________________
5
प्रत्युपेक्षस्व पन्थानं निशि निर्गम्यते यथा । इत्थं गुरुभिरादिष्टे तथा साधुर्व्यधत्त सः ॥ १२ ॥ निःसस्रतुस्तमिस्रायां शिष्योऽग्रे मार्गतो गुरुः । पथि प्रस्खलितः शिष्यं दण्डेनाऽऽहतवान् पुनः ॥ १३॥ तापितोऽपि स दुर्वाक्यैर्गुरुणा ताडितोऽपि च । विनेयो नाप वैवर्ण्यं स्फोटं वा जात्यहेमवत् ॥१४॥ दध्यौ च सुखमासीनो गुरुरासीन्महातपाः । मया पातकिनाऽपाति धिक्कष्टं क्लेशसङ्कटे ॥१५॥ इहलोकोपकर्तॄणां सुखं स्यादनृणः पुमान् । गुरूणां तु ऋणान्मुक्तिः काकतालीययोगिनी ||१६|| गुरूणामधमर्णत्वान्मोक्षः कौतस्कुतोऽस्तु मे । प्रत्युतानर्थदानेन ऋणार्णं प्रार्णतामगात् ॥१७॥ नमस्तीर्थकरायाऽस्तु स्वस्त्यस्तु श्रुतसम्पदे । क्व तद् द्वयं क्व वा मादृग् गुरुश्चेन्न प्रसीदति ॥१८॥ धन्यास्ते तैर्जितं तेषां सुलब्धं जन्म जीवितम् । बाला इवाऽऽर्जवेनैव ये गुरून् पर्युपासते ॥१९॥ रेजे नु क्षपकश्रेणिघ्नतो मोहमहाचमूम् । तदा तस्याऽवदातस्य ध्यानस्य मिषतो यशः ॥२०॥ स्थितायां धर्मसेनायां संयमेऽप्यक्षतोद्यमे । गुरुभक्त्यैकयाऽजैषीत् कर्मणां स चमूममूम् ॥२१॥ ध्यानान्तरिकया कर्मजयप्राप्तपताकया । तदासौ नितरां रेजे महासत्त्वमतल्लिका ॥२२॥ तदा सिद्ध्यङ्गनामुक्तस्वयंवरणमाल्यवत् । सौरभ्यव्याप्तविश्वान्तं केवलज्ञानमाप सः ॥२३॥ ज्ञानेन विषमांस्त्यक्त्वा समेनैव पथा नयन् । प्रत्यानिनाय स प्रीतिं स्वं प्रति व्रतिनां प्रभुम् ||२४|| प्रभामिवाऽथ दोषान्ते तन्मौलौ शोणितश्रुतिम् । रक्तामनूज्जिहीते स्म विवेकार्कस्तदा गुरोः ॥२५॥ अहो क्षान्तिरहो शान्तिरहो दान्तिरहो व्रतम् । फलितोऽस्य फलैः स्फीतै: शैक्षस्याऽपि तपस्तरुः ॥२६॥ शैक्षोऽपि माननीयोऽयं वृथा वृद्धेन किं मया । त्रिधापि यस्य मे वन्ध्यं स्थविरत्वं शमं विना ॥२७॥ इत्थं शिष्यगुणध्यानादात्मदोषानुतापतः । चण्डरुद्रोऽपि रौद्रोद्यत्कर्मद्रोहि मनोऽकरोत् ॥२८॥ क्षणेन श्रेणिमासाद्य क्षीणमोहः स केवलम् । प्राप प्राप्यैव शिष्येण भक्त्येव प्राभृतीकृतम् ॥२९॥ गुरोः स्वस्त्यस्तु पुण्यानां तेषां यैरीदृशः किल । सुशिष्यः प्राप्यते चिन्तामणिवद् गुणिनां गुणी ॥३०॥ इति चण्डरुद्रशिष्यकथानकम् ॥
चण्डरुद्रोपाख्यानेन क्रोधादिभिर्दुराराध्योऽपि गुरुराजन्मविनयेनाराधनीय इत्युपदिश्य एतदेवाऽभव्यतया 25 परित्याज्यस्यापि गुरोः सुशिष्याः कृतज्ञतमतया जन्मान्तरेऽपि पक्षपातमेव कृतवन्त इति दृष्टान्तेन दृढयतिअंगारजीववहगो, कोई कुगुरू सुसीसपरिवारो ।
सुमिणे जईहिं दिट्ठो, कोलो गयकलहपरिकिन्नो ॥ १६८ ॥
10
15
[ कर्णिकासमन्विता उपदेशमाला । गाथा - १६७-१६८ ] ततस्तततमश्च्छन्ने मार्गे निम्नोन्नते गुरुः । स्खलित्वा निपतन् भूमौ शैक्षं चुक्रोश रोषणः ||६|| रे ! रे ! पापिष्ठ ! दुष्टेन दृष्टः पन्थास्त्वयेदृशः । गुरुणा ताडितो मूर्ध्नि दण्डेनेति व्यचिन्तयत् ॥७॥ इति श्लोकाः पाठान्तरगताः ।
20
३२४
१. शिष्यं - A । २. रोहतः - C | ३. श्रेणि - C, AI
टि. 1. इतो यावत् सप्तदशमः श्लोकः A, H आदर्शयोर्नास्ति । 2. उदयं प्राप्तः इत्यर्थः । 3. वयः पर्यायश्रुतेन त्रिधाऽपि स्थविरत्वं तदनुरूपफलं शमं विना वन्ध्यं इत्यर्थः ।