SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ३३६ [ कर्णिकासमन्विता उपदेशमाला । गाथा - १८० ] अतः परं हलैः कृष्टा सावद्याः क्षेत्रभूमयः । तपस्विनामनुल्लङ्घ्यास्तत आपृच्छ्यसेऽधुना ॥४४॥ एष दन्तपुरस्याऽध्वा दन्तवक्त्रोऽत्र भूपतिः । निर्भयाऽत्र गता चम्पां सुसार्थेन पुनर्व्रजेः ॥४५॥ एवमुक्त्वाऽऽश्रमं प्रापत्तापसः पापशातनम् । सा तु दन्तपुरं गत्वा साध्वीनां मूलमासदत् ॥४६॥ वन्दमाना प्रवर्त्तिन्या जगदे श्राविके ! कुतः । निवेदिते तयोदन्ते प्रत्युवाच प्रवर्त्तिनी ॥४७॥ दुःखैकसारे संसारे सुखाभासोऽत्र यः क्वचित् । स्वप्नराज्यमिव भ्रान्तिरियं विजयतेतराम् ॥४८॥ दुर्घटं घटयन्नेष सिद्धं विघटयन् हठात् । घटनोद्घटनव्यग्रो नैष निर्विद्यते विधिः ॥४९॥ जिनं जिनमतं किं च मुक्त्वा जिनमतं श्रितान् । अवस्कर इवाऽपास्यः शेषः संसारविस्तरः ॥५०॥ अग्रे विवेकिनी तासामिति वैराग्यवीचिभिः । वेगात् प्ररूढसंवेगात् तदैव व्रतमग्रहीत् ॥५१॥ व्रतविघ्नभियाऽऽख्यायि गर्भसम्भावना न या । तां प्रवृद्धां च सद्भावादबुध्यत महत्तरा ॥५२॥ तयाऽथ स्थापितैकान्ते प्रसूय क्रमतः सुतम् । गत्वा श्मशाने सा नाममुद्रायुक्तममुञ्च ॥५३॥ रत्नकम्बलसंवीतं तं वीक्ष्याथ जनङ्गमः । श्मशानपालस्तं बालमालयं स्वं रहोऽनयत् ॥५४॥ तेन पत्याऽनपत्यायाः स स्वपत्न्याः समप्पितः । तद्गुप्तचर्ययाऽऽर्याऽपि विदित्वान्तर्मुदं दधौ ॥५५॥ मन्दाक्षादाश्रयं प्राप्ता साध्वीनां सा तपोधना । स जातो मृत एवेति त्यक्त एवं जगाद गाम् ॥५६॥ श्रीमान् जनङ्गमागारे धाम लोकातिगं वहन् । क्लृप्तापकर्णिताभिख्यो ववृधे राजनन्दनः ॥५७॥ विचाराय चरन्ती सा पुत्रप्रेम्णा तपोधना । चकार कोमलालापैर्मातङ्गया सह सङ्गतम् ॥५८॥ रममाणः स बालेषु राजते राजतेजसा । पतितोऽपि गणे ग्राव्णां यो मणिर्मणिरेव सः ॥५९॥ शोकाद्याहारदोषेण तस्य गर्भात् प्रभृत्यपि । अपकर्णितनाम्नोऽभूद् दोषः कण्डूलताभिधः ॥६०॥ राजायमानः सामन्तीकृतबालजनाच्च सः । कारयति स्म कण्डूयां करकण्डूस्ततः श्रुतः ॥ ६१॥ तदा तस्यां च भिक्षुण्यामक्षीणविनयो मुदा । मातरीव दधौ प्रीतिमन्तरात्मा हि सर्ववित् ॥६२॥ 20 भिक्षाप्राप्तं ददौ तस्मै सरसं मोदकादि सा । अहो प्रीतिरपत्येषु मुनिभावेऽपि दुस्त्यजा ॥६३॥ 5 10 15 25 सोऽपि षड्वर्षदेशीयः सार्वभौमोचिताकृतिः । श्मशानदेशमादेशात् पितुः पाति स्म धिग् विधिम् ॥६४॥ श्मशानं निकषाऽन्येद्युर्निष्कषायो मुनिर्मुनिम् । वंशजालीं व्रजन्वीक्ष्य वंशलक्षणविज्जौ ॥६५॥ प्रतीक्ष्याऽतः परं वृद्धिं मूलादाचतुरङ्गुलम् । यो वंशमेनमादत्ते सोऽवश्यं राज्यमाप्नुयात् ॥६६॥ तेन मातङ्गबालेन केनचिच्च द्विजन्मना । श्रुतं श्रुतनिधेस्तच्च सुधाकवचितं वचः ॥६७॥ द्विजातिना रहो यावत् खनित्वा चतुरङ्गुलान् । स वंशश्छिन्न आच्छिन्नस्तावच्च करकण्डुना ॥६८॥ कलहं कुर्वता नीतो द्विजेन करणं शिशुः । वंशमस्मद्वनोद्भूतं दास्ये नास्येत्युवाच च ॥६९॥ इतरव्यत्ययान्मूल्यप्रत्ययाच्चाऽपि याचितः । तं दण्डमर्पयामास न जनङ्गमनन्दनः ॥७०॥ १. मक्षण - B मक्षुण्ण L मक्षूण D, KH, K, CI टि. 1. मन्दाक्षं - लज्जा, तस्मात् । 2. उच्चारभूमौ ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy