SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ [ कर्णिकासमन्विता उपदेशमाला । गाथा- २३१-२३४] तथा चाहुराचार्यश्रीहेमचन्द्रपादाः‘“हिंसादिसंसक्तपथोपदेशादसर्वविन्मूलतया प्रवृत्तेः । नृशंसदुर्बुद्धिपरिग्रहाच्च ब्रूमस्त्वदन्यागममप्रमाणम् ॥ [ अयोगव्यव० / १० ] । 5 हितोपदेशात्सकलज्ञक्लृप्तेर्मुमुक्षुसत्साधुपरिग्रहाच्च पूर्वापरार्थेष्वविरोधसिद्धेस्त्वदागमा एव सतां प्रमाणम्" ॥ [ अयोगव्यव० / ११] इति ॥२३१॥ किञ्च - दट्ठूणं कुलिंगीणं, तस - थावरभूयमद्दणं विविहं । धम्माओ न चालिज्जइ, देवेहिं सइंदएहिं पि ॥२३२॥ दृष्ट्वा कुलिङ्गिनां शाक्यादीनां पचन - पाचनादिना त्रसस्थावरभूतमर्दनं विविधं धर्मात् कारणे कार्योपचारादशेषसूक्ष्मजन्तुरक्षाप्रतिपादकाद् भगवत्प्रवचनात् न चाल्यते देवैः सेन्द्रैरपि किं पुनरितरैरिति ॥२३२॥ अन्यच्च ३८१ "पंचुंबरि चउविगई हिम-विस-करगे य सव्वमट्टी य । रणभोari चिय बहुबीय - अनंतसंधाणे ॥१॥ घोलवडा वाइंगण असुणियनामं च फुल्लफलमाई । तुच्छफलं चलियरसं वज्जह वज्जाणि बावीसं" ॥२॥ [ सं.प्र./ ११९४ - ११९५, प्र.सा./२४५ - २४६ ] अनन्तकायिकसंग्रहश्च " सव्वा उ कंदजाई सूरणकंदो अ वज्जकंदो अ । अल्लहलिद्दा य तहा अल्लं तह अल्लकच्चूरो ॥१॥ 10 वंदइ पडिपुच्छइ, पज्जुवासेइ साहुणो सययमेव । पढइ सुइ गुणेई य, जणस्स धम्मं परिकहेइ ॥२३३॥ वन्दते मनोवचनकायैः । प्रतिपृच्छति क्वचित् संशयानः पर्युपास्ते समीपतरवर्त्तितया, कान् ? साधून् सततमेव पठति प्रकरणाद्युचितं श्रुतं शृणोति सूत्रार्थं गुणयति परावर्त्तयति चशब्दादर्थं विमृशति च । जनस्य धर्मं परिकथयति स्वयंबुद्धोऽन्यान् बोधयतीति ॥२३३॥ दढसीलव्वयनियमो, पोसह - आवस्सएस अक्खलिओ । महुमज्जमंसपंचविह-बहुविहफलेसु पडिक्कंतो ॥२३४॥ दृढं शीलं विशुद्धं मनः प्रणिधानं व्रतनियमा अणुव्रत - गुणव्रत - शिक्षाव्रतरूपा अभिग्रहाश्च यस्य स दृढशीलव्रतनियमस्तथा पौषधे आहार - ब्रह्मचर्य - अव्यापार-शरीरसत्कारभेदाच्चतुर्विधे सामान्यतो व्रतशब्दसंगृहीतेऽपि वैशिष्ट्यख्यापनार्थं भूयोऽप्युक्तं पौषध इति । तथा आवश्यकेषु सामायिकादिषु षट्प्रकारेषु 20 अस्खलितो निरतिचारः । तथा मधुनि माक्षिक- कौत्तिक- भ्रामरादिभेदात् त्रिविधे, उपलक्षणं चैतन्नवनीतस्य । तथा मद्ये पिष्टकाष्ठभेदाद् द्विविधे । मांसे जलस्थलखचारिणां त्रसानां तृतीयधातुभेदे । पञ्चविधफले प्लक्षाश्वत्थोदुम्बरकाकोदुम्बरीवटप्रभवे बहुविधे वृन्ताकादिफले उपलक्षणत्वादज्ञातनामपुष्पफले अक्वथितगोरसमिश्रद्विदलरात्रिभोजनसचित्तानन्तकायिकादिसर्ववर्जनीयसङ्ग्रहः । तेषु प्रतिक्रान्तो निवृत्तः ॥२३४॥ मध्वादीनां नियमेभ्यः पृथग्ग्रहणं बहुदोषतासूचनार्थमिति । वर्जनीयसङ्ग्रहश्चैवम् - 15 25 30
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy