________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा - १९५-२०१]
३७१
कार्योद्युक्तो मकारस्यार्षत्वात्, दुःखैर्न निर्विण्णः आभीक्ष्ण्येन तद्धेतुष्वेव प्रवृत्तेः । सौख्यैर्न चैव परितुष्टस्तत्प्राप्तावपि तत्तर्षोत्कर्षाऽपरिहानात् चशब्दान्महानन्दसुखविमुखश्चेति ॥ १९५॥
न चैवमनुशयशतैरपि सम्पूर्णं परित्राणं भवतीति सोदाहरणमाहपरितप्पिएण तणुओ, साहारो जइ घणं न उज्जमइ । सेणियराया तं तह, परितप्पंतो गओ नरयं ॥ १९६ ॥
परितप्तेन निन्दागर्हागर्भचित्तपश्चात्तापेन, तनुकोऽल्प एव, साधारः परित्राणम् । यदि घनं गाढमप्रमत्ततया तप:संयमयोर्नोद्यच्छति । अत्र दृष्टान्तमाह मानोऽपि गतः सीमन्तकाख्यं नरकमिति । तत्कथानकं च निवेदितचरम् ॥१९६॥
श्रेणिकराजस्तत्तथात्मगर्हादिप्रकारेण परितप्य
यथा चाऽयं जीवो दुःखेन निर्विण्णस्तथा व्यक्ततरमाह
-
जीवेण जाणि उ विसज्जियाणि, जाईसएसु देहाणि ।
थेवेहिं तओ सयलं पि, तिहुयणं होज्ज पहिथं ॥१९७॥
वेन यानि तु विसृष्टानि त्यक्तानि तुशब्दाद्यानि त्यक्ष्यन्ते तानि दूरे सन्तु, देहानि शरीराणि स्तोकैस्ततः स्वल्पैस्तेभ्योऽनन्तभागवर्त्तिभिः । सकलमपि त्रिभुवनं भवेत् पडिहत्थं ति परिपूर्णं तथाऽप नाऽस्य निर्वेद इति ॥१९७॥ तथा
नह-दंत-मंस-केस -ऽट्ठिएसु जीवेण विप्पमुक्तेसु । तेसु वि हवेज्ज कइलास- मेरुगिरिसन्निभा कूडा ॥१९८॥
नख-दन्त-मांस-केशास्थिष्विति सप्तम्यास्तृतीयार्थत्वात् नख- दन्त-मांस केशास्थिभिर्जीवेन विप्रमुक्तैरनादिकतिचिज्जन्मसम्बन्धिभिः, पिण्डितैर्न सर्वैरित्यपिशब्दार्थः । तैरपि भवेयुः कैलासमेरुगिरिसन्निभाः कूटा महापर्वतप्रायाः स्तूपा इति ॥१९८॥ किञ्च -
हिमवंत-मलय-मंदर- दीवोदहि-धरणिसरिसरासीओ । अहिअयरो आहारो, छुहिएणाहारिओ होज्जा ॥१९९॥
हिमवन्मलयगिरिमन्दराः पर्वताः, द्वीपा जम्बूद्वीपादयः, उदधयो लवणोदादयः, धरण्यो घर्म्माद्यास्तैः, सदृशेभ्यो राशिभ्योऽधिकतर आहारोऽशनादिः क्षुधितेनाऽऽहारितो भवेदिति ॥ १९९॥ अन्यच्चजं णेण जलं पीयं, घम्मायवजगडिएण तं पि इहं ।
सव्वेसु वि अगड-तलाय - नइ - समुद्देसु न वि होज्जा ॥ २००॥
यदनेन जीवेन जलं पीतं घर्माऽऽतपकदर्थितेन ग्रीष्माऽऽतपाऽभिभूतेन, तदपि इह जलमप्यत्र सर्वेष्वपि अवटतटाकनदीसमुद्रेषु नापि नैव भवेदिति ॥२००॥ अपि च
पीयं थणयच्छीरं, सागरसलिलाओ होज्ज बहुययरं । संसारम्मि अणंते, माऊणं अन्नमन्नाणं ॥२०१॥
१. दिततरं - B, दितमत्र - H दितवरं - A । २. पंडितैर्न - A, B, L I
5
10
15
20
25