________________
३८०
[कर्णिकासमन्विता उपदेशमाला । गाथा-२२८-२३१] ओसन्नचरणकरणं, जइणो वंदति कारणं पप्प ।
जे सुविइयपरमत्था, ते वंदंते निवारेंति ॥२२८॥ अवसन्नचरणकरणं विशीर्णमूलोत्तरगुणं यतयः सुसाधवो वन्दन्ते, कारणं व्रतपर्यायादिरूपं प्राप्याऽऽसाद्य, तदा च ये शीतलविहारिणोऽपि सुविदितपरमार्थाः सुपरीक्षितागमोपनिषदः । यदुत 5 कर्मनिगडनिगीर्णोद्यमानामस्माकमेवं स्वयं शिथिलाचाराणाम् एतद्वन्दनप्रत्यादानं महतेऽनायेत्यात्मज्ञास्ते
आत्मानं वन्दमानान् सुसाधून् निवारयन्ति तेषामेकवचननिर्देशोचितानामपि संविग्नबहुमानितया उत्तमत्वख्यापनार्थो बहुवचननिर्देश इति ॥२२८॥ अन्यथा दोषमाह
सुविहियवंदावेंतो, नासेई अप्पयं तु सुपहाओ।
दुविहपहविप्पमुक्को , कहमप्प न जाणई मूढो ॥२२९॥ सुविहितान् सुसाधून् वन्दयन् वन्दमानाननिषेधयन् नाशयत्यात्मानमेव । तुशब्दस्याऽवधारणार्थत्वात् सुपथात् ज्ञानादिरत्नत्रयासेवनरूपात् । द्विविधपथविप्रमुक्तः साधु-श्राद्धाचारपरिभ्रष्टः । स हि चारित्रे अयतमानतया न यतिर्लिङ्गधारित्वान्नाऽपि च गृहस्थोऽत एव कथमात्मानं न जानाति मूढो येन सुसाधून् वन्दयतीति ॥२२९॥ अथ पथद्वैविध्यप्ररूपणेन यतिधर्मेण समं गृहिधर्मस्यापि तुलया साम्यमुक्तमिति गृहिधर्माचारविधि मेवोपदिशन्नाह
वंदइ उभओ कालं पि, चेइयाइं थयथुईपरमो ।
जिणवरपडिमाघरधूव-पुप्फगंधच्चणुज्जुत्तो ॥२३०॥ श्रावको वन्दते उभयकालं चैत्यानि अर्हद्विम्बरूपाणि, स्तवा ऋषिमण्डलाख्य-कवचस्तवपरब्रह्मस्तवाद्याः, स्तुतयश्चैत्यवन्दनादिप्रतिबद्धकायोत्सर्गपर्यन्तेषु याः पठ्यन्ते श्रूयन्ते च तत्परमस्तद
ध्ययनप्रधानः सन जिनवराणामहद्भद्रारकाणां प्रतिमागृहं गहदेवालयो देवगृहं च तस्मिन धूपपुष्पगन्धैरर्चनं 20 तस्मिन्नुधुक्तः सततं कृतोद्यमः स जिनवरप्रतिमागृहधूपपुष्पगन्धार्चनोद्युक्तः । एतच्चाशातनावर्जनपूर्व विधिवदङ्गसम्मार्जन-पञ्चामृतादिस्नानविधानं सुगन्धिश्रीचन्दनागरुकर्पूरमृगमदकाश्मीरजप्रभृतिविलेपन-अक्षतनैवेद्य-फल-जल-प्रदीप-प्रमुखबलिढौकनादीनाम् उपलक्षणमिति ॥२३०॥ तथा –
सुविणिच्छियएगमई, धम्मम्मि अणण्णदेवओपणओ ।
न य कुसमएसु रज्जइ, पुव्वावरवाहयत्थेसु ॥२३१॥ सुविनिश्चिता सुप्रतिष्ठिता, एका शङ्काकाङ्क्षादिसाहचर्यरहिता अद्वितीया मतिर्यस्य स सुविनिश्चितैकमतिः। तथा न भगवन्तं विना अन्यदैवतं भयत्राणवाञ्छया प्रेत्य स्वर्गाऽपवर्गलिप्सया च उपासितव्यं पुरुषविशेषम् उपनतः समपितात्मा उप समीपे नतः प्रणतो वा अनन्यदैवतोपनतः संसारनिस्तारकारणं भगवन्तमर्हद्भट्टारकमेव उपनतः । न च कुसमयेषु परप्रवचनेषु रज्यते । पूर्वापरव्याहतार्थेषु निरुपपत्तिक-प्रलपितेषु, ते हि 'न हिंस्यात् सर्वभूतानि
त्रसाणि स्थावराणि चे'त्युपदिश्य षट्शतानि निबध्यन्ते पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनात् न्यूनानि 30 पशुभिस्त्रिभिरित्यपि लपन्ति ।
15
25
१. कश्मीरज A,C| २. भवभय - C, D, K, अयत्राण - A, KH | ३. ध्यानत: AI