________________
३८२
15
[कर्णिकासमन्विता उपदेशमाला । गाथा-२३४-२३५ ] सत्तावरी विराली कुमारि तह थोहरी गलोई य । ल्हसणं वंसकरिल्ला गज्जर तह लोणओ लोढा ॥२॥ गिरिकन्नि किसलपत्ता खरिंसुया थेग अल्लमुत्थाय । तह लोणरुक्खछल्ली खिल्लूडो अमयवल्ली य ॥३॥ मूला तह भूमिरुहा विरुहा तह ढक्कवत्थुलो । पढमो सूयरवल्लो य तहा पल्लंको कोमलंबिलीया ॥४॥ आलू तह पिंडालू हवंति एए अणंतनामेणं । अण्णमणंतं नेयं लक्खणजुत्तीए समयाओ ॥५॥ घोसाडकरीरंकुरतिदुअ अइकोमलंबगाईणि । वरुणवडनिंबयाईण अंकुराइं अणंताई ॥६॥ गूढसिरसंधिपव्वं समभंगमहीरुगं च छिन्नरुहं । साहारणं सरीरं तब्विवरीअं च पत्तेयं ॥७॥ चक्कं व भज्जमाणस्स गंठी हवेज्ज चुण्णघणो । तं पुढविसरिसभेयं अणंतजीवं विआणाहिं ॥८॥ गढसिरागं पत्तं सच्छीरं जं च होड़ निच्छीरं । जंपिय अपणसंधि अणंतजीवं विआणाहि" ॥९॥
[प्र.सा./२३६तः२४४] मांसनिषेधश्च लौकिकैरप्येवमनूदितः"अहिंसालक्षणं धर्मं सर्वभूताभयप्रदम् । अजातशत्रुणा पृष्टः पुनः शान्तनवोऽब्रवीत् ॥१॥
अमांसभक्षणं नृणामश्वमेधशतैः समम् । मांसं हि जायते घोरान्नाऽन्यत्र वधपातकात् ॥२॥ मांसादेव समुत्पन्नो मांसं मांसेन यो नरः । तुल्यव्यथेऽस्मिन् संसारे भुञ्जानः किं न लज्जते ॥३॥ कण्टकेनाऽपि ये स्पष्टा यान्ति कामपि विक्रियाम् । तेऽपि शस्त्रनिकृत्तस्य पशोरश्नन्ति विग्रहम् ॥४॥ भयमाकम्पनं तीव्र देहिनां देहसंशये । दृष्ट्वा को नाम मांसेभ्यः स्पृहां कुर्यादराक्षसः ॥५॥ अमांसाशी जगद्बन्धुः प्राणिनामभयप्रदः । प्रयाति निर्भयं धाम पुण्यकारुण्यसागरः ॥६॥ क्रतुनिर्विघ्नसंभारस्तीर्थमध्वश्रमोज्झितम् । अहिंसा नाम परमं व्रतमत्यक्तभोजनम्" ॥७॥ [] तथा
नाहम्मकम्मजीवी, पच्चक्खाणे अभिक्खमुज्जुत्तो ।
सव्वं परिमाणकडं, अवरज्झइ तं पि संकंतो ॥२३५॥ नाऽधर्मकर्मजीवी नाऽधर्मेण पापानुष्ठानेन अङ्गारदाहादिना जीवितुं शीलमस्येति कृत्वा प्रत्याख्याने ग्रहीतव्ये अभीक्ष्णमुद्युक्तः सोत्साहः । सर्वं धन-धान्यादिकम् आर्षत्वात् परिमाणकृतं कृतपरिमाणं करोतीति शेषः । अपराध्यतीति तदपि शङ्कमानः स्वचेतसा-अहो अहं गुरुकर्मा प्रतिज्ञातजिनप्रवचनोऽपि सर्वसङ्ग
परित्यागं कर्तुमद्याऽपि न प्रभुरिति कृत्वा एवमेवात्मापराधं मन्यते । यद्वा सर्वं कृतपरिमाणं कृत्वाऽपि यदि 25 प्रमादादपराध्यति-अतीचारेणाऽपराधं प्राप्नोति तमप्यपराधमालोच्य कृतप्रायश्चित्ततया सङ्क्रान्तोऽतिक्रान्ता
ऽपराधो भवति इति अथवा अवि रज्झइ इति पाठः यद्यपि आत्मकुटुम्बाद्यर्थं राध्यते पच्यते, तदपि शङ्कमानो यतनया कारयतीति ॥२३५॥ पाकादिकां चापराधस्थानं लौकिका अप्याहुः
"खण्डनी पेषणी चुल्ली जलकुम्भप्रमार्जनी ।
पञ्च शूना गृहस्थस्य तेन स्वर्गं न गच्छतीति" [ ] ॥२३५॥ इति । 30 यतना च तच्च सर्वं देवाद्यर्थं विदधानस्याऽग्रपूराद्यनन्तरं भगवदनुचरवृत्त्या आत्मकुटुम्बादिपोषणमपि
अतिथिसंविभाग-दीनानुकम्पादानपूर्वं भावशुद्ध्या भुञ्जानस्य पुण्यायैवेति गुरूपदेशः ।
20
१. सिरिकिण्णि - C.K सिरिकण्णि - D। २. सूरयवल्लो - A|३. हि व्यथां - C। ४. तीव्र - H, B1 ५. ज्ञात्वा - A, B, HI