________________
[कर्णिकासमन्विता उपदेशमाला । गाथा-१८०]
३३७ पृष्टः कारणिकैः किं ते वंशः कर्तेति दारकः । प्राज्यं दास्यत्यसौ राज्यमस्मभ्यमिति सोऽब्रवीत् ॥७१॥ यदा ते भविता राज्यं त्वयाऽप्यस्मै तदा शिशो ! । ग्रामो द्विजाय दातव्यः स्मित्वेत्यूचुनियोगिनः ॥७२॥ ओमित्युक्त्वा शिशुर्वंशमादाय स्वं गृहं ययौ । रह: सम्भूय विप्रोऽन्यैस्तं तु हन्तुमुपाक्रमत् ॥७३॥ लोभः कृतमतिक्षोभः शोभते बत न क्वचित् । दायादीयति राज्यार्थे यत्तथैष द्विजोऽन्त्यजम् ॥७४॥ तच्च मत्वा पिता तस्य मनीषी तन्मनीषितम् । सदारदारकोऽनेशद्देशं हित्वा जिजीविषुः ॥७५॥ 5 क्रमाद्भुवमतिक्रामन् सकुटुम्बो जनङ्गमः । जगाम श्रेयसां धाम स काञ्चनपुरं पुरम् ॥७६॥ तत्राऽपुत्रे मृते राज्ञि पौरैरश्वोऽधिवासितः । एत्य प्रदक्षिणीचक्रे करकण्डं सहेषितः ॥७७॥ जयशब्दं व्यधुर्वीक्ष्य पौरास्तं लक्षणान्वितम् । अनाहतं तदा नान्दीतूर्यमापूर्यत स्वयम् ॥७८॥ प्रधानैरुपनीते च परिधायाऽन्यवाससी । प्राक्शिक्षित इवाऽर्वाणमारुरोह स बालकः ॥७९॥ सोऽन्तः प्रवेश्यते यावन्नागरैः प्रीतिसागरैः । म्लेच्छोऽयमिति तं तावद् द्विजन्मानो न मेनिरे ॥८०॥ 10 रुद्धस्तैरथ तत्क्रुद्धो दण्डरत्नं यदाददे । देवतानामधिष्ठानात् तदा तदतिदिद्युते ॥८१॥ भूयः सम्भूय तद्भीतैर्विज्ञप्तः स द्विजैः प्रभुः । वर्णाश्रमाणामाचार्यस्त्वमेको देव ! राजसे ॥८२॥ त्वं महेन्द्रो महेशस्त्वं त्वं विष्णुस्त्वं प्रजापतिः । साक्षात्तेजस्त्वयि क्षात्रं पवित्रमतिजृम्भते ॥८३॥ कर्मणोत्कृष्यते वर्णः कर्मणा स निकृष्यते । वर्णानां ब्राह्मणादीनां जातिस्तत्त्वान्न कारणम् ॥८४॥ यः कर्मप्रकृतौ लीनः परब्रह्ममयः पुमान् । स जात्या कञ्चुकेनेव किं परावर्त्यते क्वचित् ॥८५।। 15 नरकेष्वथ तिर्यक्षु मनुष्येषु सुरेषु यः । आत्माऽयं नाऽवमन्तव्यः स क्वचिद् दैवतं हि सः ॥८६॥ अनेनैव निमित्तेन त्रिकालज्ञानिनो जगुः । जीवस्य हिंसया पापं जीवस्याऽहिंसया तपः ॥८७॥ अन्धे तमसि मग्नानामस्माकं त्वं महागुरुः । तेजसैव तवाऽनेन ज्ञानमुन्मीलितं हि नः ॥८८॥ नाऽराजकेषु राष्ट्रेषु हव्यं दहति पावकः । न च धर्माः प्रवर्तन्ते न च वर्षति वासवः ॥८९॥ कुतो धनं कुतो दाराः शरीरं च कुतो नृणाम् । सर्वदेवमयस्त्राता यदि राजा न पालयेत् ॥९०॥ 20 सर्वावलोकने सूर्यः पापानां निग्रहे यमः । कुबरो भरणे राजा प्रायश्चित्तेषु पावकः ॥९१॥ तदेनस्त्वदवज्ञानजनितं नो विशोधय । तीर्थं राजा प्रजानां हि कल्मषक्षालनक्षमम् ॥१२॥ ब्रह्मज्ञैरिति विज्ञप्तो ब्राह्मणैर्वीतमत्सरः । उवाच वाचमम्भोदगम्भीरमधुरां नृपः ॥९३।। यद्युष्माभिरिह प्रोक्तं सम्मतिस्तत्र यावताम् । तावतामेव मानोऽस्तु शेषा वध्यास्तु मे द्विजाः ॥१४॥ तैः सर्वैः सम्मतिं घुष्टामाकर्पोऽथ स पार्थिवः । ऊचे दन्तद्युतिक्षीरक्षालितामिव भारतीम् ॥१५॥ 25 एतर्हि तर्हि मातङ्गान् संस्कारैः कुरुत द्विजान् । यद् द्विजः क्रियते पश्चात् संस्कारैर्ब्रह्मसूरपि ॥१६॥ ख्यापयन्तो बलीयस्त्वं लोकव्यवहृतेरथ । अवोचन्त द्विजाः प्रीता भीताश्च नृपति प्रति ॥९॥
टि. 1. दायादमिवाचरति, [हेम० ३।४।२४ आधाराच्चो...] इति सूत्रेण क्यन् । 2. अर्वाणः अश्वः तम् । 3. वासवः मेघः । 4. एनस् - अपराधः । 5. ब्राह्मणपुत्रोपि।