________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा - १८० ] प्रचण्डशासनस्यास्य दुःसाध्यानपि शासतः । कदाचिदासीद्वाहानां वाहकेल्यां कुतूहलम् ॥३५६॥ समं स मन्त्रिभिः सर्वैः सामन्तैश्चान्वितस्ततः । वाहवाहार्हनेपथ्यो वाह्यालीदेशमासदत् ॥३५७॥ इतश्च राज्ञो राजन्यचक्रशक्रश्रियो नमः । चतुर्दन्तः सितच्छायः सुधाशनगजोपमः ||३५८|| आलानस्तम्भमुन्मूल्य मदान्धो विन्ध्यबद्धधीः । गम्भीरवेदी नेदीयच्छायामात्रमपि क्षिपन् ॥३५९॥ कृतान्त इव दुर्दान्तः प्रतिकारभयङ्करः । मुहुर्मूर्द्धानमाधुन्वन् स्पृशतः पवनादपि ॥३६०|| उद्दण्डशुण्डादण्डश्रीः खण्डितुं खमिव क्रुधा मैदस्यन्मधुपव्रातैरप्यनासादितान्तिकः ॥३६१॥ अपूर्व इव सर्वेषां गजवर्गनिवासिनाम् । उल्लङ्घ्य मिथिलासीमां द्विपोऽधावद्दिशैकया ॥३६२॥ पञ्चभिःकुलकम् ॥ आशुगोप्याऽऽशुगो नासीद् वाजिनोऽपि न वाजिनः । वामनोऽभून्मनोवेगोऽप्यनुगन्तुं गजं तदा ॥३६३|| उल्लङ्घ्य देशसीमानमपि श्रीनमिभूभुजः । क्रान्त्वाऽतिभूयसीं भूमिं सोऽवन्तीमव्रजद्गजः ॥३६४॥ 10 सुदर्शनपुरोपान्ते सञ्चरन् कुञ्जरस्तदा । वाह्यालीमिलितैः प्रेक्षि स श्रीचन्द्रयशोबलैः ॥ ३६५॥
अतिश्रान्तः क्षुधाक्रान्तो वशीकृत्य चमूचरैः । उपानिन्ये नरेशाय स चन्द्रयशसे गजः || ३६६|| महामहोत्सवेनाऽथ विशामीशो वैशापतिम् । हर्षावेशवशात् प्रावीविशदात्मवशं पुरम् ॥३६७॥ अवन्तीन् स गतो दन्ती किंवदन्तीति विश्रुता । राज्ञापि नमिनाऽश्रावि सप्ताष्टैरथ वासरैः ॥३६८॥ निसृष्टार्थो नमेर्दूतः प्राप्य चन्द्रयशोऽन्तिकम् । दन्तिनं प्रार्थयन् प्राप दन्तपातं निकारतः ॥३६९॥ नमिस्तदेतदाकर्ण्य मदाध्मातो महाभुजः । सीमान्तमागमद् वेगात् कैश्चिदेव प्रयाणकैः ||३७०|| नमिं प्रति प्रतिष्ठासुः स्वयं चन्द्रयशा अपि । निषिद्धः शकुनैरूचे मन्त्रपूर्वं महत्तमैः ॥ ३७२ ॥ साम्प्रतं साम्प्रतं स्थातुं देव ! दुर्गबलेन ते । कार्यं कालोचितं कार्यं ततः कालविलम्बतः ॥३७२॥ ततः प्रतिकृतोपान्तावासभूमिः स भूपतिः । शतघ्नीभिश्च यन्त्रैश्च दुर्गमुच्चैरसज्जयत् ॥३७३॥ नमिरस्खलितोऽभ्येत्य सुदर्शनपुराद् बहिः । विशोध्य दूषितां भूमिं सैन्यमावासयन्निजम् ॥३७४॥ अधःस्थैरुपरिस्थानां ततः प्रववृते रणः । पुष्पवर्षैः सुरस्त्रीभिरर्हितोऽपि स गर्हितः ॥ ३७५ ॥ दुर्गलम्भश्रुतोपायैर्दुर्गं नमिरुपाक्रमत् । तत्तत्प्रतिचिकीर्जागरूकश्चन्द्रयशास्त्वभूत् ॥३७६॥ सवित्री सा तयोर्दध्यौ.सुव्रतार्याऽपि शुद्धधीः । उभौ मा नरकं यातां मिथ एव वधोद्यतौ ॥३७७॥ अथेयं तामनुज्ञाप्य निजामेव प्रवर्त्तिनीम् । आर्यया परया सार्द्धं शिबिरे श्रीनरगात् ॥३७८॥ गत्वा राजकुले दृष्टो नमिर्नमितमस्तकः । दत्त्वासनमुपासीनः शाधि मामिति तां जगौ ॥३७९॥ 25 वात्सल्यकुल्यातुल्याभिर्देशनाभिरुवाच सा । महाराज ! शृणु श्रेयो वचनं हितमात्मनः ॥३८०॥ अनादाविह संसारे समिलायुगयोगवत् । मानुषं भवमासाद्य प्रमाद्यसि मुधेति किम् ॥ ३८१ ॥
5
15
20
३४८
१. निकातर: D, K नकारित: L निकारयत् A, B निकारवत् - P। २. मीमातिD नामिति - A, मिमाति - K र्मामिति B | टि. 1. इन्द्रस्य गजः, तस्योपमाऽस्य, ऐरावणसदृशः । 2. मदस्यन् - मदमिच्छन् [अस् च लौल्ये] हेम० ४।३।११५ सूत्रेण अस् प्रत्ययः । 3. आशुगः आशु गच्छति । 4. आशुगः वायुः । 5. वाजिनः वेगवान् । 6. वाजिनः - अश्वः । 7. हस्तिनम् । 8. तिरस्कारतः ।