________________
[कर्णिकासमन्विता उपदेशमाला । गाथा-१८०]
३६१ स स्वर्णतेजसं पुत्रं वासवं चाऽऽततायिनम् । अपश्यत् काश्यपीपीठे शस्त्रैवपि तौ मृतौ ॥६९९॥ पुत्री कनकमालां च लूनमूर्धानमग्रतः । विलोक्य विममर्शेति विद्याधरशिरोमणिः ॥७००॥ तेन नूनं निराशेन प्राक् निहत्य ममात्मजाम् । स्वर्णतेजाः सुतोऽघानि सोऽपि च स्वर्णतेजसा ॥७०१॥ अहो असारः संसार: सारभ्रान्त्या मुधाऽर्थ्यते । कामाद्यैर्यत्र जन्तूनां सुप्रापाऽनुपदं विपत् ॥७०२॥ क्व पुत्रः पुत्रिका क्वासौ क्वाततायी स वासवः । न सन्त्येते यथैतर्हि तथा स्वप्नोपमं जगत् ॥७०३॥ 5 जाग्रत्सुप्तपुनर्जाग्रदवस्थासु तिसृष्वपि । बोधिका मध्यमैवैका द्वे तटस्थे न तत्त्वतः ॥७०४॥ कः शत्रुः कोऽथवा मित्रं व्यामोह: सैष मोहजः । येन मूढधियो लोका न जानन्त्यात्मनो हितम् ॥७०५॥ उत्पथप्रस्थितः शत्रुर्मित्रं सत्पथमास्थितः । अयमात्मैव मन्तव्यो बहिर्धान्तिस्तु विभ्रमः ॥७०६॥ जनो जानात्वसौ तत्त्वं दुःखस्य च सुखस्य च । असन्तोषः परं दुःखं सन्तोषः परमं सुखम् ॥७०७॥ इति चिन्तयतस्तस्य धर्मिणो लघुकर्मणः । प्राग्भवाधिगमादासीत् स्वयंसम्बुद्धसाधुता ॥७०८॥ 10 देवतापितनेपथ्यः स चाऽभूच्चारणो मुनिः । दुहित्राऽपि सहाथाऽमुमानमद्वानमन्तरः ॥७०९॥ ततः कनकमालां तां जीवन्तीं वीक्ष्य चारणः । किमेतदिति पृच्छंश्च द्वावश्रौषीन्मिथो हतौ ॥७१०॥ हता तृतीया तत्पार्वे मया दृष्टाऽसि तत्कथम् । भूयः पृच्छन्मुनिश्चैवं स्मित्वोचे तेन नाकिना ॥७११॥ वराकी दुहिता नैतद्वेत्ति तत्कल्पितं मया । कारणं शृणु तत्राऽर्थे कथ्यमानं मुने ! मया ॥७१२॥ क्षितिप्रतिष्ठभूभर्तुर्जितशत्रोरभूत्पुरा । राज्याः कनकमञ्जर्याः पिता चित्राङ्गदाभिधः ॥७१३।। पुत्र्या दत्तनमस्कारः स मृत्वा व्यन्तरोऽस्म्यहम् । देवीत्वाऽन्तरिता सा तु सुता तेऽजनि खेचरी ॥७१४॥ खगेनाऽऽनीय सा मुक्ता प्रासादेऽत्र स्वयंकृते । नगे निवासिनाऽबोधि पुत्रीत्यवधितो मया ॥७१५॥ हते चौरे हते बन्धौ यावदाश्वासयाम्यमूम् । तावद्युष्मानिह प्राप्तान् वीक्ष्य मायामयोजयम् ॥७१६॥ पित्राऽनेन समं मा गादियं मे दुहितेतिधीः । तव नैराश्यमाधातुमेनां मायामहं व्यधाम् ॥७१७।। सर्वं तदेतदेतहि क्षन्तव्यं मे महामुने ! । उक्त्वेति व्यन्तरं बद्धाञ्जलिमाह महामुनिः ॥७१८॥ दिव्यैवाऽजनि ते माया या मां प्रति नियोजिता । समहारि महामाया यया भवमयी मम ॥७१९॥ नापराद्धं ततस्तत्र प्रत्युतोपकृतं त्वया । इत्युदित्वा च दत्ताशीविजहाराऽन्यतो मुनिः ॥७२०॥ प्राग्भवीयं तदाऽऽकर्ण्य वृत्तं व्यन्तरवर्णितम् । तस्याः कनकमालाया जातिस्मृतिरजायत ॥७२१॥ अयाचद् व्यन्तरं प्राच्यपितरं सा पुनस्ततः । सम्प्रत्यपि पति तात ! तमेव मम मीलय ॥७२२॥ देवोऽप्युवाच नात्माऽत्र देयो दैत्याय याच्या । जागरूकस्तवाऽत्रार्थे वत्से ! विजयते विधिः ॥७२३॥ 25 जितशत्रुः स ते प्रेयान् देवीभूय च्युतो दिवः । राज्ञो दृढरथाख्यस्य सूनुः सिंहस्थोऽजनि ॥७२४॥ पतिर्गन्धारदेशस्य स पुरात् पुण्ड्रवर्द्धनात् । तुरङ्गेण हृतोऽत्रैव समेष्यति नगे स्वयम् ॥७२५।।
टि. 1. आततायिन् (त्रि०) - आततेन शस्त्रादिना अयितुं शीलं अस्य, शस्त्रं उद्गम्य हन्तुं प्रगुणीभूतः इत्यर्थः तम्। 2. अथ अमुम् (चारणमुनि) आनमद् वानमन्तरः (देवः) इति वाच्यम् । 3. देवीत्वं अनुभूय सा कनकमञ्जरी तव सुता अजनि इत्यर्थः ।
15
20