________________
10
[कर्णिकासमन्विता उपदेशमाला । गाथा-१७१-१७६ ]
३३१ साधुर्मुनिः, कुर्यादनुतिष्ठेत् । पश्चादपि अवसानसमयेऽपि अन्निकासुत इव प्राच्याऽऽख्यानकोक्ताचार्य इव स निजकमात्मीयमर्थं प्रयोजनं परमपुरुषार्थलक्षणमचिरेण क्षिप्रं साधयति सम्पादयतीति ॥१७॥
____ अथ तप:संयमाराधने बुद्धिः, "आर्ता नरा धर्मपरा भवन्ति" इति न्यायात् दुःखिनामेव भवतीति दुर्विदग्धविकल्पमपाचिकीर्षुराह
सुहिओ न चयइ भोए,चयइ जहा दुक्खिओ त्ति अलियमिणं ।
चिक्कणकम्मोलित्तो, न इमो न इमो परिच्चयइ ॥१७२॥ सुखमालादरूपं सञ्जातमस्येति सुखितो न त्यजति भोगान् शब्दादीन्, त्यजति यथा दुःखित इत्यलीकमिदमसत्यमेतत् । चिक्कणकर्मोपलिप्तो नायं दुःखितो नायं सुखितः परित्यजति भोगानतोऽत्र कर्मलाघवमेव प्रमाणं, न सुखदुःखे इति ॥१७२॥ तथाहि
जह चयइ चक्कवट्टी, पवित्थरं तत्तियं मुहुत्तेण ।
न चयइ तहा अहन्नो, दुब्बुद्धी कप्परं दमओ ॥१७३॥ यथा त्यजति चक्रवर्ती भरतसनत्कुमारादिः, प्रविस्तरं परिग्रहं तावन्तं षट्खण्डभरतवर्ष-द्वासप्तति पुरवरसहस्र-षण्णवतिग्रामकोटि-द्वात्रिंशन्मुकुटबन्धनरेन्द्रसहस्र-नवनिधि-चतुर्दशरत्न-चतुःषष्टिअन्तःपुरसहस्र- 15 सहस्रद्वयाङ्गरक्षयक्ष-षण्णवतिकोटिपदाति-चतुरशीति चतुरशीतिलक्षसङ्ख्यकरितुरगरथप्रभृतिकं मुहूर्तेन क्षणमात्रेण । अन्वयमुक्त्वा व्यतिरेकमाह-न त्यजति तथा अधन्यो निर्भागधेयो दुर्बुद्धिः कलुषमतिः कपरं घटादिकपालं द्रमको रङ्क इति ॥१७३।। सञ्जातकर्मविवराणां पुनर्देहोऽपि सुत्यज एवेत्याह
देहो पिपीलियाहिं, चिलाइपुत्तस्स चालणि व्व कओ।
तणुओ वि मणपओसो, न चालिओ तेण ताणुवरि ॥१७४॥ देहः कायः पिपीलिकादिभिश्चिलातीपुत्रस्य प्राक् सुंसुमोपाख्याने प्रतिपादितस्वरूपस्य चालनीव कृतश्छिद्रित इत्यर्थः । तनुकोऽपि स्वल्पोऽपि मन:प्रद्वेषश्चित्तोद्वेगो न चालितस्तेन महात्मना चिलातीपुत्रेण तासां पिपीलकानामुपरीति ॥१७४॥ एवं च सति
पाणच्चए वि पावं, पिपीलियाए वि जे न इच्छंति ।
ते कह जई अपावा, पावाई करेंति अन्नस्स ॥१७५॥ प्राणाऽत्ययेऽपि पापं पिपीलिकाया अपि ये भगवन्तो नेच्छन्ति । ते कथं यतयोऽपापाः पुण्यपरिणामाः, पापानि कुर्वन्त्यन्यस्य असम्भव एवायमितिभावः ॥१७५॥ किमित्येवमपराधिष्वपि क्षन्तव्यमेवेत्याह
जिणपहमपंडियाणं, पाणहराणं पि पहरमाणाणं । न करंति य पावाइं, पावस्स फलं वियाणंता ॥१७६॥
25
30