________________
5
10
20
[ कणिकासमन्विता उपदेशमाला । गाथा - २०१-२०५ ] पीतं, स्तना एव स्तनकास्तेषां क्षीरं स्तन्यं, सागराणां सलिलात् पाथोनाथपाथसो भवेद्बहुतरम् । हेतुमाह-संसारे अनन्तेऽविद्यमानप्रागभावभाविनि अनादौ, मातॄणां सवितॄणाम् अन्यासां पृथक्पृथक्जन्मभाविनीनामिति ॥ २०१॥
एवं विस्तरमुक्त्वा परमार्थमाह
25
३७२
पत्ता य कामभोगा, कालमणंतं इहं सउवभोगा ।
अपुव्वं पिव मन्नइ, तह वि य जीवो मणे सोक्खं ॥ २०२॥
प्राप्ताश्च कामभोगाः शब्दादयः, कालमनन्तं देवादिभवेष्वभिव्याप्य । इह त्रैलोक्ये तेऽपि पारतन्त्र्यकार्पण्यादिभिरनुपभोग्याः स्युरित्याह - सह उपभोगेनेति सोपभोगाः, अपूर्वमिव मन्यते आकलयति तथापि च जीवो मनसि सौख्यं वैषयिकमिति ॥ २०२॥ अपरं च
जानाति विशेषशेमुषीसांमुख्येन चशब्दान्निर्विकल्पकेन, सामान्योपयोगरूपेण पश्यति च । यथा भोगऋद्धिसम्पदो विषयलक्ष्मीप्राप्तयः यदि वा किमपि यन्मात्रेण सुकुलोत्पत्ति-सुगुरुसम्पर्कादि सर्वमेव धर्मफलं पुण्यं विमुच्य नान्यत्तल्लाभकारणमिति । तथापि दृढमूढहृदयो गाढविपर्यस्तचित्तः सन् पापे कर्मणि 15 जनो रमते न पुनर्द्धर्मं सेवते । उक्तं चाऽत्र
I
sa जहा भोगड्डिसंपया सव्वमेव धम्मफलं । तहवि दढमूढहियओ, पावे कम्मे जणो रमइ ॥२०३॥
" यः सततमिष्टकारिणि सुकृतेऽपि हि भवति विगलितस्नेहः ।
अकृतज्ञदुर्जनानामवधारय धुरि तमेवैकम्" ॥१॥ [ ] ॥२०३॥ अन्यच्चाश्चर्यम्—
जाणिज्जइ चिंतिज्जइ, जम्मजरामरणसंभवं दुक्खं ।
न य विसएसु विरज्जइ, अहो सुबद्धो कवडगंठी ॥२०४॥
ज्ञायते गुरूपदेशादिना चिन्त्यते पुनः पुनर्मनसि स्थाप्यते - यदुत सोपुस्कारत्वाद्विषयसङ्गहेतुकमिदं जन्म-जरा-मरणसम्भवं दुःखम् । न च नैव विषयेषु विरज्यते विषयगोचरविरागभूयिष्ठैर्भूयते जन्तुभिरिति शेषः । अहो इति आश्चर्ये सुबद्धो दुम्र्म्मोचकत्वात् सुनियन्त्रितः । कपटग्रन्थिर्मोहजालालीकबन्धनम् । तथा च सुष्ठुक्तम्
" विचिन्त्य बाधाः प्रभवन्ति यत्र, न तत्र मिथ्यामतयश्चरन्ति ।
संसारमोहस्त्वयमन्य एव, दिग्मोहवत् तत्त्वधिया सहाऽऽस्ते " ॥ १ ॥ [ ][ उपजातिवृत्तम् ] ॥२०४॥ किञ्च - यतो मरणाद्विभेति ततोऽपि नोद्विजते इत्याह
जाणइ य जह मरिज्जइ, अमरंतं पि हु जरा विणासेइ ।
न य उव्विग्गो लोओ, अहो रहस्सं सुनिम्मायं ॥२०५॥
जानात्येव यथा म्रियते अम्रियमाणमपि च जरा वयोहानिर्विनाशयति वलीपलिताङ्गभङ्गादिना
१. प्राग् भावभाविनि - B । २. निराग - KH