________________
[ कणिकासमन्विता उपदेशमाला । गाथा - १८० ]
यावद्भिर्युज्यते ह्यात्मा सुखाप्तिमृगतृष्णया । तावन्तो बीजतां यान्ति दुःखाख्यविषभूरुहाम् ॥४३५॥ सम्बन्धो योज्यते मोहाद् येन येन हि जन्तुभिः । तेषां तेषां परिणामः शल्यतुल्योऽनुभूयते ॥४३६॥ रोगातङ्कादितो मुक्तः परित्यज्याऽखिलं ततः । दीक्षयाऽऽसाद्य कैवल्यं यतिष्ये दुःखमुक्तये ॥४३७॥ इति चिन्तयतस्तस्य निद्रया मुद्रिते दृशौ । षण्मासान्तरपूर्वा च तदैवासीत्सुखासिका ॥४३८॥ तदा कार्त्तिकराकायां निद्रामुद्रितलोचनः । रात्रौ विभातभूयस्यां स्वप्नमेवं ददर्श सः ॥४३९॥ कुञ्जरेन्द्रं किलारुह्य सुधाकरसहोदरम् । मूर्द्धानमधिरूढोऽस्मि मन्दरस्य महेन्द्रवत् ॥४४०॥ प्रभातनान्दीतूर्याणां निर्घोषेणाऽथ बोधितः । पीतामृत इव प्रीत्या विममर्श निरामयः ॥ ४४१ ॥ अमुमेवंगुणं क्वापि दृष्टपूर्वी महीधरम् । नमिस्तद्विमृशन् भेजे जातिस्मरणसंविदम् ॥४४२॥ शुक्रे कल्पे यदाऽभूवं पुष्पोत्तरविमानगः । देवः पुरा तदा मेरुमपश्यं जिनजन्मसु ॥४४३ ॥ निराबाधत्वमेकत्वं कङ्कणानां विभाव्य तत् । नमिः प्रत्येकबुद्धोऽयं निष्क्रान्तो मिथिलाधिपः || ४४४ पुरमन्तःपुरं राज्यं सर्वमेकपदे तदा । त्यजन्तं नमिमालोक्य चमच्चक्रे सुरेश्वरः ||४४५॥ निरीहो निरहङ्कारो निर्ममो निर्मलाशयः । स्वमहिम्ना महेन्द्रेण महर्षिर्महितो नमः ||४४६ ||
अथ नगातिचरितम्
अस्तीह भारते वर्षे स्वर्गादधिकचारुते । गन्धारनीवृतः पुण्ड्रं पत्तनं पुण्ड्रवर्द्धनम् ॥४४७॥ तत्र सिंहरथो नाम धाम्नां धाम नृपोऽजनि । नीत्या यद्विक्रमो रेजे वैजयन्त्येव मस्करः ॥४४८॥ तस्यान्यदावनीभर्तुरौत्तराहौ तुरङ्गमौ । उपायनाय सम्प्राप्तौ द्रष्टुमासीत् कुतूहलम् ॥४९९॥ तत्रैकत्रात्मनारूढो राजपुत्रोऽपरे हरौ । ययौ राजाऽथ वाह्याल्यां सहान्यैः सादिनां शतैः ॥४५०॥ गतिभेदैः परैः राज्ञा सर्वैः सोऽर्वा परीक्षितः । मुक्तो गत्याऽथ सोऽन्वेष्टुं पञ्चम्या प्लुतनामया ॥ ४५१॥ वल्गां यथा यथाऽकर्षत्तदोत्कर्षान्नरेश्वरः । हरीश्वरोऽपि संहर्षादधावत तथा तथा ॥ ४५२॥ अतिक्रम्येतराश्वीनमध्वानं स मुहूर्त्ततः । व्यस्ताऽभ्यस्तोऽटवीं भेजे समं राज्ञा तुरङ्गमः ॥४५३॥ श्रान्तेन पृथ्वीकान्तेन ततो वल्गा व्यमुच्यत । स्थितो विलोममभ्यस्तो हरिश्च निरचीयत ॥ ४५४ ॥ उत्तीर्य वेल्लयित्वा तं पाययित्वाऽम्बु नैर्झरम् । तरावबध्नादर्वन्तं कुर्वन्तं स तृणादनम् ॥४५५॥ प्राणवृत्ति फलैः कृत्वा नगमारुह्य कञ्चन । सायं प्रासादमद्राक्षीद्विजने स जनेश्वरः ॥ ४५६ ॥ तमारोहदथाऽऽश्चर्यात् प्रासादं सप्तभूमिकम् । कनीमेकाकिनीमेकामत्रैक्षत च भूपतिः ॥४५७॥ पाद्यं राज्ञोऽथ हर्षाश्रैः सार्धं प्रीतिस्मितांशुभिः । स्वं चान्तःकरणं पूर्वं ददेऽनु परमासनम् ॥४५८॥ विकिरन् मौक्तिकानीवाऽवनीविभुरथाऽवदत् । का त्वं नगेऽत्र वासः किं किं सौधं कोऽत्र रक्षिता ॥ ४५९॥
३५१
१. तप: B, D, KH, K
टि. 1. अधिका चारुता यस्य तस्मिन् । 2. नीवृत् देशः तस्य । 3. वैजयन्ती पताका तया । 4. मस्करः - वंशः, कीचकः इति यावत् । 5. औत्तराहः - उत्तरस्मिन् कालादौ भवः । 6. अर्वन् - अश्वः । 7. व्यस्ताऽभ्यस्तः - विपरीतशिक्षः ।
-
-
5
10
15
20
25