________________
5
अथ नमिचरित्रम्
अस्त्यवन्तिषु विख्यातं पुरं नाम्ना सुदर्शनम् । तस्मिन्नजनि राजन्यमणिर्मणिरथो नृपः ॥२०७॥ युवराजोऽभवत्तस्य युगबाहुः सहोदरः । प्रिया मदनरेखेति यस्याऽजनि गुणोज्ज्वला ॥२०८॥ सम्यक्त्वव्रतसंशुद्धं धर्ममार्हतमादितः । सा मानुष्यककल्पद्रोः फलं मधुरमादित ॥ २०९ ॥ तस्याः सर्वैर्गुणैः पूर्णो जज्ञे चन्द्रयशाः सुतः । प्रेम्णा दशाब्ददेशीयः श्रियाऽभीक्ष्णं कटाक्ष्यते ॥ २१०॥ दृष्ट्वा मदनरेखां च तां वधूमवधूतधीः । कामभूतग्रहग्रस्तः सोऽभून्मणिरथोऽन्यदा ||२११ ॥ न लज्जां नार्यमर्यादां नापवादं न वा श्रुतम् । गणयन्ति न वा धर्मं निपाते बद्धबुद्धयः ॥२१२॥ दध्यावथ कथं योगो भवेन्मदनरेखया । प्रेम्णा साधारणेनैव पूर्वं विश्वासयामि वा ॥ २९३ ॥ यथावसरमेवाऽथ मन्मथस्याऽपि शासनम् । क्रमेण कारयिष्येऽहमुपायैः किं न सिध्यति ॥२१४|| ताम्बूलकुसुमालेपनेपथ्याभरणादिकम् । तेनाऽथ प्रेषितं सर्वं निर्विकारैव साऽग्रहीत् ॥ २१५ ॥
निजाऽनुजस्य वात्सल्यात् ज्येष्ठो मयि महाशयः । प्रसादं तनुते नित्यमित्यमन्यत सा वधूः ॥ २१६ ॥ 20 रहः कदाचिदासाद्य स्वयं मणिरथो वधूम् । ऊचे मां स्वामिनं कृत्वा राज्यस्य स्वामिनी भव ॥२१७॥ इत्युक्तवति भूपालेऽनाचारचतुराशये । धर्मराजस्य षाड्गुण्यसिद्धान्तमिव सा जगौ ॥२१८॥ अकृत्रिमं तव स्वाम्यं मैज्जानेश्चाऽनुजस्य ते । ततश्चन्द्रयशोमातुः स्वाम्यमस्त्येव मेऽधिकम् ॥२१९॥ ज्येष्ठः श्रेष्ठकुलोद्भूतिर्लोकपालश्च मध्यमः । कथमित्थं वदन् मिथ्या स्वात्मनोऽपि न लज्जसे ॥ २२०॥ वरं मृत्युर्वरं शस्त्रं वरमग्निर्वरं विषम् । न तु तज्जीवितं श्रेयो यत् क्रमातिक्रमाद्भवेत् ॥२२१॥ जयस्याडम्बरो राज्ञां व्यर्थो दिग्यात्रयैव यः । इन्द्रियाणि जय ज्येष्ठ ! जितैस्तैर्विजितं जगत् ॥२२२॥ उपेक्ष्य शत्रुषड्वर्गं यो राज्ञामपरो जयः । ज्वलन्तमालयं हित्वा शैलनिर्वापणं हि तत् ॥२२३॥ इष्टाभासेषु मिथ्यैवं शलभा इव लोलुभाः । स्वं यशः शाश्वतं लोका जीवितं हारयन्ति हा ॥२२४॥
10
15
३४२
[ कणिकासमन्विता उपदेशमाला । गाथा - १८० ] नित्यं स्वार्थेष्वतिव्यग्राः स्वार्थैर्व्यर्थैर्विमोहिताः । धिग् जडास्तात्त्विकं स्वार्थमौदासीन्यं न जानते ॥ २००॥ औदासीन्यं परो धर्म औदासीन्यं परं तपः । प्रत्यक्षां मुक्तिमेवेदमौदासीन्यं विदुर्बुधाः ॥ २०२ ॥ यथेडा- पिङ्गले त्यक्त्वा सुषम्णां योगिनः श्रिताः । रागारागौ तथा स्वार्थी त्यक्त्वौदासीन्यमर्थ्यताम् ॥२०२॥ यो रागारागभूः स्वार्थः स्वार्थाभासः स धीमताम् । अतीत्य तद्द्वयं स्वार्थ: सामायिकमिदं विदुः || २०३ || इतिवैराग्यसारस्य विचारस्येव संविदा । तस्य बोधः स्फुरत्पूर्वभवसंस्कारभूरभूत् ॥२०४॥ देवतादत्तलिङ्गोऽथ तृणवत्त्यक्तवैभवः । भेजे प्रत्येकबुद्धत्वं द्विमुखोऽपि महामुनिः ॥ २०५ ॥ शक्रध्वजं पूजितमेकदाथ विलोक्य लोकैरपरेऽह्नि लुप्तम् ।
ऋद्धिं त्वनृद्धिं प्रसमीक्ष्य बोधात् पाञ्चालराजर्षिरवाप धर्मम् ॥ २०६॥ [उपजातिवृत्तम्]
25
१. र्व्यामोहिताः - L |
टि. 1. इडा, पिङ्गला, सुषम्णा एतास्तिस्रः शरीरस्था नाडयः । 2. संवित्-संकेत:, तेन । 3. मम पत्युः इत्यर्थः । 4. लोलुभः - लोभी ।