________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा-१८१-१८२]
३६५ हारयति तल्लाभभाग् न भवति जनेन च हस्यते तथा प्रत्येकबुद्धलक्ष्मी करकण्ड्वादिबोधसमृद्धि प्रतीक्षमाणो निर्विकल्पम् , तपःसंयमादिषु प्रमत्तो भूत्वा मुक्तिमगृह्णन् सामग्री हारयतीति ॥१८१॥
अतः प्रेक्षावता न किञ्चिद् दुष्टमालम्बनं विधेयं यतः सर्वथा अविश्वासहेतुत्वादजय्य एवाऽयमिन्द्रियग्राम इति सदृष्टान्तमाह
सोऊण गई सुकुमालियाए, तह ससगभसगभगिणीए।
ताव न वीससियव्वं, सेयट्ठी धम्मिओ जाव ॥१८२॥ श्रुत्वा आकर्ण्य गतिं परिणति सुकुमारिकायास्तथा शासक-भ्रासकभगिन्यास्तावन्न विश्वसितव्यम् इन्द्रियाणामिति शेषः । श्रेयोऽर्थी मोक्षं प्रति साधको यावदद्यापि अर्थी, न तत्प्राप्त्या सम्पूर्णाभिलाषतया निष्ठितार्थो भवति । अभावुकस्याऽपि भवाभिनन्दित्वात् श्रेयोर्थित्वं न स्यादिति विशेषितो धार्मिक इति । अथवा धर्मेण चरन् धार्मिकः, श्वेतास्थिः श्वेतानि मरणकृतधात्वन्तरापिधानापनयनेन विभाव्यमानशुभ्रवर्णानि 10 अस्थीनि यस्य स तथा यावन्न सम्पन्न इति शेषः । यावन्निर्विकल्पं न मृतस्तावन्न विश्वसितव्यमित्यक्षरगमनिका ॥१८२॥ भावार्थाऽधिगमाय कथा पुनरेवम्
[सुकुमारिकाकथानकम् ॥] पुरा चम्पापुराधीशः सिंहसेनोऽभवन्नृपः । शासको भ्रासकश्चाऽस्य द्वौ सुतौ सिंहलाङ्गजौ ॥१॥ शस्त्रे भुजाबले शास्त्रे न्याये धर्मे पराक्रमे । तयोः स्माऽनन्यसामान्यं भाति सातिशयं यशः ॥२॥ 15 सदेहमिव सौभाग्यं लावणस्यैव देवता । एतयोरनुजा जज्ञे नाम्नाऽपि सुकुमारिका ॥३॥ पीत्वा सदागमाचार्यादन्येधुर्देशनाऽमृतम् । एतौ भवदवाऽऽतङ्कजातं तत्यजतुः क्षणात् ॥४॥ अथ संवेग-वैराग्यधुरीणं गुरुसारथिम् । प्राप्य व्रतरथं जेतुमेतौ मोहं विचेरतुः ॥५॥ क्रमादभूतां गीतार्थी समग्राऽऽगमपारगौ । सुकुमार्यपि सम्बुद्ध्याऽऽदित दीक्षां तदन्तिके ॥६॥ स्मरे दग्धे भवाद्भीरुर्वैराग्येण रतिः स्वयम् । तपोऽनुतप्यते बाला सा लोकैरित्यतर्यंत ॥७॥ 20 कामुकास्तामुपद्रोतुं प्रचरन्ति बहिर्बहु । इत्यमूं स्थापयामासोपाश्रयान्तः प्रवर्तिनी ॥८॥ विशन्ति ते वसत्यन्तर्यदा लुब्धान्तराः शठाः । तदा रुद्रमती सूररेत्याऽऽचख्यौ प्रवर्तिनी ॥९॥
सूररथ समादेशात्तौ द्वौ शासक-भ्रासकौ । सहस्रयोधिनौ तासामभूतां द्वाररक्षकौ ॥१०॥ तद्रक्षणाऽक्षणिकयोस्तयोरावश्यकादिषु । प्रत्यूहोऽतिमहानासीत्कथा सूत्रार्थयोस्तु का ॥११॥ हा धिग् ममाऽधिकं रूपमाधिसाधनमेधते । साध्वीनामिव मे भ्रात्रोस्तपःप्रत्यूहकारणम् ॥१२॥ 25 विमृश्येति भृशं साऽथ नृशंसाऽभून्निजेऽङ्गके । आजहार च नाहारमपि सा कर्हिचित्ततः ॥१३॥ तस्या दीप इवाऽस्नेहो देहोऽथाऽऽहारवर्जितः । क्रमेण क्षीणवान् वानवारिकेदारपद्मवत् ॥१४॥
१. तंकजानं तत्यजतुः P तंकजानं...K । २. दीक्षारथं - P। ३. विरेचतुः, P, KH | ४. तयोः स्वसापि - A, D, C, B, K, KH, H, L | ५. र्मुहुः - A बुहु: B, मुखं - KH, बहुः - K, बुंहः - HI
टि. 1. धुरं वहति इति धुरीण: वृषभादिः तम् , संवेगवैराग्यौ एव धुरीणौ इत्यर्थः । 2. भवः-महादेवः, तस्माद्भीरुः। 3. वानं - वनसम्बन्धि।