________________
३७०
[कर्णिकासमन्विता उपदेशमाला । गाथा-१९१-१९५] या गौरवेषु प्रतिबद्धबुद्धेरासीद् वसत्यादिषु गृद्धिवृद्धिः । तस्याः फलं पश्यत लम्भितोऽस्मि दैवादहं दुर्गतयक्षभूयम् ॥१८॥ सुदुर्लभं जन्मशतेषु लब्ध्वा श्रामण्यमन्यत्र मनो न कार्यम् । स्नेहेन युष्मानिति शिक्षयामि न चाऽधुनाऽहं तु विधातुमीशः ॥१९॥ इत्थं मुनीनां प्रतिबोधदाता स्वयं विधाता परिदेवितानाम् । निदर्शनीभूय स कस्य चित्ते चारित्र एव स्थिरतां न धत्ते ॥२०॥ [उपजातिवृत्तविंशकम्]
इति मथुरामकथानकम् ॥ अधुनाऽक्षरार्थः-पुरनिर्द्धमने नगरप्रणाले यक्षः सम्पन्न इति शेषः । मथुरायां मङ्गमथुरामङ्गस्तथैव यथा श्रूयते श्रुतनिकषः सिद्धान्तकषपट्टको बहुश्रुतत्वादागमपरीक्षास्थानमित्यर्थः स पश्चात् बोधयति प्राकृतशैल्या 10 वर्तमाननिर्देशात् बोधितवान् सुविहितजनं विसूरइ हृदयेनेति खिद्यते स्म बहु प्रभूतं चः समुच्चये हृदयेन चित्तेनेति ॥१९१॥ स यत् तदाऽचिन्तयत् तदाह
निग्गंतूण घराओ, न कओ धम्मो मए जिणक्खाओ।
इड्डि-रस-साय-गरुयत्तणेण ण य चेइओ अप्पा ॥१९२॥ निर्गत्य गृहात् प्रव्रज्येत्यर्थः । न कृतो धर्मो मया जिनाख्यातः । ऋद्धि-रस-सात-गुरुकत्वेन 15 हेतुना। ऋद्धिः शिष्यादिसम्पत्, रसा मधुरादयः, सातं मृदुशय्यादिसम्पाद्यं सुखम्, तेषु गुरुक आदरवान्, तद्भावेन मोहोपहततया न च नैव चेतितो विज्ञात आत्मेति ॥१९२॥ तथा
ओसन्नविहारेणं, हा जह झीणम्मि आउए सव्वे । .. किं काहामि अहन्नो ?, संपइ सोयामि अप्पाणं ॥१९३॥ __अवसन्नविहारेण शिथिलाचारकालनिर्गमनेन, हा इति दैन्ये, यथाहं स्थितः, तथैव क्षीणे आयुषि 20 सर्वस्मिन् किं करिष्ये अधन्यः सम्प्रति शोचामि आत्मानं केवलमिति ॥१९३॥ कथम् ? -
हा ! जीव ! पाव भमिहिसि, जाई-जोणीसयाइं बहुआई।
भवसयसहस्सदुलहं पि, जिणमयं एरिसं लद्धं ॥१९४॥ हा जीव ! पाप ! दुरात्मन् ! भ्रमिष्यसि पर्यटिष्यसि, जातयः एकेन्द्रियाद्याः, योनयो शीतेतराद्यास्तासां शतानि बहूनि भवशतसहस्रदुर्लभं जन्मलक्षदुष्प्रापम् अपिः सम्भावनायां, जिनमतम् अर्हत्प्रवचनम् 25 ईदृशम् अचिन्त्यचिन्तामणिकल्पं लब्ध्वा आसाद्य तदनुष्ठानप्रमादितयेति ॥१९४॥ किञ्च
पावो पमायवसओ, जीवो संसारकज्जमुज्जुत्तो ।
दुक्खेहिं न निविण्णो, सोक्खेहिं न चेव परितुट्ठो ॥१९५॥ पाप आत्मन्यपि हितानुध्यानवन्ध्यतया दुरात्मा प्रमादवशगः कषायाद्यधीनो, जीवः संसार
१. मनुष्याद्याः - B, A, HI