________________
[कर्णिकासमन्विता उपदेशमाला । गाथा-१६१-१६४] ततो दृष्ट्वा पुरोवर्तिमृगतृष्णासरांसि ते । तानि प्रति प्रयान्ति स्म वापी हित्वा जलार्थिनः ॥३॥ कश्चित् तु तानुवाचैवमेषा भो मृगतृष्णिका । यदि वोऽस्ति जलार्थित्वं तदाश्रयत वापिकाम् ॥४॥ ततः केचित्तदाकर्ण्य वापीमेव समाश्रिताः । भूयांसस्त्ववधी/तन्मृगतृष्णां ययुः प्रति ॥५॥ ततो जलमनासाद्य ते विनाशमुपागताः । वापी समाश्रिता ये तु बभूवुस्ते कृतार्थकाः ॥६॥ वापीतुल्योऽत्र विज्ञेयो गुरुगच्छो गुणालयः । धर्मार्थिनस्तु काकाभाश्चारित्रं जलसन्निभम् ॥७॥ मृगतृष्णासरस्तुल्या गुरुगच्छाबहिःस्थितिः । तच्छिक्षादायको ज्ञेयो गीतार्थस्तत्कृपापरः ॥८॥ चारित्राऽपात्रतां प्राप्ताः काकवत् केऽपि कुग्रहात् । गुरुगच्छबहिर्वासं संश्रिता ये तपस्विनः ॥९॥ अल्पास्तु केऽपि सद्बोधात् चारित्रे पात्रतां गताः । काका इवैव ये धन्या गुरुगच्छमुपाश्रिताः ॥१०॥ इति गाथार्थः ॥ अथ गुरुत्यागिन एव कष्टविहारकारित्वेन ये बहुमन्यन्ते तान् शिक्षयितुमाह
__'तेसिं' गाहा-तेषां-गुरुकुलत्यागिनां बहुमानेन-पक्षपातेन कारणभूतेन उन्मार्गानुमोदना-अनागमिका- 10 ऽऽचारानुमतिः, किंफलेत्याह-अनिष्टफला-अनभिमतफला दुर्गतिप्रयोजनेत्यर्थः । आह च
"आणाए अवहंतं जो उवबूहेइ मोहदोसेणं ।
सो आणा अणवत्थं मिच्छत्तविराहणं पावे" ॥१॥ [दं.प./१९५] 'तम्हा'त्ति यस्मादेवं तस्मात्तीर्थकराज्ञास्थितेषु-गुरुकुलवासादिजिनादेशाश्रितेषु साधुषु युक्तः-सङ्गतोऽत्र विचारे बहुमानः पक्षपातो नेतरेष्विति गाथार्थः ॥
15 अथ प्रकृतमुच्यते । एकाकित्वं बहुदोषमुक्त्वा संविग्नानां सर्वापायपरिहारसामर्थ्यं स्यादेवेत्याह
वेसं जुन्नकुमारिं, पउत्थवइयं च बालविहवं च । पासंडरोहमसइं, नवतरुणिं थेरभज्जं च ॥१६२॥ सविडंकोब्भडरूवा, दिट्ठा मोहेइ जा मणं इत्थी ।
आयहियं चिंतिता, दूरयरेणं परिहरंति ॥१६३॥ वेश्यां गणिकां, जीर्णकुमारी प्रौढकन्यां प्रोषितभर्तृकां गतपतिकां, चाः समुच्चयार्थाः, बालविधवां शैशवरण्डितां, पाखण्डरोधाम् अब्रह्मरोधकबहिर्वेषमुद्रां दर्शनिनीमित्यर्थः असती कुलटां, नवतरुणी सद्योयौवनां, स्थविरभार्यां वृद्धपत्नी च । एतासां निरुद्धमन्मथप्रसरतया उन्मार्गवाहित्वेन गाढतराऽपकारित्वदर्शनार्थं विशेषमुक्त्वा सामान्यमाह-'टकि बन्धन' इति वचनात् विटङ्को विबन्धः शुभाध्यवसायस्खलनरूपः, प्रस्तावाद् द्रष्टुः, सविटङ्कं शुभाध्यवसायविबन्धकम्, उद्भटमुदारं रूपं यस्याः सा तथा दृष्टा दृष्टिगोचरं पतिता 25 मोहयति वैचित्र्यमानयति । या काचिन्मनोऽन्तःकरणं स्त्री योषित् ताम् आत्महितं स्वपथ्यं चिन्तयन्तो वाञ्छन्तः साधवो दूरतरेण अतिदूरेण परिहरन्ति वर्जयन्तीति ॥१६२-१६३॥ अत्र स्त्रीणां प्रस्तावात्सर्वविषयमूलनिबन्धनतया उपलक्षणत्वेन अशेषविषयाणामपायहेतुतां निदर्शयति
सम्मद्दिट्ठी वि कयागमो वि अइविसयरागसुहवसओ। भवसंकडम्मि पविसइ, इत्थं तुह सच्चई नायं ॥१६४॥
20
१. गच्छाद - KH, H, B | २. समाश्रिताः ।