________________
३७६
[कणिकासमन्विता उपदेशमाला । गाथा-२१७-२२०] चस्यानुक्तसमुच्चयार्थत्वादिन्द्रियाणि विषयेभ्यो रक्षित्वा रागद्वेषाऽकरणतो व्यावृत्त्य । भावेन तात्त्विक्या वृत्त्या न दाम्भिक इव बाह्ययैव वृत्त्या । कर्मरजोविप्रमुक्ताः सन्तः सिद्धिगतिम् अनुत्तरां सर्वोत्कृष्टां मुक्तिरूपां प्राप्ता इति ॥२१७॥ सामान्यतो मुक्तिहेतूनुक्त्वा व्यक्तितस्तानेवाह
नाणे दंसण-चरणे, तव-संजम-समिइ-गुत्तिपच्छित्ते । दमउस्सग्गववाए, दव्वाइअभिग्गहे चेव ॥२१८॥ सद्दहणायरणाए, निच्चं उज्जुत्तएसणाइ ठिओ।
तस्स भवोदहितरणं, पव्वज्जाए य जम्मं तु ॥२१९॥
ज्ञानादिषु यः स्थितस्तस्यैव तदीयप्रव्रज्यायाश्च जन्म मनुष्यतया प्रव्रजिततया च उत्पत्तिलक्षणम् 10 भवोदधितरणं संसारसागरतरण्डकं भवतीति गम्यम् । अन्यस्य तु जन्मद्वयमपि निरर्थकम् । तुशब्दात्
प्रत्युतानर्थकारणं च भवतीति मूलसम्बन्धः । तत्र ज्ञानं सम्यक् सम्बोधलक्षणं तस्मिन् तथा दर्शनचरणे द्वन्द्वैकवद्भावेन दर्शनचरणयोः श्रद्धान-क्रिययोः । तपःप्रभृतीनां पञ्चानां द्वन्द्वैकवद्भावात् तपसि अनशनादौ संयमे पृथिवीकायादिरक्षणात्मके, समितिषु ईर्याभाषैषणादाननिक्षेपपरिष्ठापनात्मिकासु गुप्तिषु मनोवाक्कायरोधरूपासु प्रायश्चित्ते आलोचनाप्रतिक्रमणादौ दमे इन्द्रियनिग्रहे उत्सर्गे सामान्येनोक्तानुष्ठाने अपवादे 15 द्रव्यादिसापेक्षविशेषोक्तानुष्ठाने, प्राग्वदेकवद्भावः, एवं सर्वत्राऽपि । द्रव्यादिष्विति-आदिशब्दात् क्षेत्रकाल
भावग्रहः । तेषु अभिग्रहो-यथा अमुकं निर्लेपोज्झितकादिकुल्माषपर्युषितादिरूपं द्रव्यं ग्रहीष्ये, क्षेत्रे गृहबहि:प्रदेशादौ काले पौरुष्याद्यतिक्रान्तौ, भावे हसन्त्या रुंदत्या वा दत्तमित्यादिरूपो विविधो नियमस्तस्मिन् । चः समुच्चये । एवकारस्याऽवधारणार्थस्य व्यवहितः सम्बन्धः, स च तस्यैवेत्यत्र योजित एव । श्रद्धानप्रधानायाम् आचरणायां नित्यम् उद्युक्तः सन् एषणायां निरवद्याहारगवेषणग्रहणग्रासगोचरायाम्, यत्तदो20 नित्याभिसम्बन्धाद्य एतेषु स्थितस्तस्य तदीयप्रव्रज्यायाश्च जन्म भवोदधितरणमिति प्रागेव योजितम् ।
चरणस्यैव व्याख्यानार्थं तपःप्रभृतीनि पृथगुपात्तानि । दर्शनचरणग्रहणेऽपि श्रद्धानाचरणग्रहणं सर्वमिदमाचरणीयम् । तत्सामर्थ्याभावे तु श्रद्धेयमिति श्रद्धानप्राधान्यख्यापनार्थम् । यदुक्तम्
"जं सक्कइ तं कीड़ जं च न सक्कड़ तयम्मि सद्दहणा।
सद्दहमाणो जीवो पावइ अयरामरं ठाणं" ॥ [सं.प्र./८९४] तथा"भद्वेण चरित्ताओ सुट्टयरं दंसणं गहेयव्वं ।
सिझंति चरणरहिया दंसणरहिया न सिझंति" ॥ [दं.प्र./२४८ ] इति ॥२१८॥२१९॥ व्यतिरेकदोषमाह
जे घरसरणपसत्ता, छक्कायरिऊ सकिंचणा अजया ।
नवरं मोत्तूण घरं, घरसंकमणं कयं तेहिं ॥२२०॥ १. व्यावर्त्य - C, D, K, व्यावृर्त्य - A,L । २. मुक्तौ हेतूनुक्त्वा - C, मुक्तिहेतुमुक्त्वा - D, B मुक्तिहेत्वमुक्त्वा - KH, AI ३. रुदन्त्या - P। ४. ख्यापनार्थं - P व्यापना) - KH |