________________
[कर्णिकासमन्विता उपदेशमाला । गाथा-१६६-१६७]
३२३ अभिगमनम् आगच्छतोऽभिमुखयानं वन्दनं गुणोत्कीर्तनं नमस्करणं कायमनःप्रह्वता, तेषां द्वन्द्वैकवद्भावे तेन, तथा प्रतिप्रच्छनेन शरीरवार्तादिविषयेण क्रियमाणेन, साधूनां ज्ञानादिभिर्मोक्षसाधकानां चिरसञ्चितमपि प्रभूतभवोपात्तमपि कर्म ज्ञानावरणादि, क्षणेन स्वल्पकालेन, विरलत्वमल्पत्वमुपैति प्राप्नोति अभिगमनादिकर्तुरिति गम्यम् ॥१६६॥ । तदेवं विनयवानात्मोपकारमिव आराध्यजनोपकारमपि जनयतीत्याह
केई सुसीलसुहम्माइसज्जणा, गुरुजणस्स वि सुसीसा ।
विउलं जणंति सद्धं, जह सीसो चंडरुदस्स ॥१६७॥ केचिन्न सर्वे, सुशीलसुधर्मातिसज्जनाः सुशीला विशिष्टेन्द्रियसमाधानवन्तः, सुधर्माणः पवित्रश्रुतचारित्राः, अतिसज्जनाः सर्वप्राणिनाम् अमृतपरिणामतया, ते तथाविधा, गुरुजनस्याप्याऽऽराध्यवर्गस्याऽपि सुशिष्याः प्रधानविनेयाः विपुलां जनयन्ति श्रद्धां संवेगरूपां क इव ? यथा शिष्यश्चण्ड- 10 रुद्रस्येति ॥१६७॥ तत् कथानकं चेदम्
[चण्डरुद्रशिष्यकथानकम् ॥] आचार्यः पञ्चधाचारपरिचर्यापरायणः । चण्डरुद्रः श्रुताम्भोधेः पारीणोऽजनि विश्रुतः ॥१॥ निष्ठानिष्ठुरधीरेन:शोषणः सैष रोषणः । वसन् गच्छाददूरस्थो विजहार महातपाः ॥२॥ कदाचिदुज्जयिन्यां च तस्मिन्नुद्यानवासिनि । मित्रैः समं नवोद्वाहमङ्गलः कश्चिदाययौ ॥३॥ केलिप्रियतया तस्य वयस्या जगदुर्मुनीन् । अस्य व्रतं विरक्तस्य प्रसद्याऽद्यैव दीयताम् ॥४॥ गन्धमाल्याऽम्बरोदारनेपथ्यप्रथितोत्सवम् । तमालोक्य विनिश्चिक्युः साधवस्तान् प्रहासिनः ॥५॥ दध्यस्ते साधवोऽप्येवं धुष्यतां कलिना कलिः । दीक्षार्थं प्रेषयामासर्गरोरेवाऽन्तिकं च तान ॥६॥ विज्ञप्तस्तद्वदेवैभिर्गुरुरप्येष रोषणः । समानयत भस्मेति तानेवाह प्रहासिनः ॥७॥ तैर्भस्मन्युपनीतेऽथ चक्रे लोचं गुरुः स्वयम् । आसन् वयस्या दीनास्याः स तु चिन्तितवानिदम् ॥८॥ 20 गुरोः क इव दोषोऽयं दीक्षामंदित योऽर्थितः । सद्भावतो गुणीभावमात्मनाऽपि नयामि ताम् ॥९॥ वयस्याः ! श्रित एवाऽहं गुरून् परमतः परम् । स विसृज्येति मित्राणि स्वयं तत्रैव तस्थिवान् ॥१०॥ ऊचे च प्राञ्जलिः सूरीन् पितृस्वजननागराः । यावत्ते न विजानन्ति तावदन्यत्र गम्यते ॥११॥ ततः स निजबन्धुभ्यो बलात्कारं विचिन्तयन् । गुरूनुवाच वाचं च वाचंयमशिरोमणिः ॥१॥ भगवन् ! प्रसादमाधाय विहारं कुरुत द्रुतम् । अन्यथा मे स्थितस्याऽत्र बान्धवेभ्यो महद्भयम् ॥२॥ 25 गुरुराह तदानीं भो ! नाऽहं पश्यामि यन्निशि । ततस्त्वं प्रथमं गत्वा मार्गमालोकयाऽधुना ॥३॥ गुर्वादेशमिमं प्राप्य, मार्गमालोक्य च द्रुतम् । गुरून् विज्ञपयामास स सात्त्विकशिरोमणिः ॥४॥ मया निरूपितो मार्गः, पूज्याः ! पादोऽवधार्यताम् । इत्युक्ते तेन स गुरुश्चचाल निशि सत्वरः ॥५॥
१. धीरेतः - D धीरेन - H, KH वीरेण - L, A । २. रोपण: - D, K। ३. गम्यतां - BI
टि. 1. एनस्-पापम्, तं शोषयति । 2. अयं श्लोक: C, L, B, KH, K, D आदर्शेष्वस्ति, A, H आदर्शयोर्नास्ति । 3. इत: सप्त श्लोकाः A, H आदर्शयोरेव ।