SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३२२ [ कर्णिकासमन्विता उपदेशमाला । गाथा - १६५ - १६६ ] न निषेद्ध्यो व्रतात्कश्चित् कार्यः किन्तु व्रतोत्सवः । सर्वस्यापि मया विष्णुरभिगृह्येत्यगाद् गृहम् ॥११॥ युग्मम् ॥ विवाह्याः स्वसुताः प्राह कृष्णः स्वं नन्तुमागताः । दासीत्वं स्वामिनीत्वं वा भवतीभ्यो ददामि किम् ॥१२॥ याचितस्वामिनीत्वे च ताभिरभ्युद्यतो हरिः । ग्राहयामास ताः सर्वाः प्रव्रज्यां नेमिसन्निधौ ॥१३॥ कन्याऽन्यदाऽवदन्मातृशिक्षिता केतुमञ्जरी । भविष्यामि भुजिष्याऽहं तात ! न स्वामिनी पुनः ॥१४॥ अन्याः कन्या ममेदृक्षं मा वेदन्त्विति विष्णुना । तद्विवाहधिया पृष्टो विक्रमं वीरकः स्वयम् ॥१५॥ वीरंमन्यस्ततो वीरः कुविन्दोऽवोचदच्युतम् । बदरीस्थो मया ग्राव्णा कृकलासो हतो मृतः ॥१६॥ चक्रमार्गे मया वारि वहद्वामांहिणा धृतम् । मक्षिकाः पानकुम्भ्यन्तर्धृता द्वारस्थपाणिना ॥१७॥ सभासीनो द्वितीयेऽह्नि विष्णुर्भूमीभुजोऽवदत् । वीरकस्याऽस्य वीरत्वं कुलातीतं किमप्यहो ॥१८॥ येन रक्तफणो नागो निवसन् बेदरीवणे । निजघ्ने भूमिशस्त्रेण वेमतिः क्षत्रियो ह्ययम् ॥१९॥ येन चक्रक्षता गङ्गा वहन्ती कलुषोदकम् । धारिता वामपादेन वेमतिः क्षत्रियो ह्ययम् ॥२०॥ येन घोषवती सेना वसन्ती कलसीपुरे । निरुद्धा वामहस्तेन वेमतिः क्षत्रियो ह्ययम् ॥२१॥ इत्युक्त्वा पौरुषं स्पष्टं क्षत्रियेषु जनार्दनः । तां केतुमञ्जरीं कन्यां वीरकेणोदवाहयत् ॥२२॥ वीरकस्तां गृहे नीत्वा तस्या दास इवाऽभवत् । आज्ञया केशवस्याऽथ तां दासीमिव चक्रिवान् ॥२३॥ पराभूता तु सा विष्णो रुदतीदं न्यवेदयत् । कृष्णोऽवोचत् त्वया हित्वा स्वाम्यं दास्यमयाच्यत ॥२४॥ साऽवोचदधुनापि त्वं स्वाम्यं तात ! प्रयच्छ मे । अथ प्राव्राजयत् पुत्रीं कृष्णोऽनुज्ञाप्य वीरकम् ॥२५॥ एकदा प्रददौ विष्णुर्द्वादशावर्त्तवन्दनम् । विश्वेषामपि साधूनां मुदा तदनु वीरकः ॥२६॥ ऊचे हरिर्विभुं षष्ठ्यधिकैर्युद्धशतैस्त्रिभिः । न श्रान्तोऽहं तथा नाथ ! यथा वन्दनयाऽनया ||२७|| अभ्यधत्त ततः स्वामी श्रीमन्नद्य त्वयाज्जिते । साक्षात् क्षायिकसम्यक्त्व - तीर्थकृन्नामकर्मणी ॥२८॥ सप्तम्या दुर्गतेरायुरुद्धर्त्याऽद्य त्वया हरे ! । साधुवन्दनया चक्रे तृतीयनरकोचितम् ॥२९॥ 20 कृष्णोऽवदत् पुनर्देयं वन्दनं शमिनां मया । नारकायुर्यथा शेषं मम मूलादपि त्रुटेत् ॥३०॥ द्रव्यवन्दनमित्थं ते न भवेद् दुर्गतिच्छिदे । इत्युक्तः स्वामिनाऽपृच्छत् वीरकस्य फलं हरिः ॥३१॥ अथाऽभ्यधत्त तीर्थेशः क्लेश एवास्य तत्फलम् । वन्दिताः साधवोऽनेन यतस्त्वदनुवर्तनात् ॥३२॥ विष्णुवत् मुनिषु वन्दनदानं भावतो भवति पुण्यनिदानम् । वीरवत् वितथवासनमुच्चैः क्लेशमात्रफलमेव तदेव ||३३|| [स्वागतावृत्तम्] इति केशवकथानकम् ॥ 5 10 15 25 एतदेवाह अभिगमण-वंदण-नमंसणेण पडिपुच्छणेण साहूणं । चिरसंचियं पि कम्मं, खणेण विरलत्तणमुवेइ ॥१६६॥ १. स्वामिकात्वं - KH, D, K । २. वदन्निति - K, KH, A, D टि. 1. भुजिष्या - दासी । 2. २।३।६७ [ द्वि- त्रिस्वरौषधि.....] हेम० इत्यनेन वनस्थनकारस्य णः ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy