________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा - १८० ]
अथाह स हसन्नेवं जातुधानं द्विजाग्रजः । याचसे चेत्त्वमादेशं हिंसां तर्हि परित्यज ॥६४३॥ क्व सौमनस्यं हिंस्राणाममृताशी क्व मांसभुक् । जीवजीवातुभावस्तु सत्यं देवत्वमर्हति ॥६४४॥ स्वीकार्य करुणाधर्मं हासहेतुप्रबोधतः । सत्यं पुण्यजनीकृत्य स तेन प्रैषि राक्षसः ||६४५॥ राजादिभिस्तदाऽनेकैर्बुद्ध्वा ब्राह्मणदारकात् । शान्तः करुणया कान्तः प्रपेदे धर्म आर्हतः ॥६४६॥ हले मदनिके ब्रूहि हासहेतुः स कीदृशः । यं निशम्याऽभवत्तेषां मतिर्धर्मे दयामये ॥६४७॥ तदा निद्राय साऽन्येद्युर्निशि निद्राति भूपतौ । तथैव दासीमासीनामूचे कनकमञ्जरी ||६४८॥ क्रमान्माता पिता राजा देवश्च शरणं नृणाम् । तेषु सन्निहितेष्वेवं किं स्मरामीति सोऽहसत् ॥६४९॥ य एवाऽहिंसकस्तस्मात्कारुण्यामृतवारिधिः । स एवार्हन् शरण्यः स्यात् परे जन्माब्धिबुद्बुदाः ॥६५०॥ कथाप्रथाभिरित्येवं परिमोहयमाणया । तया कनकमञ्जर्या विशामीशो वशीकृतः ॥ ६५१॥ नित्यमत्यन्तमासक्तस्तस्यामेवानुरक्तहृत् । प्रवृत्तिमपि राज्ञीनां नाऽन्यासां पृच्छति स्म सः ॥६५२॥ प्रायेण मुग्धहृदयाः शिशवो योषितो नृपाः । ह्रियन्ते लुब्धकैर्नीचैः कुरङ्गा इव कानने ॥६५३॥ गण्यन्ते पुरुषास्तावद्यावन्नायान्ति वश्यताम् । धैर्यध्वंसपताकासु भ्रूभङ्गाज्ञासु योषिताम् ॥६५४॥ तन्निशान्तनितम्बिन्यः समन्युमनसोऽपराः । विद्वेषविषयं चक्रुर्न काः कनकमञ्जरीम् ॥६५५॥ भिनत्त्यनायसं शस्त्रमद्रव्यं विषमं विषम् । नीचाऽवमानप्रभवो मन्युर्मर्माणि देहिनाम् ||६५६॥ रूपं कुलं कलां लक्ष्मीं तासामित्यभिभूय सा । राजानमात्मसाच्चक्रे शिल्पिकन्या गिरां रसैः ||६५७॥ पावनीश्रीरिहोद्गारो वशीकारो विकार्मणः । मुखमण्डनमद्रव्यं जयन्ति विशदा गिरः ॥६५८॥ तत्सपत्नीजनस्तस्याः पुरोभागी परःशतः । रहस्यमिह शुश्राव कदाचिदिति चेष्टितम् ॥६५९॥ तथाह्येकाकिनी भूत्वा सा मध्याह्ने सदा रहः । चित्रकृत्कन्यका किञ्चिज्जपतीति हितोदितम् ॥६६०॥ युग्मम् ॥ सम्बन्धस्य स्वभावेन सपत्न्यः पादचत्वराः । सत्वरास्तत्तथा सर्वमुर्वीशाय न्यवेदयन् ॥६६१॥ नृपो निशम्य तत्तस्याः सम्यग् जिज्ञासुरात्मना । अगात्तत्र तदान्वेष्टुं छन्नं यत्र गृहेऽस्ति सा ॥६६२॥ इतश्च सा यदैवोढा राज्ञा कनकमञ्जरी । मध्याह्ने तत्प्रभृत्येवं नित्यमात्मानमन्वशात् ॥६६३॥ भूत्वैकान्ते परावृत्त्य पतिप्रत्ताम्बरादिकम् । वस्त्रे पटच्चरे ते तु पर्यधाज्जनकापि ॥६६४॥ वापुषीं त्रापुषीं प्राच्यमेव चालङ्कृतिं तनौ । परिधायात्मनात्मानं नित्यमित्थमबोधयत् ॥६६५॥ आत्मन् ! पुराणं नेपथ्यं विमृश्येदमिहात्मनः । मा कार्षीर्भूपतेर्भूत्या गर्वं गर्वो हि पातकृत् ॥६६६॥ त्वमात्मन् मा स्म विस्मार्षीरात्मानं स्वामिसम्पदा । मद्याद् विषादपि श्रीणां मोहशक्तिर्महीयसी ||६६७ || न कुलेन न वेषेण न मन्त्रैर्न च कार्मणैः । भर्तृभक्तिबलेनैव महनीया महेलिकाः ॥६६८॥ न मुक्ताभिर्न माणिक्यैर्न वेशैर्न परिच्छदैः । अलङ्क्रियन्ते शीलेन केवलेनैव योषितः ॥६६९॥ देवार्चनमिवात्मानुशासनं नित्यमित्यसौ । कृत्वाऽथ राजवेषेण कृत्यमन्यत्पुनर्व्यधात् ॥६७०॥
३५९
१. पाविनी श्री... D, पावनश्री C, A । २. पादचत्वारः - A पापचत्वराः C |
टि. 1. राक्षसः, तम् । 2. स्व + कृ + णिग् (प्रेरकरूपं ) + वि + त्वा ( यप्) । 3. निशान्तम् ० - अन्तः पुरम् । 4. पुरोभागी - पुरः पूर्वं भजते-गुणान् त्यक्त्वा दोषान् एव गृह्णाति । 5. जीर्णे ।
5
10
15
20
25