________________
३४१
[कर्णिकासमन्विता उपदेशमाला । गाथा-१८०] तद्वयोः सादिनं सादी निषादी च निषादिनम् । रथी च रथिनं योद्धं पत्तिः पत्तिं समासदत् ॥१७३॥ अग्रे मुकुटमाहात्म्यान्मुखेन द्वित्वमादृतम् । रणे तु द्विमुखस्यासीत् विक्रमस्तत्र कोटिधा ॥१७४॥ बले जितेऽपि तेनाऽथ प्रद्योतः स्वयमापतन् । विशस्त्रो विरथः कृत्वा बद्ध्वाऽऽनिन्ये निजां पुरीम् ॥१७५॥ पादान्तक्षिप्तकटकः प्रद्योतस्तत्र भूमिभृत् । द्विमुखेन लघूचक्रे नरेन्द्रेणाऽद्भुतं न तत् ॥१७६॥ युग्मम् ॥ सञ्चरन्तीमवन्तीशः कारागाराऽग्रतोऽन्यदा । कन्यामतिश्रियं धन्यां प्रेक्ष्य यामिकमब्रवीत् ॥१७७॥ 5 कत्यपत्यानि राज्ञोऽस्य तेषु केयं किमात्मजा । प्रद्योतमिति पृच्छन्तं यामिको वाचमाददे ॥१७८॥ देवस्य वनमालाख्या सप्ताऽसूत सुतान् सती । यैरष्टानां दिशां भर्ताऽष्टमूर्ति ति भूपतिः ॥१७९॥ वनमालाऽथ कन्याऽस्तु ममैकेति मनोरथात् । मदनाख्यस्य यक्षस्याराधनं व्यधितात्मना ॥१८०॥ जाताथ पारिजातद्रुमञ्जरीस्वप्नसूचिता । क्रमेण वनमालायाः सुता सर्वगुणाद्भुता ॥१८१॥ दत्त्वोपयाचितं तस्य यक्षस्याथ महोत्सवात् । तेनैव कन्यका नाम्ना चक्रे मदनमञ्जरी ॥१८२॥ 10 इयं कलाभिः सम्पूर्णा बाल्येऽजनि सरस्वती । विभाति यौवने रूपश्रिया श्रीरिव सम्प्रति ॥१८३॥ तां वीक्ष्य तत्कथामित्थमाकर्ण्य महीपतिः । निकारतपसस्तस्य तां फलाप्तिममन्यत ॥१८४॥ तां विना किं श्रिया सारा कारापि यदि साप्यते । तनुश्चेतनया पुण्या तां विना त्यज्यते हि सा ॥१८५॥ अतः परं पदोर्व्यर्थो द्विधाऽपि कटकग्रहः । याम्येव तां विना नेतो याम्येवाऽथ यमालयम् ॥१८६।। इति ध्यायन्नसौ ज्ञातवृत्तान्तेनाऽवनीभुजा । आनायि यामिकादेव प्रद्योतः पर्षदं मुदा ॥१८७॥ 15 स्वस्यैवाऽर्द्धासने राज्ञाऽभ्युत्थायाऽथ निवेशितः । द्विधापि प्राञ्जलीभूय प्रद्योतोऽभिदधे वचः ॥१८८॥ त्वदायत्ता मम प्राणास्त्वदायत्ता मम श्रियः । प्राणानां च श्रियां च त्वमभवः प्रभवो हि मे ॥१८९।। तेषामेव ततः प्रेम्णा कटकेनेव यन्त्रितः । स्थितोऽस्मि सेवकोऽहं ते व्यर्थस्तु कटकग्रहः ॥१९०।। तदीयाऽऽकूतदूतस्य भाषितस्यास्य भाववित् । तत्रैवाऽऽनाय्य तस्मै तामदान्मदनमञ्जरीम् ॥१९१॥ दत्ते मौहूतिकेनाऽथ मुहूर्तेऽवन्तिभूपतिम् । विवाह्य द्विमुखः पुत्र्या प्रेषयद्विषयाय तम् ॥१९२॥ ततः प्रभृत्यवन्तीशः प्रद्योतो द्विमुखस्य सः । जामाता कीर्तिभिः शुभ्रो जङ्गमोऽभूज्जयध्वजः ॥१९३॥ द्विमुखक्षोणिशक्रस्य पुरे शक्रध्वजोऽद्भुतः । कदाचिदजनि स्मेरो महेनाऽथ महीयसा ॥१९४॥ राजा यथार्च्यते लोकैर्दैवतं चातिभक्तिभिः । भावेनैवाऽवनीन्द्रोऽपि तथा तं ध्वजमार्चयत् ॥१९५॥ व्यतीतेऽथ महेऽन्येाविलुप्तं पतितं नृपः । निध्यायाऽमेध्यमध्यस्थं शक्रध्वजमचिन्तयत् ॥१९६॥ रत्न-स्रक्-सुरभिद्रव्यैर्यो यः संपूजितो जनैः । धिक् स्वार्थपरतां सोऽद्य शाक्रो विध्वंस्यते ध्वजः ॥१९७॥ 25 स्वार्थादेवाऽऽदरो लोके तथा स्वार्थादनादरः । न स्वार्थो यस्य तस्याऽहो नादरो नाऽप्यनादरः ॥१९८॥ राज्यं स्त्रियः श्रियो देहः सर्वोऽयं बाह्यविस्तरः । परमार्थेन न स्वार्थो यः पुराप्येवमुज्झ्यते ॥१९९॥
20
१. यश्च- H,A,C, K, KH | २. शक्रध्वजः स एवाद्य हहावस्थामिमां गतः - B.AI