________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा - १८० ]
३५५
नृपोऽप्याह त्रयः के ते येषां तुर्यः कृतोऽस्म्यहम् । साऽप्युवाच वचः सौम्य ! श्रूयतां यदि कौतुकम् ॥५४०॥ मया दृष्टोऽद्य साद्येको बालस्त्रीवृद्धसङ्कुले । निर्घृणो वाहयन् वाहं विपणेरेव वर्त्मनि ॥५४१॥ द्वितीयश्च नृपोऽत्रत्योऽन्येषामिव कुटुम्बिनाम् । निःस्वस्यैकस्य वृद्धस्य मत्पितुः समभागदः ॥ ५४२॥ तृतीयो व्ययिताशेषोपार्ज्जुनश्चैष मे पिता । भक्ते नित्यमिह प्राप्ते याति यः सरलो बहिः ॥ ५४३ ॥ चतुर्थो रोचसे त्वं मे त्रिषु तेषु विशेषवान् । योऽप्रेक्षापूर्वकृच्चित्रबर्हे करमवाहयः ॥५४४॥ चञ्चद्वचनवैचित्र्यचातुरीभिश्चमत्कृतः । अन्तरात्मा नरेन्द्रस्याऽहारि हारिदृशा तया ॥ ५४५ ॥ प्रतीपमपि कस्याऽपि वचनं चारु रोचते । कृष्णागरुत्थो धूमोऽपि न स्यात् कस्य मनोहरः ॥५४६॥ रक्तस्तस्यां ततो राजा परतोऽगच्छदात्मना । यामिकीकृत्य तत्रैवाऽमुञ्चत् तां परितो मनः ॥ ५४७॥ मन्त्रिणोऽथ सुगुप्तस्य मुखेन जगतीपतिः । ततश्चित्राङ्गदात् कन्यामयाचत महादरात् ॥५४८॥ तद्वेश्माऽऽपूर्य वित्तौघैः प्रशस्तेऽथ दिनक्षणे । उपयेमे महाभूत्या भूपश्चित्राङ्गदाङ्गजाम् ॥५४९॥ प्रासादं च प्रसादं च भूपादासेदुषी परम् । सा महाराजवंश्यानां सपत्नीनामुपर्यभूत् ॥५५०॥ तयाऽऽदितोऽन्यदाऽऽदिष्टा दासी मदनिकाभिधा । रतिश्रान्ते च भूकान्ते मत्तः पृच्छेः कथामिति ॥५५१ ॥ अन्यदा रात्रिकेऽतीतेऽमात्यलोके गते गृहान् । नृपो धनुर्धराधीनरक्षोऽभ्यागात्तदालयम् ॥५५२॥ कान्ततः कामसूत्रार्थमशेषमनुभूय सा । तमेवामंस्त शास्तारमपि तत्तत्त्वदर्शनम् ॥५५३॥ सुषुप्सति रतिश्रान्ते क्ष्माकान्ते तत्र भोगिनीम् । ऊचे मदनिका काञ्चित् कथां कथय देवि ! मे ॥ ५५४॥ राज्ञी मदनिकामूचे प्रतीक्षस्व क्षणं सखि । नरेन्द्रो निद्रया शेतामाख्यास्येऽहं ततः कथाम् ॥५५५॥ तत्कथाकाम्यति क्ष्मापे सापेक्षं शयिते मृषा । भोगिन्याऽऽख्यायिकां ख्यातुमथाऽऽरेभे कुतूहलात् ॥५५६॥ पुरे मधुपुरे श्रेष्ठी वरुणाऽऽख्यो व्यधापयत् । ग्राव्णैकेनैव हस्तैकमितं देवकुलं कृती ॥५५७॥ चतुष्करः प्रमाणेन घटितोऽतिमनोहरः । तत्र देवः प्रतिष्ठाप्याऽच्चितोऽस्मै वरदोऽजनि ॥ ५५८ ॥ कथमेककरे देवकुले देवश्चतुष्करः । दास्या पृष्टाऽऽह राज्ञी श्वः प्रच्छेः स्वप्स्यामि साम्प्रतम् ॥५५९॥ राज्ञीमापृच्छ्य धाम स्वमथो मदनिकाऽगमत् । जज्ञे कनकमञ्जर्या निद्रा मुद्रा दृशोश्च तत् ॥५६०॥ तथा कथारहस्यार्थं राज्ञा जिज्ञासुना हृदि । श्रोतव्यमेवमेव श्वो निश्चित्येत्थमय्यत ॥५६१ ॥ तथैव च द्वितीयेऽह्नि तदेकहृदयो नृपः । सायमेवादिशत्तस्या एव वारकमादरात् ॥५६२॥ रतैरतीत्य रात्र्यर्द्ध निदिद्रासति भूपतौ । अप्राक्षीत् प्राक्कथोद्घातं राज्ञीं मदनिका पुनः ॥५६३॥ साऽप्याह स चतुर्बाहुर्बाहुभिर्न तु वर्ष्मणा । हले! मदनिके ! देवः किं त्वमत्राऽपि मुह्यसि ॥५६४॥ पृष्ट भूयस्तयाऽऽख्यानमूचे कनकमञ्जरी । अस्ति विन्ध्यगिरौ कोऽपि रक्ताशोकतरुर्महान् ॥५६५॥ छदौघैश्छादितार्कस्य शाखाश्लिष्टदिशो भृशम् । तस्य नाऽभूत्परं छाया बहुलस्यापि शाखिनः ॥५६६ ||
१. चेष्टितं - A । २. चतु: करप्रमा....B, K, A, D, L । ३. निदद्रासति - B, KH टि. 1. मृषा (अव्य० ) - मुधा ।
5
10
15
20
25