________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा - २२७]
सामान्यजनतातीतैर्लक्षणैरेष लक्ष्यते । प्रौढः परिवृढः कश्चित् तदस्मै बत धावत ॥९॥
अयं निरुद्धो बद्धश्च भूरि दास्यति भूरिशः । सर्वे सम्भूय भूयांसो गृह्णीत शबरा ! अमुम् ॥१०॥ त्रस्तो गिरा तया तस्य सज्जीकृतकिरातया । नृपश्चमत्कृतश्चित्ते दूरं दुद्राव वाजिना ॥११॥ मनसेव समं स्पर्द्धानुबन्धी स क्षणार्द्धतः । निनाय दूरं राजानमाजानेयो जवाधिकः ॥१२॥ स क्वापि तापसावासे पुण्यारामे मनोरमे । प्राप्तः कीरकुमारेणाऽभाषि केनाऽपि पार्थिवः ॥१३॥ स्वस्ति ते स्वागतं राजन्नेकोऽपि विदितोऽसि नः । लक्षणान्येव तेऽमूनि ज्ञापयन्तीति मादृशाम् ॥१४॥ अर्घं पाद्यं तथाऽऽतिथ्यमस्मै कुरुत तापसाः ! । गुरुर्वर्णाश्रमाणां वोऽतिथिः स्वयमुपस्थितः ॥१५॥ अवतीर्याऽथ निर्वाह्य वाहार्थं सर्वमात्मना । स्वेनातिथ्यक्रियाशान्त श्रान्तिः स्वान्तिकमागतम् ॥१६॥ अवोचत वचो राजा शकुन्तं कुतुकी शुकम् । प्रकृतिस्ते कुतस्त्येयं सज्जनस्येव पावनी ॥१७॥ युग्मम् ॥ पक्कणेऽद्य शुकोऽस्माभिर्दृष्टस्तस्य तवापि च । विषपीयूषयोर्यादृक् तादृगेवान्तरं द्वयोः ॥१८॥ सोऽप्याह दोषस्तस्यैष न राजन्न च मे गुणः । तत्तदाश्रयभूः किन्तु संसर्गस्तत्र कारणम् ॥१९॥ यदावामाश्रमादस्माददूरेण वनाऽवनौ । अभवाव शुकौ राजन् स चाहं च क्वचिद् वटे ॥२०॥ माताऽप्येका पिताऽप्येको मम तस्य च पक्षिणः । गवाशनैः स नीतोऽस्मादानीतोऽहं तपोधनैः ॥२१॥ स कीरः पार्वतीयानां ख्यातो गिरिशुकाभिधः । पुण्यारामनिवासी च श्रुतः पुष्पशुकोऽस्म्यहम् ॥२२॥ शृणोति वाचः स गवाशनानामहं तु राजन् ! मुनिपुङ्गवानाम् । प्रत्यक्षमेतद्भवताऽपि दृष्टं संसर्गजा दोषगुणा भवन्ति ॥२३॥ [ उपजातिवृत्तम्] श्रुत्वेति राजा कनकध्वजोऽपि गतः स्वसैन्यैः सह राजधानीम् ।
दोषे गुणे वापि च सङ्गमेवं प्रमाणयामास निदानमेकम् ||२४|| [ उपजातिवृत्तम्] इति गिरिशुक - पुष्पशुककथानकम् ॥
गिरिशुक- पुष्पशुकयोः सुविहित ! सुकृतिन् ! उदाहरणे दृष्टान्ते कारणमसाधुसाधुसङ्गतिजदोषगुण - 20 लक्षणम् । तद्विधिज्ञः प्रस्तुतदृष्टान्तविधानवेदी सन् वर्जयेत् शीलविकलान्, न च तद्वर्जनमात्रेणैव परितुष्ट आसीत् किन्तु स्वयं उद्यतशीलो व्रतोद्यममतिर्भवेद्यतिः अथवा कुशीलान् सङ्गतो वर्जयित्वाऽपि 'एवमेते दुःशीला वयं तु सुविहिता' इत्यात्मबहुमानपरापमानप्रकटनेन लोकमध्ये वक्रशीलो न भवेदित्युपदिशति ऋजुशीलो भवेदिति कषायवर्जनात् वक्रतां परिहृत्य समतामास्थाय ऋजुशीलः सामायिकशीलो यतिर्भवेत् ।
॥२२७॥
३७९
एवं हि क्वचिदौचित्येन तद्वन्दनमप्यदुष्टं स्यादिति । तदित्थमौत्सर्गिकं पार्श्वस्थादिसङ्गपरिहारमभिधायाऽधुना कारणे तद्वन्दनमप्यनुजानानस्तेषामपि तत्र कृत्यं चोपदिशन्नाह
१. व्रतोद्यतमति... C, D, व्रतोद्यमेमति - H । २. भवेद्यति: C, D, K |
टि. 1. आजानेयः उत्तमः अश्वः । 2. कुतुकं कुतूहलं अस्यास्ति कुतुकी । 3. पक्कणः भीलानां आवासः । 4. गवाशनः गोमांसमश्नाति तैः ।
5
10
15
25