SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ [ कणिकासमन्विता उपदेशमाला । गाथा - १७० ] इदं विचिन्त्य न्यायान्धकूपरूपः स भूपतिः । पुरप्रधानपुरुषान् समाहूयेदमभ्यधात् ॥५६॥ अन्तरन्तःपुरं हन्त ! रत्नं यत्किल जायते । स्वेच्छया तन्निवेशाय कः प्रभुब्रूत भूतले ॥५७॥ अन्यायस्थमभिप्रायमथाऽविज्ञाय तस्य ते । जगुर्जगद्रनततेरपीच्छान्यासकृन्नृपः ॥५८॥ छलादनुमतिं तेषामित्यादाय व्यवाहयत् । नृपः प्रियानिषिद्धोऽपि तत्पुत्रमिथुनं मिथः ॥ ५९ ॥ इत्यकार्यकृति क्ष्मापे वैराग्यरसरागिणी । प्रशान्तभवसन्तापं प्राप पुष्पवती व्रतम् ॥६०॥ क्रमेणाऽथ स भूपालः कालधर्ममुपागतः । पुष्पवत् पुष्पचूलस्तु लीलयाऽलालयद्भुवम् ॥६१॥ अयमब्धिदुकूलां च पुष्पचूलां च वल्लभाम् । सहैव बुभुजे भोगसम्भोगरसलालसः ॥६२॥ तदा पुष्पवतीदेवी परिपाल्य व्रतं मृता । सुरोऽभवच्चाऽपश्यच्च तत्पुत्रमिथुनं तथा ॥ ६३ ॥ कृपया पुष्पचूलायै सुरः प्राक्प्रीतिभासुरः । स स्वप्ने दर्शयामास नरकान् दैरकारणम् ॥६४॥ सैषा नरकवैषम्यभीता भर्त्रे न्यवेदयत् । कम्पमानवपुः स्वप्नं यथादृष्टमहृष्टहृत् ॥६५॥ सर्वानुर्वीन्दुराहूयाऽपृच्छद्दर्शनिनस्ततः । भवन्ति हन्त कीदृक्षाः दुःखदा नरका इति ॥६६॥ अभोगपूर्त्तिरोगार्त्तिवियोगस्फूर्तिरूपिषु । सा जहास महाराज्ञी दिष्टेषु नरकेषु तैः ॥६७॥ पृष्टाश्च धरणीशेन श्रीसन्धीरणसूरयः । आख्यन् यथा तया दृष्टाननिष्टान्नरकानी ॥६८॥ प्रीताऽथ पार्थिववधूः पप्रच्छ स्वच्छधीर्गुरून् । दृष्टाः स्वप्नेषु युष्माभिरपि किं नरका इति ॥६९॥ आचख्युरन्निकासूनुसूरयोऽथ वयं खलु । अदृष्टमपि जानीमः श्रीमत्तीर्थेशशासनात् ॥७०॥ गम्यते कर्मणा केन नरकः खरकष्टकृत् । इत्यपृच्छत् पुनः सूरीनूरीकृतभयैव सा ॥७१॥ मायामानक्रुधा कामलोभमात्सर्यतः कृतम् । कर्म स्यान्नरकायेति तां पुनर्मुनयो जगुः ॥७२॥ ज्ञातदुर्गतिदुःखायै तस्यै स्वप्नान्तरे सुरः । स्वर्गान् सोऽदर्शयत् प्रीतिसदनं तदनन्तरम् ॥७३॥ ज्ञात्वाऽथ तमपि स्वप्नं परे सर्वज्ञमानिनः । स्वर्गस्वरूपे भूपेन पृष्टे प्रत्यवदन्नदः ॥७४॥ आरोग्यं भोगसम्पत्तिरवियोगः प्रियैः सह । अयोगो दुःखपङ्क्त्येति स्वर्गलक्षणमक्षतम् ॥७५॥ नाऽमी किमपि जानन्ति निश्चित्येति नृपस्ततः । अपृच्छदन्निकापुत्रसूरे: स्वर्गसदां स्थितिम् ॥७६॥ अज्ञानतिमिरध्वंसिजिनागमदिनागमः । यथास्थितानथ स्वर्गान् स मुनीन्दुर्न्यवेदयत् ॥७७॥ अथ प्रणम्य पप्रच्छ मैहीकामुककामिनी । भगवन् ! सुगमः स्वर्गनिगमः केन कर्मणा ॥७८॥ स्वर्गापवर्गयोर्मार्गे यतिधर्मेऽथ निर्मले । दर्शिते मुनिनाथेन संविग्नैवं जगाद सा ॥७९॥ प्रभो ! प्राणेशमापृच्छ्य ग्रहीष्यामि व्रतं द्रुतम् । इत्युक्त्वाऽऽपृच्छत ततस्तदर्थं नृपमादरात् ॥८०॥ जगाद जगदीशस्तामनुजानाम्यदः प्रिये ! । ममैवोकसि गृह्णीषे भिक्षां दीक्षावती यदि ॥८१॥ तथेति प्रतिपद्येयमुपादेयगुणावलिः । अन्निकापुत्रसूरिभ्यो दीक्षासौरभ्यमाददे ॥८२॥ १. नुर्वीपराहूय - D, K, नुर्वीधराहूय - KH | २. ध्रुवं - C टि. 1. दरः - भयः । 2. नृपपत्नी । ३२९ 5 10 15 20 25
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy