________________
5
[कर्णिकासमन्विता उपदेशमाला । गाथा-१७९-१८०]
३३३ अभिग्रहास्तैरक्षपिताङ्गी अनिष्टप्तशरीरा मरुदेवी भगवती श्रीऋषभनाथजननी सिद्धा निष्ठितार्था जाता । तथा वयमपि सेत्स्यामः । तस्याश्च भगवत्या अस्यामवसपिण्यां प्रथमसिद्धस्य चरितं प्राक्श्रीऋषभदेवचरित्रान्तर्गतमेवोक्तम् । तत्संवादकस्तोत्रमेवेदमत्राऽध्यगीष्महि ।
[मरुदेवीस्तोत्रम् ॥] आश्रित्य निश्चयनयात्मकमेकधैव, मार्ग शिवस्य लघु सिद्धिपदं गतायाः । द्वेधा क्षमाधिपतिषु प्रथमस्य मातुस्त्रेधा प्रणौमि मरुदेवि ! पदद्वयं ते ॥१॥ मातस्त्वया त्रिभुवनाभरणैकरत्नम्, पुत्रं प्रसूय मरुदेवि ! युगादिदेवम् । चक्रे चिरादुपचितस्य मदस्य भङ्गो, भूमेः सरोहणगिरीन्द्रभुवो वराक्याः ॥२॥ विद्मस्त्वदासनपवित्रितकन्धरस्य, किंदध्नतामनुपमस्य न कुञ्जरस्य । आरुह्य यत्र भुवनाऽग्रगताऽपि मुक्ति,-रालिङ्गिता प्रियसखीव सुखं त्वयाऽम्ब ! ॥३॥ दृग्युग्मनीलिमकृता सह कर्मणैव, त्रस्तानि केवलविलोचनदूषकाणि । कर्माणि देवि ! तव युक्तमुदग्रकर्म-निर्मन्थविस्तृतनयं तनयं दिदृक्षोः ॥४॥ व्याख्याध्वनौ स्फुरति मोहनिशावसान-तूर्योपमे प्रथमतीर्थपतेः सुदूरात् । अभ्युद्ययौ नयननिर्मलताऽरुणश्रीः प्राच्यां त्वयीह जिनमातरि केवलार्कः ॥५॥ त्वत्सूनुना जननि ! सञ्जनिताद्यथोक्तचारित्रतो महसि केवलनाम्नि जाते । त्वं सप्तरज्जुमिषतः किल सप्ततूली-राक्रम्य साधु मरुदेवि ! मुदं तनोषि ॥६॥ कर्तुं स्वयं प्रगुणतामिह सिद्धिसौध-प्रावेशिकप्रकृतकौतुकमङ्गलानाम् । शङ्के सुतस्य भुवनाधिपतेर्मुमुक्षोः, पूर्वं गताऽसि मरुदेवि ! भवं विमुच्य ॥७॥ इत्थं तव स्तवनतः सुकृतं कृतं यत्, तेनाम्ब ! तीर्थपतिशासनमेतदुच्चैः । सूर्योदयप्रभववास्तवदीप्रतेजः-स्मेरस्य पुष्यतु सरोजवनस्य लक्ष्मीम् ॥८॥ [वसन्ततिलकाष्टकम्]
इति मरुदेवीस्तोत्रम् ॥ अस्य च प्रथमसिद्धस्याऽग्रतोऽसंव्यवहारराशिप्रभृतिअनादिसंसिद्धवनस्पत्येकसजातीयेष्वेव अनादिधालब्धजन्मन इदम्प्रथमिकयैव मनुष्यस्त्रीत्वेनोत्पद्य प्राग्भवेषु तद्भवे वा अनासादितनियमविशेषस्यैवाचिन्तनीयाश्चर्यबीजजीववीर्योल्लासवशात् क्षपक श्रेण्यारोहघातिकर्मक्षयनैश्चयिकयथाख्यातचारित्राऽवाप्तिकेवलज्ञान-शेषभवोपग्राहिकर्मक्षय-सिद्धिगमनान्यभूवन्निति हि वृद्धसम्प्रदायवेदिनः । तद्वदन्यस्यापि तपः- 25 संयमाऽक्षपितकायस्यैव चतुर्थपुरुषार्थसिद्धिर्भविष्यतीति अपुष्टमिदमालम्बनं स्वीकृत्य न अप्रमादे प्रमादिना भवितव्यमित्यभिप्रायः ॥१७९।। कुत एतदित्याह- .
किं पि कहिं पि कयाई, एगे लद्धीहि केहि वि निभेहिं । पत्तेयबुद्धलाभा, हवंति अच्छेरयब्भूया ॥१८०॥
15
१. भूमि - KHI
टि. 1. क्षमाधिपतिषु-जिनेषु नृपेषु च प्रथमः ऋषभस्वामी तस्य। 2. रोहणगिरीन्द्रेण सह वर्तेऽहं इति विर्मशेन उत्पन्नः यः मदः, भूमेः तस्य मदस्य भङ्गः चक्रे इत्यन्वयः। 3. किं प्रमाणं अस्य इति किंदनः, तस्य भावः किंदध्नता, ताम्। ७।१।१४२ हेम० दध्नट् प्रत्ययः।