________________
३४७
[कर्णिकासमन्विता उपदेशमाला । गाथा-१८०]
किं तु पुत्राऽऽननं द्रष्टुं मिथिलां नय मां पुरीम् । परलोकहितं येन निर्वृता वितनोम्यहम् ॥३३०॥ इत्युक्ते तेन सा नीता प्रीतान्तमिथिलां पुरीम् । श्रीमल्लि-नमिनाथाभ्यां निन्ये सा तीर्थतां हि पूः ॥३३१॥ अर्हज्जन्मव्रतज्ञानपूतायां पुरि तत्र सा । चैत्ये देवान्नमस्कृत्य साध्वीनामाश्रयेऽगमत् ॥३३२॥ प्रणम्याऽग्रे निविष्टाऽथ समं दिविषदाऽमुना । बोद्धं मदनरेखेयं प्रवर्त्तिन्याऽभ्यधीयत ॥३३३॥ परिवर्तिनि संसारे मिथ्या शाश्वतमानिनः । स्निह्यन्ति धर्मादन्यत्र मोहेनाऽहो नियन्त्रिताः ॥३३४॥ 5 अस्मिन्नित्यमविच्छिन्नदीघे संसारवर्त्मनि । गच्छन् प्रियः प्रियस्याऽपि मुहूर्तं न प्रतीक्षते ॥३३५॥ पिता भ्राता पतिः पुत्रः स्वसा माता सुता वधूः । संसारेऽनन्तशोऽन्योन्यं सम्बध्यन्तेऽत्र जन्तवः ॥३३६।। क्व कुटुम्बं क्व वा लक्ष्मीः क्व स देहः क्व तद् गृहम् । आत्मसाद् धर्म एवैकः क्रियते तद्विवेकिभिः ॥३३७।। क्षणेऽत्र सा सुतं द्रष्टुमर्थिता धुसदा जगौ । अलं स्नेहेन संसारवर्द्धनेन ममाऽधुना ।।३३८॥ साध्वीश्चापृच्छय नत्वैताः सुरेऽत्र स्वास्पदं गते । तत्रैवाऽऽत्तव्रता नाम्ना सुव्रताऽजनि सा सती ॥३३९॥ 10 इतो यथा यथा पद्मरथस्याऽवसथे शिशः । सोऽवर्द्धताऽऽनमस्तस्य भूभजोऽन्ये तथा तथा ॥३४०॥ राजा पद्मरथो राज्ञी पुष्पमाला च तं सुतम् । नाम्ना नमिरिति ख्यातं चक्रतुर्गुणयोगिना ॥३४१॥ युग्मम् ॥ भासुरप्रतिभाऽऽदर्शे चैतस्मिन् भाग्यभूतिभिः । पाठकेभ्यो विनाऽऽयासं स्वयं संचक्रमुः कलाः ॥३४२॥ क्षयी विधुर्मधुः कालः किं चानङ्गः स मन्मथः । कान्ते वपुषि तस्यासीदुपमानदरिद्रता ॥३४३॥ अष्टोत्तरसहस्रं स कन्याश्चैक्ष्वाकुवंशजाः । कौतुकाल्लग्न एकत्र पितृभ्यां पर्य्यणाय्यत ॥३४४॥
15 तस्मै दत्त्वाऽन्यदा राज्यं स्वयं पद्मरथो नृपः । प्रव्रज्य केवली भूत्वा प्रतिपेदे महोदयम् ॥३४५।। नमिर्नमितराजन्यचक्रश्चक्रधरः श्रिया । प्रतापात्तपनः प्राज्यमयं राज्यमपालयत् ॥३४६॥ मुक्त्वाऽपि पुण्डरीकाक्षं श्रीरभु शिश्रिये किल । देहार्द्धन बबन्धेति विरूपाक्षः प्रियां भिया ॥३४७॥ शक्तः क्षमी प्रभुायी प्रज्ञानिधिरनुद्धतः । सुभगः शीलवान् सोऽभूद् गुणी प्रियगुणाधिकः ॥३४८॥ रूपेण न्यायधर्माभ्यां विक्रमैश्वर्यकीर्तिभिः । स भूपतिर्भुवि भेजे यथा दिवि दिवस्पतिः ॥३४९॥ 20 इतस्तदा मणिरथः प्रहृत्य युगबाहवे । सौधं जगाम पापात्मा सिद्धकल्पमनोरथः ॥३५०॥ धिक् तत्र रात्रौ कालेन कालदूतेन भोगिना । स तुर्यं नरकं नीतः पदे संदंश्य दुष्टधीः ॥३५१॥ अन्धो मोहादहो बन्धुं निपात्याऽमृत पातकी । पूर्वमासन्नपातानां धर्मात् प्रच्यवते हि धीः ॥३५२॥ विपन्नावपि राजा च युवराजश्च सोदरौ । अपकीत्तिं च कीर्ति चाऽभाजिषातां विभज्य तौ ॥३५३॥ अथोर्ध्वदेहिकं सर्वं निर्वाह्याऽश्रुप्लुतैस्तयोः । योग्यश्चन्द्रयशा राज्ये सचिवैरभ्यषिच्यत ॥३५४॥ महीमहीनाहीनाङ्गबाहुश्रीयुगबाहुजः । तां दधारोदयच्चन्द्रयशाश्चन्द्रयशा नृपः ॥३५५॥
१. शालिना - P, योनिना - L । २. त्यामित - BI
टि. 1. मधुः विष्णुः । 2. पुण्डरीकाक्षः - विष्णुः । 3. विरूपाक्षः - शङ्करः । 4. यद्यपि शक्तः तथापि क्षमावान् इति अन्वयः कार्यः । 5. तुर्यं नरकं - चतुर्थं नरकम् । 6. अहीनः अहे: इनः स्वामी शेषनागः, तस्य इव संपूर्णाङ्गबाहुशोभा यस्य तस्य युगबाहोः सुतः ।
25