SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ [ कर्णिकासमन्विता उपदेशमाला । गाथा - १८० ] यद्यदाशातितं तत्त्वत्रयश्रद्धानदूषणात् । किञ्चिन्मिथ्यात्वमिष्टं वा तत्ते मिथ्यास्तु दुष्कृतम् ॥२५१॥ ज्ञानदर्शनचारित्रतपोवीर्यात्मनां स्वयम् । त्वमालोचय पञ्चानामाचाराणामतिक्रमम् ॥२५२॥ जिनादिसाक्षिकं सर्वमालोच्येति त्रिधा त्रिधा । तन्मिथ्यादुष्कृतेनैव प्रतिक्रमणमस्तु ते ॥२५३॥ दुष्कृतं यत्कृतं चात्र भवे पूर्वभवेऽपि वा । तच्च तस्य च कर्त्तारं गर्हस्वाऽऽत्मानमात्मना ॥ २५४ ॥ स्वस्यान्येषां च सत्कर्माण्यनुमोदस्व भावतः । एवं हि वृद्धिस्वीकारौ पुण्यस्याऽभिमतौ जिनैः ॥२५५॥ भवेऽत्रैवाऽथ चान्यत्र मनोवाक्कर्मभिस्त्वया । यद्दुःखे स्थापिता जीवास्तान् सर्वान् क्षमयात्मना ॥ २५६ ॥ किञ्च तेषु क्षमस्व त्वं बाधां मुञ्चापराधजाम् । कर्मभिः प्रेरितानां हि कोऽपराधः शरीरिणाम् ॥२५७॥ सुखं दुःखं च कर्मोत्थं निमित्तमपरो मुधा । परमार्थेन जीवानां न तन्मित्रं न वा रिपुः ॥२५८॥ दुर्गत्यै देहिनां वैरमियं मैत्री तु मुक्तये । वैरमुत्सृज्य तन्मैत्रीमेवं जीवेषु चिन्तय ॥२५९॥ यस्मै षट्कायजीवानामारम्भः क्रियते जनैः । प्रत्याख्याहि तमाहारमेवं ते हितमायौ ॥२६०॥ पञ्चाश्रवान्निशाभक्तं क्रोधादींश्चतुरस्तथा । रागं मायामृषां द्वेषं कलिं पिशुनतां तथा ॥ २६२ ॥ अभ्याख्यानं परीवादं मिथ्यादृक्शल्यमित्यपि । व्युत्सृजाऽमूनि पापानां स्थानानि जिनसाक्षिकम् ॥२६२॥ सावद्यमान्तरं योगं सर्वं बाह्यं तथोपधिम् । व्युत्सृज त्वं समुच्छ्वासे चरमे वपुरप्यदः ॥२६३॥ भवादिभावनाः शुद्धा भजतां भावतो भवान् । प्रेरयन्ति हिताश्चित्तं धर्मादन्यत्र न क्वचित् ॥ २६४॥ शरणं चार्हतः सिद्धान् साधून् धर्मं च संश्रय । न जीवांस्त्रातुमन्योऽस्ति यत्कोऽपि परमेश्वरः ॥२६५॥ आवर्त्तय नमस्कारं पञ्चानां परमेष्ठिनाम् । श्रेयः श्रियं वशीकर्तुं प्रभुर्मन्त्रो जयत्ययम् ॥२६६॥ भावतः स्मरतः पञ्चपरमेष्ठिनमस्कृतिम् । यस्य प्राणाः प्रतिष्ठन्ते मृतोऽपि हि स जीवति” ॥२६७॥ विघ्नान् विजित्य वीर ! त्वं धीरत्वं मनसा श्रय । साधनीयोऽवधानेन चन्द्रवेध्यक्षणोऽधुना ॥२६८॥ तदा मदनरेखायाः श्रेयसी : स्वादसादरः । दध्यौ पाथेयवद्वाचः स मौलितुलिताञ्जलिः ॥२६९॥ 20 तदा तस्मिन् दिवं प्राप्ते शुचा क्रन्दति नन्दने । लोके शोकेन चाऽऽक्रान्ते सती सेति व्यचिन्तयत् ॥२७०॥ निरर्गलोऽधुना ज्येष्ठः शीलं मे ध्वंसयिष्यति । अथवाऽस्मिन् कुमारेऽपि पापः पापं करिष्यति ॥२७१॥ कालोचितमिदं तन्मेऽधुना निःसृत्य याम्यहम् । वरं मे मृत्युरप्यस्तु न पुनः शीलखण्डना ॥२७२॥ इत्थं निशीथे निश्चित्य निःसृत्य तरसाऽथ सा । उत्पथेन तथाऽयासीद् भग्नशुल्को यथा वणिक् ॥ २७३॥ सुप्ता क्वापि महाटव्यां विलीना च तमस्विनी । तदीयापत्तमः स्तोमं घनं वीक्ष्येव लज्जिता ॥२७४॥ साऽपराह्ने सरः प्राप्य वृत्तिं चक्रे वनीफलैः । श्रान्ताध्वना च विश्रान्तिं क्वचित् तेने लताकुले ॥२७५॥ साकारमथ साऽऽहारं प्रत्याख्याय विवेकिनी । तस्थौ सायं नमस्कारपरा धर्मपरायणा ॥२७६॥ घूकौघघूत्कृतैर्व्याघ्रबूत्कृतैर्व्यालसूत्कृतैः । शीलाङ्गरक्षगुप्ताया तत्राऽस्या नाऽभवद्भयम् ॥२७७॥ १. प्रेर्यं त्वयार्हिता ... C, H, प्रेर्यंत्तयार्हिता - B। २. सारतः - A | 5 10 15 25 ३४४
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy