________________
5
[ सत्यकिकथानकम् ॥ ]
श्रिया विशाला वैशाली शालते स्म पुरी पुरा । तत्रेषुकीलितद्वेषिखेटकश्चेटको नृपः ॥१॥ सुते तस्य मिथः प्रीतिस्यूते इव बभूवतुः । सुज्येष्ठा चेल्लणा चेति लावण्यललिताकृती ॥२॥ रतिप्रीत्योरिवान्योन्यमुपमानोपमेययोः । तयोः संविदभूदेको भविता पतिरावयोः ॥३॥ तत्ताते प्रार्थिते च प्रागदित्सौ श्रेणिकः स्वयम् । सुज्येष्ठासंविदाऽभ्यागान्नृपो हर्तुं सुरङ्गया ||४|| 10 यावदभ्येति सुज्येष्ठा तावत्प्रतिभयात् पितुः । तयैव प्रेरितोऽहार्षीच्चेल्लणामेव भूपतिः ॥५॥ भोगाधिकारधिक्कारकारिवैराग्यरागिणी । ऐहत व्रतमादातुं सुज्येष्ठा स्वसृवञ्चिता ॥६॥
सम्बोध्य पितरावाप्य चन्दनार्यान्तिके व्रतम् । अतप्ताऽतीव सा तीव्रं तपः परमदुस्तपम् ॥७॥ अन्तर्वसति गुप्तैव कदाचित्तपनातपे । आतापनां प्रतायन्ती जिनाज्ञां तनुते स्म सा ॥८॥ इतश्च नाम्ना पेढालः परिव्राड़तिखेचरः । सिद्धाऽनवद्यविद्यानां न्यासपात्रं समीहते ॥ ९ ॥ परे ब्रह्मणि लीनाया निष्कामाया य आत्मजः । जातो ब्रह्मविदा स स्यात् विद्यानां पात्रमुत्तमम् ॥१०॥ पुपुतित्रीयियिषतेत्येवमेतेन साऽन्यदा । अदर्शि दर्शनीय श्रीर्देर्शनं श्रीरिवाश्रिता ॥११॥
मुष्टिग्राह्यतेमोमुष्टदृष्टिनिर्णष्टविष्टपम् । विकृत्य धूमरीमोहं विद्याविद्योतिवैभवः ॥१२॥ वायुमूर्तिमयस्फूर्त्तिः प्रणिधानविधानतः । तयाऽपि चाऽपरिज्ञातः शक्त्या स्वं बीजमक्षिपत् ॥१३॥ युग्मम् ॥ क्रमेणाऽथ स्फुटीभूते सुज्येष्ठा गर्भलक्षणे । शोधिताऽतिशयज्ञानैर्निर्विकारेति बोधिता ॥१४॥
15
20
[ कर्णिकासमन्विता उपदेशमाला । गाथा - १६४] सम्यग्दृष्टिरपि मिथ्यात्वेनाऽकलङ्कितोऽपि कृतागमोऽपि बाल्यतः प्रभृति अभ्यस्तसमस्त श्रुतोऽपि परम् अतिविषयरागसुखवशग: प्रभूतविषयसौख्याभिष्वङ्गाऽधीनधीः सन् भवसङ्कटे संसारक्लेशसम्बाधे प्रविशति । अत्रार्थे तवेति विनेयाऽभिमुखीकरणार्थं हे विनय ! तवाऽग्रे वयमुपदिशामः सत्यकिः पेढालपुत्र उदाहरणमित्यक्षरार्थः ॥१६४॥ सत्यकिकथा चैवम्
25
३१८
जातः श्राद्धालये वृद्धोऽन्यदा नाम्ना स सत्यकिः । प्रभोः समवसरणं साध्वीभिः सह यातवान् ॥१५॥ खेटः खेटशठस्तत्र जगज्जैत्रबलस्तदा । श्रीवीरं कालसन्दीपः को मां हन्तेति पृष्टवान् ॥१६॥ इतः सत्यकितो मृत्युस्तवेत्युक्तेऽर्हता खगः । किं मां हन्ताऽसि हन्तासि ? तमिदं बालमालपत् ॥१७॥ पेढालसङ्गृहीतोऽथ बाल आर्यानुलालितः । धीमानेकादशाङ्गानि कर्णश्रुत्यैव सोऽध्यगात् ॥१८॥ तीव्रप्राग्जन्मसंस्कारकारणोद्बोधशोभिताः । विद्याः पितुरनुध्यानाद्विस्मृता इव सोऽस्मरत् ॥ १९ ॥ प्राग्जन्माराधनादेव देवताः स्वयमेव ताः । स्वयं सौम्य ! वृतोऽसीति प्रत्यपद्यन्त तं प्रति ॥२०॥ त्वं महारोहिणीमेकां केवलं साधयाऽधुना । तत्सिद्धावेव सिद्धाः स्मः सिद्धौ मा संशयं कृथाः ॥२१॥
१. पुरा पुरी - B, C, A । २. सुज्येष्ठां - D, C I ३. तत्रैव - C | ४. पनायन्ती जिनाना - H, C, D, K | ५. तनोर्मुष्ट... A, L । ६. दृष्टि
- B, KH, H । ७. खेटखेट: - C खेट: खेट: D, A, KI ८. मापतत् - C | ९. शोधिताः - CI
A.
टि. 1. दर्शनं – दर्पणम् । 2. खेटः - अधमः । 3. असि (अव्य० ) - त्वम् । 4. हन्तासि - हन् धातुः श्वस्तनी ।