________________
[ कणिकासमन्विता उपदेशमाला । गाथा - १८० ]
वेदनार्त्तार्द्धरात्रेऽथ प्रोद्भूताऽद्भुतलक्षणम् । सहसैव कृतोद्योतमसूताऽसौ सती सुतम् ॥२७८॥ आमुक्तयुगबाह्वाह्वनाममुद्रमहर्मुखे । रत्नकम्बलसंवीतं न्यस्य तत्रैव तं शिशुम् ॥२७९॥ वाससां स्वस्य चाधातुं शौचं प्राप्ता च सा सरः । हस्तेनोत्क्षिप्य चाऽक्षेपि व्योमाग्रं जलकुम्भिना ॥ २८०॥ विद्याधरयुवा कश्चित् निपतन्तीं दिवो भुवि । नियत्यैव समानीतस्तां प्रत्यैच्छदतिश्रियम् ॥२८१ ॥ नीताऽथ तेन वैताढ्ये स्मरन्ती विधिवामताम् । तमुवाच महाभाग ! शृणु मेऽवहितोऽर्थनाम् ॥२८२॥ अद्यैवैकाकिनी रात्रौ प्रसूताऽहं सुतं वने । त्वया जलगजोत्क्षिप्ता प्राप्तेति विदितं च ते ॥ २८३॥ मां तत्र नय तं चाऽत्र समानय ममात्मजम् । तस्य भाग्यद्वितीयस्य विपत् सम्भाव्यतेऽन्यथा ॥ २८४ ॥ हतो भर्त्ता भयं ज्येष्ठाद्वने सूतिरिहागतिः । अपाऽऽवृतमहो द्वारं विपदां मम वेधसा ॥ २८५॥ तन्मां सौम्य ! विना क्षेपं तेन मीलय सूनुना । प्रसीदाऽपत्यदानेन धर्मशील ! दयां कुरु ॥ २८६॥ सोऽप्युवाच युवा चक्षुस्तरलं तां प्रति क्षिपन् । अस्ति गन्धारदेशेऽत्र नाम्ना रत्नावहं पुरम् ॥२८७॥ तत्र विद्याधराधीशो मणिचूडो महानृपः । पत्नी कमलवत्यस्य मामसूत मणिप्रभम् ॥२८८॥ मयि विद्याधरश्रेणिद्वयस्य न्यस्य चक्रिताम् । प्रव्रज्य मणिचूडोऽभूच्चारणश्रमणः स्वयम् ॥२८९॥ स सम्पन्नचतुर्ज्ञानो नन्तुं नन्दीश्वरेऽर्हतः । गतोस्तीति निनंसुस्तं तत्र यन्नभवं तदा ॥ २९०॥ त्वामाप्याऽथ तथाऽध्वाऽर्द्धात् व्यावृत्तोऽहं मणिप्रभः । याचे विद्याधरश्रीणां सपत्नी भव साम्प्रतम् ॥ २९९ ॥ आभोगादेव विद्यायाः प्रज्ञप्तेर्विदितं च मे । वाहानीतः शिशुं निन्ये मैथिलेन्द्रो वनात् पुरीम् ॥ २९२॥ शीलं च रक्षणीयं मे कामो वामश्च तद् ध्रुवम् । कालक्षेपादुपायः स्यादिति ध्यात्वा जगौ सती ॥२९३॥ नय नन्दीश्वरे पूर्वं मां वन्दे येन तज्जिनान् । पूँर्णेहिता हितार्थं ते ततः कर्त्ताऽस्मि सर्वथा ॥ २९४ ॥ ततो नीत्वा सहर्षस्तां विमानेन मणिप्रभः । नन्दीश्वरे द्विपञ्चाशच्चैत्यान्यनमयत् क्षणात् ॥२९५॥ एकोऽञ्जनाद्रिः प्रत्याशं दैध्यास्यानां चतुष्टयम् । अष्टौ रतिकराश्चेति द्विपञ्चाशच्चतुर्गुणाः ॥ २९६ ॥ शतं दीर्घाणि पञ्चाशद्विस्तृतान्येषु चाद्रिषु । चैत्यानि सन्ति चोच्चानि योजनानां द्विसप्ततिः ॥ २९७॥ नाम्नैषु ऋषभो वर्द्धमानश्चन्द्राननस्तथा । वारिषेणो जिनार्चाः स्युरेवं चाऽष्टोत्तरं शतम् ॥ २९८॥ शाश्वतार्हतचैत्यानि तानि नत्वा यथाविधि । कृतार्थं यत्र साऽऽत्मानं मुक्तकल्पममन्यत ॥ २९९ ॥ कलापकम् ॥ समं मणिप्रभेणैव चारण श्रमणाधिपम् । मणिचूडं चतुर्ज्ञानमानमत्तत्र तं मुदा ॥ ३००॥ सतीभूषाशिखारत्नं तां ज्ञात्वा तं च लम्पटम् । खेचरं शमयामास तं शमी देशनामृतैः ॥ ३०९ ॥ सोऽपि सद्यो मुनेर्भूत्वा परस्त्रीवर्ज्जनव्रती । प्रणम्याऽतः परं माता स्वसा वाऽसीति तां जगौ ॥३०२॥ मत्वा समर्थितप्रायमधिकारमथापदाम् । वार्त्तं वार्तां च वत्सस्य साऽपृच्छन्मुदिता मुनिम् ॥३०३॥
३४५
१. तोऽर्थिनां - A, तोऽर्थितां - C । २. यत्रभवं - A, यत्त्रभवं D, KH, H
टि. 1. जलहस्ती, तेन । 2. गच्छन् अभवम् इत्यर्थः । 3. पूर्णः ईहितः यस्याः सा - पूर्णेहिता । 4. दधिमुखपर्वताः चत्वारः इत्यर्थः । 5. वार्त्त (त्रि०) निरामयः, तम् मुनेर्विशेषणम् ।
5
10
15
20
25