥ मद्रुकं तनयं राज्येऽभिषिच्य नृपतिर्व्रतम् । पन्थकादिमहाऽमात्यपञ्चशत्या सहाऽग्रहीत् ॥५६॥ अधीतैकादशाङ्गोऽथ शैलकोऽपि महातपाः । प्राप्तसूरिपदानुज्ञः पावनीमवनीं व्यधात् ॥५७॥ भूरिकालं विहृत्याऽथ शुकः शिवपदोत्सुकः । सहस्रेण वृतः शिष्यैः शत्रुञ्जयगिरिं ययौ ॥५८॥ अवाप्य केवलज्ञानं सोऽपि मासमुपोषितः । जगाम धाम सिद्धानां सिद्धानन्तचतुष्टयः ॥५९॥ अरसैर्विरसैः कालातिक्रान्तैः पानभोजनैः । शैलकस्याऽन्यदा रोगो दुस्सहः सहसाऽभवत् ॥६०॥
टि. 1. दानवद्विट् - कृष्णः, तेन ।