________________
३६०
[कर्णिकासमन्विता उपदेशमाला । गाथा-१८०] प्राप्तो गुप्तं क्षितेर्गोप्ताऽररिच्छिद्रेण तत्तदा । सर्वं तद् वृत्तमालोक्याऽऽश्लिष्यन्मुदमुदित्वरीम् ॥६७१॥ तां पट्टमहिषीं चक्रे ततः प्रमुदितो नृपः । निष्कृत्रिमा हि नारीणां भक्तिर्भर्तृषु कार्मणम् ॥६७२।। तापितापि सपत्नीभिर्यं गुणोत्कर्षमाप सा । वर्णोत्कर्षं सुवर्णस्य तप्तस्याऽनुचकार सः ॥६७३॥ अन्यदा विमलाचार्यमुद्याने समुपागतम् । नृपः सह महादेव्या निशम्याऽगाद् विवन्दिषुः ॥६७४।। पञ्चधाऽभिगमेनाऽथ प्रविश्यान्तरवग्रहम् । त्रिः परीय तपोराशिमनंसीन्नृपतिर्मुदा ॥६७५॥ यथास्थानं निविष्टेऽथ भूपतिप्रमुखे जने । ववर्ष देशनासारैर्धर्मामृतघनो गुरुः ॥६७६॥ तेजस्वि श्रेयसां धाम महारत्नं महोदधौ । भवे च मानुषं जन्म भ्रष्टं भूयः सुदुर्लभम् ॥६७७॥ कामानामाशया जन्म ये मुधा हारयन्ति तत् । तैर्धान्तैर्भूतये कष्टं कल्पद्रुः क्रियतेऽग्निसात् ॥६७८॥ देवः शान्तो गुरुर्दान्तो धर्मः कान्तो दयामयः । इति तत्त्वत्रयं शुद्धं श्रयताऽवस्कराद्भवात् ॥६७९॥ यो देवगुरुधर्मेषु बोधो ज्ञानं स उच्यते । दर्शनं तु रतिस्तेषु चारित्रं तत्क्रियाक्रमः ॥६८०॥ रत्नत्रयमयः पन्थास्तत्त्वत्रितयगोचरः । त्रिधा त्रिधाऽयमाराद्धः कैवल्यमुपतिष्ठते ॥६८१॥ श्रुत्वेति देशनां सूरेविशेषाद्धर्मकर्मठः । समं कनकमञ्जर्या नरेन्द्रोऽभूदुपासकः ॥६८२॥ अन्योन्यस्याविरोधेन राज्यं धर्मं च पार्थिवः । लोकद्वयोपरोधेन यथान्यायमपालयत् ॥६८३॥ तया कनकमञ्जर्याऽन्यदा नियमितः पिता । नमस्कारं स्मरन् दत्तं कालाच्चित्राङ्गदो मृतः ॥६८४॥ कियताऽप्यथ कालेन धर्ममाराध्य साऽऽर्हतम् । आयु:क्षयादभूदत्र देवी कनकमञ्जरी ॥६८५।। च्युत्वा ततोऽपि वैताढ्ये तोरणाख्यपुरेऽजनि । दृढशक्तिखगेन्द्रस्य पुत्री कनकमालिका ॥६८६॥ उद्यौवनां च कामान्धो वासवाख्यः खगाऽग्रणीः । तां हृत्वाऽत्र नगे सौधं कृत्वाऽन्तरमुचन्मुदा ॥६८७।। तेन मङ्गलचैत्याऽग्रे वेदीयं विदधे यतः । स्वेच्छासम्पत्तयो देवास्ते विद्यासम्पदः खगाः ॥६८८॥ सर्वां विधाय सामग्री मरुभ्योऽपि स वासवः । गान्धर्वाय विवाहाय यावदासीत्समुत्सुकः ॥६८९॥ तावत्कनकमालायास्तदानुपदिकोऽग्रजः । स्वर्णतेजाः समायासीत्तस्करं समधिक्षिपन् ॥६९०॥ समं द्वावपि तन्वानौ खड्गाखड्गि महाभुजौ । मिथः क्रोधहुताशस्याभूतां पूर्णाहुती हतौ ॥६९१॥ कान्दिशीकां भिया तत्र सहोदरशुचातुराम् । पुण्यैः कश्चित्तदानीतः प्रीतस्तां त्रिदिवोऽब्रवीत् ॥६९२॥ मा शुचः सोदरं वत्से ! सङ्ग्रामे संमुखं हतम् । यद्विक्रमक्रमे साक्षी कर्मसाक्षी समीक्ष्यते ॥६९३॥
संमुखं निहताः सूरा जितात्मानस्तपोधनाः । प्रयान्ति परमं धाम भर्तृभक्ताश्च योषितः ॥६९४।। 25 शोकः शोकानुबन्धी हि न स शाम्यति शोचताम् । अथैरा इवाऽऽयान्ति दुःखैर्दुःखपरम्पराः ॥६९५॥
त्वं च मे दुहिता वत्से ! प्राणेभ्योऽप्यतिवल्लभा । लोकर्मे लालिता प्रीत्यै तिष्ठाऽत्रैवाऽकुतोभया ॥६९६॥ कोऽयं देवः कथं चाऽस्य दुहिताऽहं महात्मनः । स्निह्यतीव ममाऽप्यस्मिन्नन्तरात्मा किमञ्जसा ॥६९७।। दध्यौ कनकमालेति यावत्तावदुपागमत् । तनयान्वेषको धावन् दृढशक्तिः खगाग्रणीः ॥६९८॥ युग्मम् ॥
टि. 1. अररिः - कपाट: द्वारम् वा। 2. कर्म साक्षात् पश्यति - इन् - सूर्यः ।