________________
३६४
[कर्णिकासमन्विता उपदेशमाला । गाथा-१८०-१८१] अनादिसिद्धेरविनश्वरस्य ज्ञातुर्जडे नाशिनि कृत्रिमे च । गुणेन केनाऽस्तु ममत्वमस्य पुंसः स्वदेहेऽपि कुतोऽन्यदेहे ॥७७५॥ लक्ष्मीमलक्ष्मी च विचिन्त्य चूते प्रबुध्य गान्धारनृपो नगातिः । तदैव देवापितशुद्धवेषः प्रत्येकबुद्धत्वमिति प्रपेदे ॥७७६॥ [उपजातिवृत्तचतुष्कम्] ते क्रमात्करकण्डुश्च द्विमुखश्च नमिश्च सः । नगातिश्चाययुः क्षोणीप्रतिष्ठानपुरेऽन्यदा ॥७७७॥ तत्र तस्थुश्चतुद्वरि लघौ देवकुले क्वचित् । पूर्वाद्यासु क्रमाद्दिक्षु वलक्षध्यानमानसाः ॥७७८॥ तदा देवकुलाधीशो व्यन्तर: प्रीणितान्तरः । दध्यौ विधेयमातिथ्यमेषां सन्तोषिणां कथम् ॥७७९॥ धन्योऽहं कृतकृत्योऽहं निर्वृतोऽस्मि भवेऽप्यहम् । यदिमे मन्दिरं मेऽद्य पुनते पुण्यदर्शनाः ॥७८०॥ श्लाघ्यं सांमुख्यमेवैषामातिथ्यमधुनोचितम् । विधायाऽपि यदातिथ्यं वैतथ्यं विमुखो नयेत् ॥७८१॥ चतुर्मूर्तिश्चतुर्योऽपि मुनिभ्यः संमुखीभवन् । व्यन्तरः स तदात्मानं मेने सुकृतिनं कृती ॥७८२॥ करकण्डुमुनिः कण्डूमपनुद्य पुनः श्रुतौ । शलाकां स्थगयन्नूचे द्विमुखेन महर्षिणा ॥७८३।। सर्वं राज्यं च राष्ट्रं च पुरं चान्तःपुरं च तत् । मुक्त्वाऽमुं सञ्चयं भूयः कुरुषे पुरुषेश ! किम् ॥७८४॥ प्रतिवक्ति तदा यावत्करकण्डुर्महामुनिः । तावदाविर्भवत्तों नमिर्द्विमुखमभ्यधात् ॥७८५॥
पैतृकस्याऽपि राज्यस्य कृत्वा कृत्यकृतो बहून् । त्यक्त्वा तत्कृत्यमप्यद्य भूयःकृत्य करोषि किम् ॥७८६॥ 15 द्विमुखो नोत्तरं दत्ते यावन्नमिमहामुनेः । तावद्गान्धारराजर्षिर्नगातिर्गिरमाददे ॥७८७॥
यदा साम्राज्यमुत्सृज्य मुक्तावुत्तिष्ठते भवान् । आत्मनिःशेषकृत् तस्मान्नान्यमर्हति गर्हितुम् ॥७८८॥ शान्तं कान्तं हितं स्वादु मुधाकृतसुधारसम् । करकण्डुरुवाचेति ततः शुचि वचो मुनिः ।।७८९॥ मोक्षमार्ग प्रपन्नेषु साधुषु ब्रह्मचारिषु । हितार्थं दिशतः साधोर्न दोषं वक्तुमर्हसि ॥७९०॥
विषं वा मन्यतामन्यो रोषं तोषं करोतु वा । भाषितव्या हिता भाषा स्वपक्षगुणकारिका ॥७९१॥ 20 महात्मनः प्रपद्यैतां सम्यशिक्षां महर्षयः । कालेनाऽऽसाद्य कैवल्यमभजन्त महोदयम् ॥७९२॥
- इति करकण्डुप्रभृतिचतुष्प्रत्येकबुद्धकथानकम् ॥ इदं चाश्चर्यभूतमसम्भाव्यतमं प्रत्येकबुद्धानां चरितमेवावलम्बनमुररीकृत्य ये स्वयं प्रमादिनो भूत्वा तच्चरितोपदेशेन अन्यानपि प्रमादे पातयन्तः स्वयं नष्टाः परानपि नाशयन्ति तान् प्रत्याह
निहिसंपत्तमहन्नो, पत्थितो जह जणो निरुत्तप्यो ।
इह नासइ तह पत्तेय-बुद्धलच्छि पडिच्छंतो ॥१८१॥ निधि रत्नादिभृतं भाजनं सम्प्राप्तं सम्यगधिगतं अधन्यो निर्भाग्यः प्रार्थयन् अभिलषन्, यथा यद्वज्जनो लोको निरुत्तप्पो निरुद्यमतया शीतलस्तद्ग्रहणे बलिविधानभूखननादिप्रयत्नशून्य इति यावत्, इह लोके नाशयति
___ १. ष्टानगरे - P । २. तत्रतेस्थुश्च - L, C, K | ३. महात्मानः L, H, C, K, KH, B, D, A । ४. द्विमुखनमिनगातिश्चतुः....P | ५. प्रमोदिनो - P।