________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा - १८० ] गन्धधूपसुमान् दत्त्वा रेचकेन परान् सुरान् । विसृज्य पत्रिकां वैश्यां धौते पट्टे सुमं न्यधात् ॥५१३॥ उत्थाय तेन धाम्नोऽन्तर्वृत्तं न्यस्याऽथ मण्डलम् । तत्र वास्तोष्पतिर्ब्रह्मा गन्धधूपसुमाक्षतैः ॥५१४॥ स्कन्दश्च मध्यस्तम्भाधः कामः पल्यङ्कमूर्द्धनि । पट्टे भवनदेवी च यक्षेशो द्वारि चार्च्यत ॥ ५१५ ॥ युग्मम् ॥ धौते पोते परावृत्य परिधायाऽन्यवाससी । नृपः सिंहासने पत्न्या निषसाद तया सह ॥५१६॥ 5 कान्तां वाचमथोवाच कान्तां स्वैर्दशनांशुभिः । आमुक्तमुक्तापङ्क्तीनां पौनरुक्त्यं भृशं दिशन् ॥५१७॥ अनद्यश्वीन एवायं सम्बन्धस्तावदावयोः । मनो मे लज्जते तेन प्रष्टुं का त्वमिति स्फुटम् ॥५१८॥ तथापि श्रोतुमुत्कण्ठा त्वद्गिरं मे सुधाकिरम् । तदादिशैष देशोस्तु हंसकूजितपूजितः ॥५१९॥ अथाधरद्युतिश्लिष्टोच्छलद्दन्तच्छविच्छलात् । आह सा प्रेयसे साक्षादनुरक्तां सरस्वतीम् ॥५२०॥ भोगवत्यां यथा शेषो लेखोत्तंसो यथा दिवि । पुरे क्षितिप्रतिष्ठेऽ भूज्जितशत्रुस्तथा नृपः ॥५२१॥ स चारलोचनो दूतवक्त्रः कीर्त्तिप्रियो गुणी । अभून्मानधनो बाहुसाधनो रिपुराजघः ॥५२२॥ सम्पदाऽनन्यसामान्यः परेषां सैष भूभुजाम् । अर्थमुत्कृष्टमुत्कृष्टं दृष्ट्वाऽऽसीत् तत्र कौतुकी ॥५२३ ॥ कदाचन चरानेष पप्रच्छ प्रियकौतुकः । परेषामस्ति मे नास्ति किञ्चित्तद् ब्रूत नूतनम् ॥५२४ ॥ व्यजिज्ञपन्नृपायैते सर्वमस्त्येव देव ! ते । सभायां चित्रमेवैकं न्यूनमन्यूनसम्पदः ॥५२५॥ सर्वानाकार्य नाकार्यचित्रश्रीश्चित्रकानथ । समांशेन सभाभित्तीस्तेभ्यश्चित्राय साऽऽर्प्पयत् ॥५२६॥ एकश्चित्रकलोत्कर्षी वर्षीयांस्तत्र चित्रकः । नाम्ना चित्राङ्गदश्चित्रं स्वस्यां भित्तौ स चक्रिवान् ॥५२७॥ सहायान्तरशून्यस्य काले तस्याऽन्वहं गृहात् । भक्तमानयते भक्ता सुता कनकमञ्जरी ॥५२८॥ वहन्ती शैशवादूर्ध्वं वैदग्ध्यमधुरं वयः । गृहाद् गृहीत्वा पित्रेऽन्नं सैकदा यावदावति ॥५२९॥ यान्तं जनाकुले राजमार्गे राजश्रियोज्ज्वलम् । सादिनं तावदद्राक्षीन्मुखमुक्तेन वाजिना ॥५३०॥ युग्मम् ॥ इतस्ततस्ततस्त्रेसुस्ते जनास्तत्र वर्त्मनि । पलाय्य क्वाऽपि साऽप्यस्थात् क्षणं चित्राङ्गदात्मजा ॥ ५३१ ॥ तत्र सादिन्यतिक्रान्ते प्रशस्तेनाऽध्वनाऽथ सा । उपचित्राङ्गदं प्राप राज्ञश्चित्रसभागृहे ॥ ५३२॥ तां भक्तपाणिमालोक्य प्राप्तां चित्राङ्गदोऽपि सः । ययौ शरीरचिन्तार्थी ततश्चित्रगृहाद्बहिः ॥५३३॥ वस्त्रान्तश्छादितं तत्रैकत्र मुक्त्वान्नभाजनम् । आदात् तौलिककस्यास्य वर्णकांस्तूलिकाश्च सा ॥५३४|| तैर्यथावदथावर्त्त्य कौतुकात्कुट्टिमोपरि । साक्षादक्षेपतः सैकं पिच्छं मायूरमालिखत् ॥५३५॥ अत्रान्तरे नरेन्द्रोऽपि जितशत्रुः कुतूहलात् । चित्रमीक्षितुमेकाकी वीथ तामेव सोऽभ्यगात् ॥५३६॥ चित्राण्यालोकमानोऽत्र सञ्चरंश्चतुरोऽपि सः । बहें तत्र च्युतभ्रान्त्या राजा करमवाहयत् ॥५३७॥ तत्राग्रनखभङ्गेन विलक्षो दिक्षु दत्तदृक् । तया कनकमञ्जर्या सहासमिदमौच्यत ॥ ५३८ ॥ पादो नासीन्ममाऽऽसन्द्याः सन्त्यग्रे यत्त्रयोंहूयः । लब्धो मयाऽद्य तुर्योऽपि त्वमेवमविमृष्टकृत् ॥५३९॥
10
15
20
25
३५४
१. वचः - K, D । २. त्सुखमुक्तेन - B, C I
टि. 1. लेखः देवः तेषां उत्तंसः इव इन्द्रः । 2. ५।१।८८ [राजघः ] इति सूत्रेण निपातः । 3. नाकः स्वर्गः, तस्य अर्थः स्वामी इन्द्रः नाकार्य:, तस्य चित्रश्रीरिव चित्रश्रीः यस्य सः । 4. स आर्पयत् [ तदः से: ...] १।३।४५ इति सूत्रेण सन्धिः 15 वर्षीयान् - वृद्ध + ईयस्, अतिवृद्धः, ७।४।३८ हेम० शब्दा० सूत्रेण वर्ष इति आदेशः । 6. तौलिक : - चित्रकारः ।