________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा - २४०-२४४ ] तथा
संवच्छर- चाउम्मासिएसु, अट्ठाहिआसु अ तिहीसु । सव्वायरेण लग्गड़, जिणवरपूआतवगुणेसु ॥२४१ ॥
सांवत्सरिक-चातुर्मासिकेषु उपलक्षणत्वात्पाक्षिकेष्वपि अष्टाहिकासु चैत्रादियात्रासु । चशब्दस्य सम्बन्धव्यवधानात्तिथिषु पञ्चमीअष्टमीर्पञ्चदशीषु, सर्वादरेण लगति ढौकते जिनवरपूजा - तपोगुणेषु 5 भगवदर्च्चनेऽष्टमषष्ठचतुर्थादिकरणे, ज्ञानादिषु चेत्यर्थः ॥२४१॥ तथा—
साहूण चेइयाण य, पडिणीयं तह अवण्णवाइं च । जिणपवयणस्स अहियं, सव्वत्थामेण वारे ॥ २४२ ॥
साधूनां चैत्यानां च प्रत्यनीकं तथा अवर्णवादिनम् अश्लाघाकारिणं च । किं बहुना ? जिनप्रवचनस्याहितं विपक्षं सर्वस्थाम्ना यावच्छक्तिजीवितव्यव्ययेनाऽपि वारयति जिनशासनोन्नतिकरणस्य महोदय- 10 हेतुत्वादिति ॥ २४२ ॥ सामान्येन श्रावकगुणानुक्त्वा तानेव विशेषत आह
विरया पाणिवहाओ, विरया निच्चं च अलियवयणाओ । विरया चोरिक्काओ, विरया परदारगमणाओ ॥ २४३ ॥
३८५
विरताः कृतनिषेधाः प्राणिवधात् प्रक्रमान्निरपराधत्रसजीवानां सङ्कल्पपूर्वं हिंसातः । विरता नित्यं च अलीकवचनात् कन्यागवादिविषयात् स्थूलाद् विरताश्चौर्यात् स्थूलाद् विरताः परदारागमनात् परस्त्रीसम्भोगादिति ॥ २४३॥ तथा
15
विरया परिग्गहाओ, अपरिमियाओ अणंततण्हाओ । बहुदोससंकुलाओ, नरयगइगमणपंथाओ ॥ २४४॥
विरताः परिग्रहाद् धनधान्यक्षेत्रवास्तुरूप्यस्वर्णकुप्यद्विपदचतुष्पदभेदेन नवविधात् । अपरिमितात् अकृतपरिमाणात् परिमाणादूर्ध्वम् अकृतनियमस्य हि अप्राप्नुवतोऽपि तृष्णा स्यादित्याह दुष्पूरमूर्च्छातिरेकात् । यदुक्तम्
अनन्ततृष्णात: 20
" इच्छा हु आगाससमा अणंतिआ" [ ] । तथा" तृष्णा खानिरगाधेयं दुष्पूरा केन पूर्यते ।
या महद्भिरपि क्षिप्तैः पूरणैरेव खन्यते" ॥१॥ [ ] इति
-
बहुदोषसङ्कुलात् राजचौराद्युपद्रवनिमित्ततया शारीरमानससन्तापहेतोः । अत एव नरकगतौ यद्गमनं 25 तत्पथात् तन्मार्गात् । यदाहुः
"चउहिं ठाणेहिं जीवा निरयत्ताए कम्मं पकरेंति । तं जहा - महारंभयाए महापरिग्गहाए पंचिदियवहेणं कुणिमाहारेणं" । [ स्थानाङ्ग - ४/४/३७३ ] इति ॥ २४४॥
एवं च तैर्यत्कृतं भवति तदाह
१. पर्वपंच...B, H ।