SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ 5 15 [ कणिकासमन्विता उपदेशमाला । गाथा - १७६-१७९] जिनपथाsपण्डितानां मकारस्यालाक्षणिकत्वात् भगवन्मार्गाप्रवीणानां प्राणहराणामपि किं पुनः परेषां प्रहरतां शस्त्रादिघातं ददतां पुरुषाधमानामिति शेषः । न कुर्वन्ति पापानि तदुपरि प्रतिद्रोहचिकीर्षया, चशब्दान्मन्निमित्तमेतेषां वराकाणां नरकपात इति वासनया प्रत्युत करुणां कुर्वन्ति । पापस्य फलं दुरन्तदुर्गतिपातादिरूपं विजानन्तोऽवबुद्ध्यमाना इति ॥१७६॥ व्यवहारतः पापफलमेवाऽभिधित्सुराह 20 ३३२ वधस्ताडनं मारणं व्यपरोपणम् अभ्याख्यानदानमलीकदोषारोपणम् । परधनविलोपनं परेषां वित्तविनाशनम् । आदिशब्दान्मर्मोद्घट्टन - पैशून्यादिग्रहस्तेषाम् एकशः कृतानाम् एकवारं विहितानां 10 सर्वजघन्योऽत्यन्तनिकृष्ट उदयो विपाको दशगुणितः । यदन्यस्मै किञ्चिदतिश्लथपरिणामेनाऽपि क्रियते तद्दशगुणं प्रतिप्राप्यत इत्यर्थः ॥१७७॥ वह मारण- अब्भक्खाणदाण-परधणविलोवणाईणं । सव्वजहन्नो उदओ, दसगुणिओ एक्कसि कयाणं ॥ १७७॥ ॥१७८॥ जघन्यं विपाकमुक्त्वा उत्कृष्टमाह तिव्वयरे उपओसे, सयगुणिओ सयसहस्सकोडिगुणो । काकोडिगुणो वा, हुज्ज विवागो बहुतरो वा ॥ १७८ ॥ तीव्रतरे उत्कटतरे । तुशब्दात्कालान्तरानुबन्धिनि च प्रद्वेषे मत्सरे सति शतगुणितः शतसहस्त्र - कोटिगुणः कोटाकोटीगुणो वा भवेद्विपाकस्तदुदयो बहुतरो वा प्रद्वेषोत्कर्षस्य तारतम्यस्य नानारूपतया कर्मबन्धविपाकस्याऽपि वैचित्र्यमित्यभिप्रायं विमृश्य चैतत्परिहाराय अप्रमादिना भाव्यमित्युपदेशतात्पर्यमिति इत्याचार्यश्रीउदयप्रभदेवसङ्घटितायां कर्णिकाख्यायामुपदेशमालाविशेषवृत्तौ द्वितीयः परिवेषः सम्पूर्णः ॥ शतोपरि अष्टसप्ततितमगाथान्तं विवरणम् ॥ ग्रन्थाग्रं ४२३७ आदितो ग्रन्थाग्रं ८६४७ ॥ अथ तृतीयः परिवेषं आरभ्यते तीव्र-तीव्रतरप्रद्वेषप्रकर्षतारतम्यस्य कारणस्य अपरिमिततया, कार्यस्य कर्मविपाकस्याऽपि अपरिमितत्वं दुरन्ततमं विचिन्त्य अप्रमादोऽभ्यसनीय इति भूयोभूय आत्मनोऽप्रमादाभ्यासाऽऽयासोपदेशेन कः स्वार्थो ? मरुदेव्यादीनां हि कर्मणां पूर्वबन्धस्येव अप्रमादाभ्यासमन्तरेण क्षयस्याऽपि यादृच्छिकतयैव 25 दृष्टत्वान्नकार्यमात्मवञ्चनयेति दुर्विदग्धानां मुग्धबुद्धिविप्रतारणार्थवचनचातुरीं निराचिकीर्षुराह— के इत्थ करेंतिऽऽलंवणं, इमं तिहुयणस्स अच्छेरं । जह नियमाखवियंगी मरुदेवी भगवई सिद्धा ॥ १७९ ॥ केचिदतत्त्वज्ञा अत्रार्थे कुर्वन्त्यालम्बनम् अलीकावष्टम्भम् इदं वक्ष्यमाणं त्रिभुवनस्याश्चर्यम् असम्भावनास्पदतया अद्भुतं यथा नियम्यते नियन्त्र्यते आत्मा एभिरिति नियमास्तप: संयमादिविषया १. षः प्रारभ्यते - KH | २. कीराह - D, K, KH
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy