________________
३४०
[कर्णिकासमन्विता उपदेशमाला । गाथा-१८०] श्वेतं सुजातं सुविभक्तशृङ्ग गोष्ठाङ्गणे वीक्ष्य वृषं जगतम् ।। ऋद्धि त्वनृद्धि प्रसमीक्ष्य बोधात् कलिङ्गराजर्षिरवाप धर्मम् ॥१५०॥ [इन्द्रवज्रा] ___ अथ द्विमुखचरितम्
पञ्चालदेशे काम्पील्यपुरे हरिकुलोद्भवः । अभूत् प्रभूतसत्कर्मा जयवर्मा नरेश्वरः ॥१५१।। 5 गुणमालेति तस्याऽस्ति राज्यलक्ष्मीरिव प्रिया । यदास्यदास्यवान् साऽङ्कपङ्को भाति सुधाकरः ॥१५२।।
अनन्यनृपसामान्यं निःसामान्यमनोरथः । आस्थानीमण्डपं कर्तुं नृपतिः स्थपतीनशात् ॥१५३॥ भुवं परीक्ष्य वास्तुज्ञैर्वास्तुपूजा पुरस्सरम् । मुदा खातेऽथ सञ्जाते मुहूर्ते स्फूर्तिशंसिनि ॥१५४॥ माणिक्यैर्धामभिर्धाम्नां खमाणिक्यमिव ज्वलन् । पञ्चमेऽह्नि महीमध्ये दृष्टस्तैर्मुकुटोऽद्भुतः ॥१५५॥ युग्मम् ॥ विज्ञप्तस्तैः क्षितीशोऽथ सहर्षः पर्षदा सह । तमेत्य खातभूश्वभ्रान्मुदा मुकुटमग्रहीत् ॥१५६॥ जयघोषैः स्फुरत्तोषैस्तू/गजद्भिरुत्सवात् । राजन्यमौलिस्तं मौलि कोशे प्रावेशयत् स्वयम् ॥१५७॥ भूभुजा पूजितास्तेन सत्कृताश्चाऽथ शिल्पिनः । स्वर्विमानोपमं मछु मण्डपं निरमापयन् ॥१५८।। जज्ञे जगत्त्रयीचित्तचौर्येणोपस्कृतैः किल । तत्र चित्रसभा चित्रा सजीवैश्चित्रकर्मभिः ॥१५९॥ निधाय मुकुटं मूनि मूर्द्धन्यः स महीभुजाम् । आस्थानमण्डपे तस्मिन् सिंहासनमशिश्रियत् ॥१६०॥
मूर्धन्येन द्विधा तेन रेफेणेवाग्नितेजसा । वर्णोज्ज्वलं मुखं भेजे द्वित्वं राज्ञोऽत्र नाद्भुतम् ॥१६॥ 15 ततः प्रभृति भूभ" जयवर्मा स भूतले । विख्यातो द्विमुखो नाम्ना श्रिया शतमखोपमः ॥१६२।।
श्रुत्वाऽवन्तीपतिस्तां च मुकुटस्य कथां तथा । प्रद्योतः प्राहिणोद् दूतं द्विमुखं प्रत्यमर्षणः ॥१६३॥ द्विमुखाभ्यर्णमभ्येत्य प्रद्योताज्ञां जगाद सः । यदि वो जीवितेनाऽर्थस्तन्मौलिरयमर्प्यताम् ॥१६४।। तमाह द्विमुखो मौलि मत्तो मत्तो मुधाऽर्थयन् । वातूलो वेत्त्यवन्तीशो न किञ्चिदपि बालिशः ॥१६५॥ रथोऽग्निभीरुर्देवी च शिवाऽनलगिरिः करी । दूतः स लोहजश्च तस्य प्रतिपणोऽस्तु सः ॥१६६॥ अथाऽट्टहासी रोषेण भीमो भूमीश्वरः पुरः । तस्यार्द्धचन्द्रं दूतस्य गले मौलिमयोजयत् ॥१६७॥ तां च दूतादथाकर्ण्य कर्णद्वारकिरं गिरम् । प्रयाणभेरीभाङ्कारैः प्रद्योतः पिदधे श्रुती ॥१६८॥ प्रद्योते चलितेऽनेकैरनेकप-रथाऽर्वभिः । पदातिकोटिसैन्यैश्च प्राचलनचला अपि ॥१६९॥ कृतपाणिप्रतीकारः सारासारबलोज्ज्वलः । पञ्चालदेशसीमान्तमवन्तीशः समासदत् ॥१७०॥
द्विमुखो द्विगुणोत्साहः सेनाङ्गैः सर्वतो वृतः । सप्तभिः स्वैः सुतैः साकं साऽऽकम्पीकृतशात्रवः ॥१७१॥ 25 इयाय देशसीमान्तं निजैनि:स्वाननिस्वनैः । पातयन् परसेनानां गर्वगर्भमिवाऽऽहवात् ॥१७२॥ युग्मम् ।।
20
१. वेत्यवंती.... A, B, D, K, H, KHI
टि. 1. यस्याः आस्यस्य दासभाववान् साङ्कपङ्कः चन्द्रः इत्यन्वयः । 2. राज्ञां समूह: राजन्यं तेषां मौलिः। 3. रेफ:-रकारात्मकवर्णः। यथा मौलिः शिरसि स्थाप्यते तथा रेफोपि वर्णस्योपरि धार्यते 4. अनेकपः - हस्ती । 5. अर्वन् (पु०) - अश्वः तैः । 6. आ-समन्तात् कम्पेन सहितः कृतः शत्रूणां समूहो येन स साकम्पीकृतशात्रवः । 7. निःस्वानं-तुर्य, तेषां निस्वनैः रवैः ।