SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ 5 . 10 ३२६ [कर्णिकासमन्विता उपदेशमाला । गाथा-१६९-१७०] मिथ्यात्वं परमा निद्रा मिथ्यात्वं परमान्धता । मिथ्यात्वं परमो मोहो मिथ्यात्वं परमं तमः ॥२५॥ मिथ्यात्वं श्रेयसामीतिर्मिथ्यात्वं सम्पदा क्षयः । मिथ्यात्वं दुर्गतौ यानं मिथ्यात्वं पाप्मनः खनिः ॥२६॥ घनं खलु खलूक्त्वा वा मूलात् मूर्छामयात्मनः । संसारविषवृक्षस्य मिथ्यात्वमिह बीजति ॥२७॥ सम्यक्त्वं तज्जयेनाप्य नाप्यस्माकमतः परम् । साम्प्रतं साम्प्रतं कर्तुं साक्षादविरतौ रतिः ॥२८॥ इत्थं विषयभूतघ्नो भूत्वा भवमरुप्रियः । स तेषां सद्गतेर्मार्गे कण्टकाशनतामगात् ॥२९॥ यच्च येन यतः प्राप्यं तत्तेन तत आप्यते । तैस्तदाऽपि ततो बोधिः कुमारैर्यदलभ्यत ॥३०॥ सदा जागर्त्यहो भाग्यमभव्यः करभोऽपि यत् । तेषां बोधाय सोऽधावत् कुत्र वा न श्रियः सताम् ॥३१॥ तं धनैर्मयमुन्मोच्य धनिकात्ते नृपात्मजाः । चैत्येष्वष्टाहिकां कृत्वाऽपृच्छन् पितरमात्मनः ॥३२॥ पण्डिताः खण्डितां कृत्वा राज्यश्रियमखण्डिताम् । दीक्षामार्यसमुद्रान्ते जगृहुस्ते नृपात्मजाः ॥३३॥ इति अङ्गारमर्दकोपाख्यानम् ॥ अथाक्षरार्थः । अङ्गारजीववधकोऽङ्गारा एव तद्विकल्पाज्जीवाः प्राणिनस्तेषां वधको विनाशकः, कश्चित् कुगुरुः कदाचार्यः, सुशिष्यपरिवार: स्वप्ने यतिभिर्विजयसेनाचार्यशिष्यैदृष्टः, कोलः शूकरो गजकलभपरिकीर्णो बालेभपरिवारित इति । स उग्रे भव एव समुद्रे नानाजन्मसु भ्रमन्निति शेषः । स्वयंवरम् अवयवे समुदायोपचारात् स्वयंवरमण्डपम् उपागतै राजभिर्नृपैः । करभः सन्नुपस्करभृतो भारपूरितो दृष्टः । 15 पुराणशिष्यैः पूर्वजन्माऽन्तेवासिजीवैरिति ॥१६८॥१६९॥ अङ्गारमर्दकदृष्टान्तेनैव भवाभिनन्दिजीवाननूद्य लघुकर्मकजीवस्वरूपं व्यतिरेकत आह संसारवंचणा न वि, गणंति संसारसूयरा जीवा । सुमिणगएण वि केई, बुज्झंति पुष्फचूला वा ॥१७०॥ ___ संसारवञ्चनाः स्वल्पविषयगृद्धानां नारकादियातनाप्राप्त्या विप्रलम्भनास्ता, नाऽपि नैव गणयन्त्या20 कलयन्ति संसारशूकरा भवगतकोलकल्पा गुरुकर्माणो जीवाः प्राणिनः । भवाभिनन्दिजीवस्वरूपमित्थमनूद्य शिवाभिनन्दिजीवस्वरूपं व्यतिरेचयति-स्वप्नगतेनाऽपि आस्तां जाग्रद्दशायामनुभवंधर्मोपदेशादिभिः, किन्तु निद्रामध्योद्भूतज्ञानेनाऽपि केचित् लघुकर्मकाः बुध्यन्ते तत्त्वमिति गम्यम् । पुष्पचूलावदित्यक्षरार्थः ॥१७०॥ भावार्थाऽवबोधाय कथैवमनुश्रियते - . [पुष्पचूलाकथानकम् ॥] 25 श्रीवल्लिवृद्धिकृत्कुम्भिवमथुर्मथुरा पुरी । उदीच्यामस्ति पस्त्याग्रमुक्तास्तबकबन्धुरा ॥१॥ श्रीदमित्रमिवामुत्र वणिक्पुत्रः श्रियांनिधिः । सखेव कामदेवस्य देवदत्ताऽभिधोऽभवत् ॥२॥ १. जीवति - B वीजति:-KH, A, H । २. बोधि B धिगधि - L। ३. ष्टाह्निकां - A । ४. कल्पा जीवाः - KH, LI ५. सिद्धमध्योद्भूत - L, A निद्रामिथ्यो...D निद्रामध्यो...KH, निद्रामिध्यो - KI टि. 1. उक्त्वा खलु, कृतं अलं इति यावत् । 2. इदानीम् । 3. युक्तम्। 4. भूतघ्नः, मरुप्रियः, कण्टकाशनः एते त्रयोऽपि शब्दाः करभस्य वाचकाः । घटना तु एवम् गुरोर्जीवः स करभस्तेषां सद्गतेार्गे वाहनत्वेन करभतामगात् कथं ? स एव-विषया एव भूतास्तेषां हन्ता तत्र निमित्तत्वात्, स अभव्यत्वात् भवमरुप्रियः । 5. मयः करभः। 6. वमथुः हस्तिकरान्निःसरन्तो जलबिन्दवः । 7. पस्त्यम्-गृहम् ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy