________________
३५०
[कर्णिकासमन्विता उपदेशमाला । गाथा-१८०] यदादिशत तत्तथ्यं नाऽत्र मे हृदि संशयः । उन्मुद्रयति मुद्रापि युगबाहुजतां च मे ॥४०८॥ माननीयश्च मे ज्यायान्निर्विकल्पं पितुः समः । अबद्धवदनस्त्वेष कथं प्रत्याय्यते जनः ॥४०९।। सर्वथा रञ्जनीयोऽयं जनो निर्दोषदोषकृत् । लोकप्रत्ययसारो हि सदाचारपरिग्रहः ॥४१०॥ ज्यायान् कनिष्ठवात्सल्यात् चन्द्रस्त्वायाति चेत्पुरः । तदोचितमिदं भाति मातर्मे मानरक्षणात् ॥४११॥ लोभोऽभिमाने न धने तृष्णा यशसि नाऽऽयुषि । एतावदेव महतां वीरव्रतमखण्डितम् ॥४१२॥ मानमूलस्य यशसः परिरक्षैव जीवितम् । कृतान्तस्य कृता केन मुहूर्तं हस्तधारणा ॥४१३॥ अथार्याया निदेशेन बलानां स्वैनरैर्नमिः । दुर्गरोधाऽभियुक्तानामवहारमकारयत् ॥४१४॥ आर्या नमि तमापृच्छ्य दुर्गान्तारिकाऽध्वना । प्रविश्य राजसौधेऽथ प्रापच्चन्द्रयशोऽन्तिकम् ॥४१५॥
सोऽप्यकस्मादथ प्राप्तामभ्युत्थाय ससम्भ्रमम् । इलातलमिलन्मौलिर्नमति स्म स्वमातरम् ॥४१६॥ ___ अभिनन्द्य तमाशीभिः स्वयं तेनैव ढौकिते । निषसादाऽऽसने लोकैः सप्रणामं निषेविता ॥४१७॥
अनुयुक्ताऽथ वृत्तान्तं सुतायाऽऽख्याय सा निजम् । अनुजं सोदरं तस्मै ज्ञापयामास तं नमिम् ॥४१८॥ श्रुत्वा चन्द्रयशोराजस्तं तदानुजमागतम् । हर्षोंत्सुक्यत्रपाप्रीति-प्रबोधै रुरुधेऽधिकम् ॥४१९॥ दाराः सम्पत्तयः पुत्राः पत्तयः सुलभाः सताम् । लोकेऽस्मिन् सोदरो बन्धुः सुकृतैर्यदि लभ्यते ॥४२०॥ बहिः पुरान्निरीयाऽथ चन्द्रः सानुचरः स्वयम् । आगच्छन्नमिनाऽभ्येत्य भूपीठे लुठताऽऽनतः ॥४२१॥ एकीकुर्वन्मनो गर्भं नयन्निव तमात्मना । चन्द्रो नमि समुद्धृत्याऽश्लिष्यत्प्रणयपूरितः ॥४२२॥ अदर्पणस्थौ स्वावेव प्रतिदेहौ महीपती । मिथो विलोकयन्तौ तौ न तृप्ति जातु जग्मतुः ॥४२३॥ तत्रानन्दक्षणे तस्मिन् महोत्सवपुरस्सरम् । सुदर्शनपुरैश्वर्यं चन्द्रः श्रीनमये ददौ ॥४२४॥ अथाग्रहात्तमापृच्छ्य स्वयं सङ्गबहिर्मुखः । अन्तर्मुखमतिर्मुक्त्यै चन्द्रः संयममग्रहीत् ॥४२५॥
श्रीमान्नमिरवन्तीनां मिथिलायाश्च भूपतिः । प्रचण्डशासनो जज्ञे विक्रमेण क्रमेण सः ॥४२६।। 20 अन्यदा च नमेर्देहे महान् दाहज्वरोऽजनि । पाण्मासिको विधिवशादवश्यो भिषजामपि ॥४२७॥
निवृत्त्यै सततं तस्य स्वयमन्तः पुरीजनः । आलेपनाय श्रीखण्डं सङ्घर्षात्तत्र घर्षति ॥४२८॥ तासां तदाऽतिभूयस्त्वान्मूच्छितोऽभून्मुहुर्मुहुः । वलयावलिभूर्घोषो निःस्वानेभ्योऽपि दुःश्रवः ॥४२९॥ तेनाऽऽर्ते चाऽरति राज्ञि भेजानेऽन्तःपुरस्त्रियः । पाणौ पर्यधुरेकैकमेव मङ्गलकङ्कणम् ॥४३०॥
स कङ्कणक्वणः क्वेति पृच्छति क्षितिवल्लभे । इत्थं व्यजिज्ञपंस्तथ्यमासन्नपरिचारकाः ॥४३१॥ 25 एकैकत्वेन कैवल्यभाजिनां भूयसामपि । शब्दः संयोगजो ह्येष कङ्कणानां कुतो भवेत् ॥४३२॥
वचस्तदेतदापीय पीयूषमिव भू-विभुः । व्यचिन्तयदयं बोधान्निर्वृतेनान्तरात्मना ॥४३३॥ विचार्यमाणाः शब्दाश्च रागाद्याश्च द्वयेऽप्यमी । संयोगाच्च वियोगाच्च जायन्ते नान्यतः क्वचित् ॥४३४॥
टि. 1. ईश्वरस्य भावः ऐश्वर्यम, स्वामित्वं इत्यर्थः ।