________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा - १८० ]
अथाऽवतीर्य सरसीं करशीकरदुर्दिनम् । कुर्वन्नाकारकर्मभ्यां घनः सोऽजनि कुञ्जरः ॥१७॥ कुम्भीवाऽनतिगम्भीरमम्भोऽगात् तृष्णयाकुलः । शनैस्त्यक्ताऽऽसनैवाऽथ सा सरस्युत्ततार च ॥१८॥ नागादिव तडागाच्च पद्माङ्कात् पद्मलोचना । उत्तीर्य सा भयाक्रान्ता कान्तारान्तरथाऽभ्रमत् ॥१९॥ क्रूरेभ्योऽपि महाक्रूरं भीषणेभ्योऽपि भीषणम् । वनं तद्वीक्ष्य सा राज्ञी चिन्तयामास चेतसा ॥२०॥ विद्वान् मूर्खो भटो भीरुः श्वपाकः पाकशासनः । राजा रङ्कश्च नाऽत्येति शासनं कोऽपि दुर्विधेः ॥२१॥ वीक्ष्यते यद्यथैकत्रं तदन्यत्रान्यथा क्षणात् । अहो दोलेव लोलेयं दुर्विधेर्विविधा विधा ॥२२॥ निर्माणकर्मणाख्यातः पैङ्कपिण्डकरो विधिः । दण्डेन भ्रमयत्येष जगच्चक्रं कुलालवत् ॥२३॥ वचसामप्यनुच्छिष्टः सङ्कल्पेनाप्यचुम्बितः । प्रावर्त्तत परावर्त्तः परत्रेवेह कीदृशः ॥२४॥
क्व तत्पुरं क्व स प्रेयान् क्व सा श्रीः क्व च स क्षणः । तत्सर्वं मेघसम्पाताद् विद्युदाभमिवाऽभवत् ॥२५॥ विधेर्वा क उपालम्भः का वा चिन्ताऽस्तु कर्मणः । विपदां सोढुमुत्साहः पतितानां प्रतिक्रिया ||२६|| श्वापदोत्थाऽऽपदोघेन घोरकान्तारगह्वरे । मरणस्य न सन्देहस्तत्प्रमाद्यामि किं मुधा ||२७|| धैर्यवज्रमयं वर्म विनिर्माय विवेकिनी । आराधनां मृतेरर्वाक् कृत्यशेषमिव व्यधात् ॥२८॥ चतुः शरणमास्थाय गर्हमाणा स्वदुष्कृतम् । सङ्घ धर्मं जिनान् सत्त्वान् क्षमयामास भावतः ॥ २९॥ सुकृतान्यनुमोद्याऽथ धार्मिकाणां महात्मनाम् । साकारमशनादीनां प्रत्याख्यानमिति व्यधात् ॥३०॥ प्रमादोऽस्यामवस्थायां देहस्य यदि मे भवेत् । आहारोपधिदेहादि व्युत्सृजामि त्रिधाऽपि तत् ॥३१॥ सिद्धान्तसारं संसारतारणं पापवारणम् । स्मराम्यहं नमस्कारं पञ्चानां परमेष्ठिनाम् ||३२|| प्रेयसे स्वस्ति राज्याय नमः क्षेमोऽस्तु शर्मणे । एक एव नमस्कारः शश्वन्मां मा विमुञ्चतु ॥३३॥ चिन्तयन्ती नमस्कारं चिन्तामणिमिवाऽमलम् । दिशैकया व्रजन्ती च कञ्चित्तापसमाप सा ॥३४॥ अभिवाद्य स्थितामग्रे तामसौ तापसोऽब्रवीत् । का त्वं कस्य सुता भद्रे ! कस्य चाऽसि परिग्रहः ॥३५॥ निजपस्त्यात्कुतस्त्या वा तवाऽवस्थितिरीदृशी । विश्वस्ता वद शङ्किष्ठा मा स्म नस्तापसा श्रमे ||३६|| सर्वमेव स्ववृत्तान्तं सा यथावदथाऽवदत् । तपोधनेषु धन्यानां विश्वसित्येव मानसम् ||३७|| तेन चेटकराजस्य तापसेन सनाभिना । वात्सल्याऽमृतकुल्याभिर्वाग्भिः सैवमसिच्यत ॥३८॥ आः किमत्र विमर्शेन भृशमायास्यते मनः । ईदृगेवैष संसारः सर्वदा विपदां पदम् ॥३९॥ अजन्मनि मनः कुर्याज्जेतुमेतामनित्यताम् । अजातेषु प्रभुर्नैषा जातं जातं तु हन्ति सा ॥४०॥ वस्तु भूतं भविष्यच्च वस्तुतो नाऽस्ति किञ्चन । वर्त्तमानेन योगेन तेन व्यवहृतिः सताम् ॥४१॥ अनिच्छन्त्यपि सम्बोध्य नीत्वा निजमथाश्रमम् । फलैः सोपहृतैस्तेन प्राणयात्रामकार्यत ॥४२॥ नीत्वा वसतिदेशेऽथ निष्कृत्रिमदयोदयः । मुनिस्तामूचिवान् सन्नकण्ठः सोत्कण्ठमानसः ॥४३॥
३३५
टि. 1. आकार: आकृतिश्च कर्म चेष्टा च ताभ्याम् । 2. पङ्कः - पापं तदेव पिण्डः तं करोति इति पङ्कपिण्डकरः । 3. तां असौ इति वाच्यम् । 4. सनाभिः समानः तेन । 5. न विद्यते जन्म अस्य इति अजन्मा तस्मिन् अजन्मनि, शाश्वते इत्यर्थः । 6. सन्नः दुःखितः रुद्धः
कण्ठः यस्य सः ।
5
10
15
20
25