________________
३६९
[कर्णिकासमन्विता उपदेशमाला । गाथा-१९१]
न वन्दक-प्रच्छक-पाठकेभ्यः प्रपारयामोऽक्षणिकाः सदैव । इत्यार्यमङ्गौ वदति प्रदोज्जयादिशेत्येव जना जगुस्ते ॥४॥ निष्ठागरिष्ठश्च तपोनिधिश्च चारित्रवांश्चेति जनैः स्तुवानैः । . मुनिः स मानाख्यमहाक्षितिध्रपोत्तुङ्गशृङ्गोपरि रोप्यते स्म ॥५॥ वर्धिष्णु ऋद्ध्युत्तरगौरवाख्यं शृङ्गान्तरं तत्र चरन्नवाप्य ।। अहो अहं पूजितपूजितांह्रिरित्येष मेने त्रिजगत् तृणाय ॥६॥ संसारनिस्तारकताविमर्शात्तं सम्प्रदानं परिकल्प्य लोकाः । ददुर्यदुत्कृष्टरसं तदेव बभूव पुष्ट्यै रसगौरवस्य ॥७॥ लोकस्य भक्त्या परिपोषिताभ्यां ऋद्धे रसस्याऽपि च गौरवाभ्याम् । समेधितः प्राप समृद्धिमुच्चैः सातस्य तद् गौरवमार्यमङ्गः ॥८॥ विहारमभ्युद्यतमेष मुक्त्वा जनस्य मानादवशोऽवसन्नः । हा गौरवाणां त्रितयेन तेन वशीकृतोऽसेवत नित्यवासम् ॥९॥ उपासकानां प्रतिबन्धरागादागामिनी हानिमचिन्तयित्वा । चकार बाढं ममकारमारात्क्षेत्रे कुले चैष भवादभीरुः ॥१०॥ आत्मस्तुतिं श्राद्धकृतामथाऽन्यनिन्दाविमिश्रामनुमोदमानः । मिथ्याभिमानाभिनिविष्टबुद्धिर्मिथ्यात्वमूरीकृतवानहंयुः ॥११॥ अर्थानिवेच्छुर्विपरीतनीतिः कामी परस्त्रीष्विव बद्धरागः । धर्माध्वपङ्गुर्गुरुरार्यमङ्गुर्मूलक्षति प्राप विशेषलिप्सुः ॥१२॥ सद्दर्शनालोकलसद्विशेषं श्रुतं तपः संयम इत्यशेषम् ।। सदप्यसद्भूतमहो चकार हहा महामोहमहान्धकारः ॥१३॥ तत्रैव कालं स विधाय भूत्वा वप्रप्रणालायतनान्तवासी । यक्षो विभङ्गात् तदिदं विदित्वाऽनुतापमापद्विरतावशक्तः ॥१४॥ तत्प्राप्तकालं च तदा विचिन्त्य तपोधनानां स बहिर्गतानाम् । द्राघीयसीं स्वां रसनां विकृष्य संदर्शयामास भयाय तेषाम् ॥१५॥ दृष्ट्वा तथा तस्य तपोधनास्ते धैर्य समालम्ब्य तमभ्युपेत्य । पप्रच्छुरुच्चैः कतमोऽसि किं वा बिभीषिकां नित्यमिमां करोषि ॥१६॥ यक्षो विषादाऽभिनयादुवाच वाचं स वाचंयमबोधयित्रीम् । मन्यध्वमात्मीयगुरुं तमेव मां मङ्गनामानममानमानम् ॥१७॥
१. जगत्प्रशस्ति - KH | २. परितोषि - B, A| ३. समेधितं - B, A | ४. मङ्गौ - A,CI
टि. 1. मान एव महाक्षितिध्रपः महागिरिः तस्य शृङ्गोपरि इत्यर्थः । 2. ऋद्धिगारवाख्यम्। 3. मङ्गनामानम् अमानः अपरिमितः मानः यस्य अमानमानः तम्।