________________
कर्णिकासमन्विता उपदेशमाला । गाथा - १८० ]
आशीर्वादे तया दत्तेऽपृच्छद्गर्भकथां नृपः । साऽप्याह सैष पुत्रस्ते योऽरुणत् त्वत्पुरीमिमाम् ॥१२४॥ प्रीतोऽथ पादचारेण तमुपेयाय पार्थिवः । पुरो लुठन्तमुद्धृत्याश्लिष्याऽजिघ्रच्च मूर्द्धनि ॥१२५॥ नेत्रानन्दजलैः पूर्वं नेत्रा तीर्थजलैस्ततः । तेन राज्यद्वयेऽप्येष तदा पुत्रोऽभ्यषिच्यत ॥ १२६॥ दधिवाहनराजोऽथ तपसेऽजनि दीक्षितः । करकण्डुः पुनर्जज्ञे रक्षायै दीक्षितः क्षितेः ॥१२७॥ करकण्डुः कलिङ्गेशः पाकशासनशासनः । प्रशशास प्रचण्डाज्ञो महीमथ महाभुजः ॥१२८॥ तस्य गोपतितुल्यर्द्धेर्नीत्या गोपायतश्च गाम् । गोकुलानि प्रियाण्यासन् गोसहस्रेशतेजसः ॥१२९॥ संस्थानाकारवर्णाद्यैर्व्यवस्थाप्य पृथक् पृथक् । गोव्रजान् पश्यतस्तस्य संतर्प्यन्ते सदा दृशः ॥१३०॥ स्फाटिको घटयित्वैव चेतनां लम्भितोऽन्यदा । वर्णाकृतिभ्यां तत्रैक्षि कश्चिद्वत्सतरोऽमुना ॥ १३१॥ क्षीरैर्वत्सतरो यावदभिलाषमयं नवः । पोषणीयोऽन्वहं गोपानित्यशाद् गोपशासनः ॥१३२॥ पुष्टः कतिपयैरेव मासैरसमविक्रमः । अत्रासयन् महोक्षौघान् महाघोषैः सघर्घरैः ॥१३३॥ हैस्तिमल्ले यथा प्रीतिर्गोपस्येन्द्रस्य पश्यतः । गोपेन्द्रस्य तथाऽस्याऽऽसीत् वृषे पशुपतेरिव ॥१३४॥ षाड्गुण्यावग्रहव्यग्रो नीत्वा वर्षाणि कानिचित् । भूयः कदाऽपि सोत्कण्ठो भूपः स व्रजमव्रजत् ॥३५॥ तत्रोक्षाणं तमप्रेक्ष्य नृपः प्रेक्षावतांवरः । वृषोऽस्मद्वल्लभः क्वेति वल्लवानादिशद्भृशम् ॥१३६॥ जीर्णः स जरसा शीर्णदशनो विक्रमोज्झितः । निविष्टो वत्ससङ्घट्टैः कर्शितो दर्शितोऽथ तैः ॥१३७॥ तं तथा वृषमालोक्य विषमां विमृशन् दशाम् । चिन्तयामास चित्तेन तदात्वोद्बुद्धबोधिना ॥१३८॥ यस्य दृप्ता महोक्षाणो दूरादाकर्ण्य गज्जितम् । गोष्ठाजिरेष्वभज्यन्त घट्यते ही स वत्सकैः ॥ १३९॥ सर्गे वा सर्वभूतानां स्थितौ वा प्रलयेऽपि वा । यथेष्टमीष्टे धिक् कष्टं कालोऽयमनवग्रहः ॥ १४०॥ चेतनाचेतनं लोकं सृष्ट्वा सृष्ट्वातिघस्मरः । अहो महोदरः कालो न तृप्यति हहा लिहन् ॥१४१॥ उपायैर्मूषकेभ्योऽपि रक्ष्यते वस्त्वनेकशः । न सर्वमूषकस्याऽस्य प्रतीकारस्तु विद्यते ॥१४२॥ दृश्यते यद्यदैवेह तत्तदैव न दृश्यते । त्रिलोकीमल्लिकागोलैः कालः खेलति कौतुकी ॥१४३॥ अभूत्वाऽऽप्नोति यो भूर्ति भूत्वा चाभूतिमाप्नुयात् । अभावादिरभावान्तो भावो भावः कथं भवेत् ॥ १४४॥ अनागतमतीतं च नार्थकारीत्यवस्तु सत् । क्षणिकस्य सुखस्याशां मोक्तुमीष्टे न धिक् कुधीः ॥ १४५॥ कुटुम्बदेहश्रीदारानुदारान्नाद्रियेत कः । सर्वंकषाद्भयं किन्तु कालादेव बलीयसः ॥१४६॥ काललालाभिरुच्छिष्टं परित्यज्याखिलं भवम् । प्रतिष्ठासुः शिवायार्हत्तत्त्वेषूत्तिष्ठते सुधीः ॥ १४७॥ इति वैराग्यसारस्य विचारस्येव संविदा । तस्य बोधः स्फुरत्पूर्वभवसंस्कारभूरभूत् ॥१४८॥ देवतादत्तलिङ्गोऽथ तृणवत् त्यक्तवैभवः । भेजे प्रत्येकबुद्धत्वं करकण्डुर्मुनीश्वरः ॥१४९॥
३३९
टि. 1. गोपतिः कृष्णः तस्य तुल्या ऋद्धि यस्य । 2. स्फटिकाश्मना निर्मितः इत्यर्थः । 3. हस्तिमल्लः - इन्द्रस्य हस्ती ऐरावणः, तस्मिन् । 4. पशुपतिः महेशः, तस्य । 5. तदात्वम् तस्मिन् समये । 6. चेष्टते इत्यर्थः । 7. अमर्यादः । 8. प्रस्थातुं इच्छति - प्रतिष्ठासुः ।
5
10
15
20
25