________________
३६८
[कर्णिकासमन्विता उपदेशमाला । गाथा-१८८-१९१] न चाऽयमात्मा वैषयिकैः सुखैर्निरभिलाषः कर्तुं शक्यते । तथाहि
"कथं तोषयितुं शक्य आत्मा वैषयिकैः सुखैः ।
भोगाऽभ्यासेन वर्द्धन्ते रागाः सेन्द्रियवृत्तयः" ॥१॥ तथा चाहजीवो जहामणसियं, हियइच्छियपत्थिएहिं सोक्खेहिं ।
तोसेऊण न तीरइ, जावज्जीवेण सव्वेण ॥१८९॥ जीवो यथामनीषितं हृदयेष्टप्रार्थितैर्मनोदयितदयितादिसम्पादितैः सौख्यैस्तोषयितुं ध्रातोऽहमिति हृष्टः कर्तुं न तीर्यते तोषकर्म समापयितुं शक्यते । यावज्जीवेण सर्वेण यावच्छब्दोपादानात् प्राग्दिनादीनां गम्यत्वादासतां दिन-मास-संवत्सरादयः समस्तपुरुषायुषेणाऽपि सर्वेण त्रैलोक्यवतिना विषयजातेनेति । यत्र उच्यते
"धान्यानि पशवः पृथ्वी स्त्रियो रत्नानि काञ्चनम् ।
नैकस्यालमिदं तृप्त्यै विदित्वेति तपश्चरेत् ॥१॥[ ] १८९॥ कुत एतदुच्यते । यतोऽविवेकादयं न चिन्तयतीत्याह
सुमिणंतराणुभूयं, सोक्खं समइच्छियं जहा नत्थि ।
एवमिमं पि अईयं, सोक्खं सुविणोवमं होइ ॥१९०॥
स्वप्नस्यान्तरा मध्येऽनुभूतं सौख्यं, समयेप्सितं स्वप्नसमयादन्यस्मिन् समये वाञ्छितं सत्, यथा 15 नास्ति एवमिदमपि जाग्रदवस्थाऽनुभूयमानमपि अतीतं वर्तमानकालादन्यस्मिन् समये नास्तीति साधर्म्यण तुच्छत्वादसत्त्वाच्च अलीकमेवेत्यतो नाऽत्राऽऽस्था कार्या । यतः- "अनागतमतीतं च नार्थकारीत्यवस्तु सत् ।
क्षणिकस्य सुखस्याऽऽशां मोक्तुमीष्टे न धिक् कुधीः" ॥१॥ "स्वप्ने यथाऽयं पुरुषः प्रयाति, ददाति गृह्णाति करोति वक्ति ।
निद्राक्षये तच्च न किञ्चिदस्ति सर्वं तथेदं हि विचार्यमाणम्" ॥१॥ [ उपजातिवृत्तम्] १९०॥ यस्तु सौख्ये आस्थां विदध्यात्तदोषदर्शनार्थमाह
पुरनिद्धमणे जक्खो, महुरामंगू तहेव सुयनिहसो ।
बोहेइ सुविहियजणं, विसूड बहुं च हियएणं ॥१९१॥ सुखावबोधार्थं तत्र पूर्वं कथा । तथाहि
[मथुरामकथानकम् ॥] पुरी पुराणां जयिनी पुराणख्यातिप्रधाना मथुराभिधाऽऽसीत् । या कैशवानामिह शैशवानामाधारमैत्रीमधुरा व्यराजत् ॥१॥ न्यासैः पदानां सुगृहीतनामा तामार्यमङ्गर्विदधे पवित्राम् ।
श्रुतस्य शान्तेस्तपसां निधानं युगप्रधानं हि तदा तमाहुः ॥२॥ ___30 विहाय कार्यान्तरमन्तरायमन्याननादृत्य मुनीनशेषान् ।
भक्त्या वशीभूत इवाऽतिभूरिः सूरि सिषेवेऽत्र जनस्तमेव ॥३॥ १. तु तदा - P । २. वारिभूरिः - C।
20
25