SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ 5 ३२८ [कर्णिकासमन्विता उपदेशमाला । गाथा-१७० ] उद्यदुःखाङ्करभरो विध्यातमदनाऽनलः । इति ध्यानेन वर्षावद्ववर्षाऽश्रुजलैरसौ ॥२९॥ तदश्रुमार्जनैर्वासः कञ्चुकं च निजाश्रुभिः । क्लेदयन्त्यथ तद्दुःखदुःखिन्यूचे तमन्निका ॥३०॥ स्वामिन् ! कस्यैष लेखेन्दुर्यत्र तेऽब्जायते मुखम् । चन्द्रकान्तायते दृष्टिरदृष्टिः कुमुदायते ॥३१॥ इत्येतयातिपृष्टोऽपि न किञ्चिदयमूचिवान् । हृदि दृग्वारिवाहिन्योः संभेदं केवलं व्यधात् ॥३२॥ तदेषा लेखमादाय दुःखस्वादाय वीक्ष्य च । मृगीदृशीदृगाचष्ट कष्टक्लिष्टं पति प्रति ॥३३॥ मा नाथ ! मज्ज दुःखाब्धौ बोधयाम्यद्य बान्धवम् । अचिरादेव यास्याव आवामावासमात्मनः ॥३४॥ . श्वश्रूत्कण्ठोन्मुखी बन्धुमापृच्छ्याऽथ महाग्रहात् । सा प्रियेण सहाऽचालीद्वाचालीकृतदिग् गुणैः ॥३५॥ तस्या विकाशिताशेषस्वजनाऽऽननपङ्कजः । वहन्नहर्पतिस्पर्धाम(ऽध्वनि सुतोऽजनि ॥३६॥ करिष्यतोऽस्य नामादि मदीयौ पितराविति । अन्निकापुत्र इत्येष देवदत्तस्तमभ्यधात् ॥३७॥ अथ त्रुटत्पथस्फायमानोत्कण्ठाधिकत्वरः । अग्रेपितृ जगामाऽयं रामासुतयुतः क्रमात् ॥३८॥ विनयन् विनयाऽधिक्यात् दुःखं दूरवियोगजम् । देवदत्तो नमन् पित्रोश्चरणौ मूर्द्धनि न्यधात् ॥३९॥ ताभ्यामुत्थाप्य हर्षेणाऽऽलिङ्गितो मूनि चुम्बित: । पृष्टश्च वत्स ! कालेन त्वया किमियताऽज्जितम् ॥४०॥ दोर्ध्यामथाऽयमादाय तयोस्तनयमर्पयन् । वधूटीं दर्शयंश्चाख्यदर्जनेयं ममेयती ॥४१॥ आवां पुत्रानपत्यत्वभीतावेतेन धीरितौ । इति तौ तेनतुस्तस्य शिशोः सन्धीरणाऽभिधाम् ॥४२॥ धात्रिभिः पाल्यमानश्च लाल्यमानश्च बन्धुभिः । अवर्द्धत क्रमादेष प्रमादेषु विषण्णधीः ॥४३।। मध्यमे वयसि प्राप जयसिंहमुनेः पुरः । वियोगदुस्सहं भोगभारमुन्मुच्य स व्रतम् ॥४४॥ कल्याणमयमात्मानं शोधयित्वा तपोऽग्निभिः । स मुक्तिमुकुटायेव त्रिरत्नीखचितं व्यधात् ॥४५॥ अधीतस्तत्र सूत्रार्थः सन्धीरणमहामुनिः । अभूदाचार्यवर्योऽयं गच्छव्योमहिमच्छविः ॥४६॥ वाग्भिर्बोधसुधासिन्धुलहरीभिः शरीरिणाम् । तापं व्यापादयन्नेष विजहाराऽन्वहं महीम् ॥४७|| 20 वार्द्धके पुष्पभद्राख्यं स पुरं सपरिच्छदः । धुपुरीजयकीयॆव गङ्गया सङ्गतं ययौ ॥४८॥ धूमकेतुर्द्विषां पुष्पकेतुस्तत्र नृपोऽभवत् । प्रिया च तस्य रूपद्रुपुष्पं पुष्पवतीत्यभूत् ॥४९॥ तयोः पुत्रश्च पुत्री च जितस्मर-रतिद्युती । अभूतां पुष्पचूलश्च पुष्पचूला च युग्मजौ ॥५०॥ समं समन्ततः केलिकलापकलितोदयौ । तावन्योन्याद्भुतप्रीती पिता प्रेक्ष्य व्यचिन्तयत् ॥५१॥ सूनोरस्याऽनुमानेन मन्ये नास्ति क्वचिद्वधूः । क्वचिदस्याश्च कन्याया नास्ति साम्यधरो वरः ॥५२॥ 25 तन्मिथो मिथुनस्याऽस्य युक्तं समतमद्युतेः । युगादिधर्मसंवादि पाणिग्रहणमङ्गलम् ॥५३॥ पृथक्पृथग्निहितयोमिथोऽपि विरहज्वरात् । ईदृक्प्रीतिभृतोर्जाने कुशलं नानयोरपि ॥५४॥ एतदक्षेमतः क्षेमः प्रियसूनोर्ममाऽपि न । मदक्षेमेण न क्षेमः क्षमाखण्डेऽखिलेऽपि हि ॥५५॥ टि. 1. दूरीकुर्वन् । 2. कल्याणं सुवर्णं, तन्मयं आत्मानं इत्यर्थः । 3. चन्द्रः। 4. अग्निः । 5. अत्यन्तं समाना द्युतिः कान्तिः यस्य तस्य मिथुनस्य इत्यर्थः । (सम + तमट् प्रत्ययः)
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy